Skandapurāṇa Adhyāya 76
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0760010: सनत्कुमार उवाच।
SP0760011: अथ तस्यां सह स्त्रीभिः कौमुद्यां दैत्यदानवाः।
SP0760012: रेमिरे रक्तमनसो देवाः स्वर्गगता इव॥ १॥
SP0760021: तत्र काचिच्छुभापाङ्गी पद्मं दिव्यं मुखोपरि।
SP0760022: मुखारविन्दत्राणार्थं ददौ सोमभयादिव॥ २॥
SP0760031: अपरा चरणेनेत्य प्रियं मत्ताभ्यताडयत्।
SP0760032: शीतांशुरिव पादेन विकचं शरदम्बुजम्॥ ३॥
SP0760041: अपरा राजमार्गाणामनभिज्ञाः कुलस्त्रियः।
SP0760042: स्फाटिकोपचितां भूमिं दृष्ट्वा मुञ्चन्ति पादुकाम्॥ ४॥
SP0760051: उत्कृष्य वसनांश्चान्या विप्रेन्द्र जलशङ्कया।
SP0760052: राजमार्गेषु गच्छन्ति दृष्ट्वा मणिचितां भुवम्॥ ५॥
SP0760061: काचित्प्रियेण संत्यक्ता रक्तेनान्यत्र निर्गता।
SP0760062: गृहाच्चन्द्रांशुभिः स्पृष्टा पपात मदनालसा॥ ६॥
SP0760071: काचित्प्रायेण सन्त्यक्ता विमानात्तत्र निर्गता।
SP0760072: पतितैव च सा सोममुवाचेदं कुलाङ्गना।
SP0760073: भूयो मां त्वं करैस्तीक्ष्णैर्दहसे नलिनीमिव॥ ७॥
SP0760081: मदनेन कथं दग्धां न जीवयसि मां दृढम्॥ ८॥
SP0760091: काश्चिद्रमन्त्यो दोलासु दोलयन्त्यो वरस्त्रियः।
SP0760092: जलचन्द्रा इवाभान्ति वीचीचञ्चलमूर्तयः॥ ९॥
SP0760101: केचिद्गायन्ति सहिताः स्त्रीभिर्दैत्या महाबलाः।
SP0760102: गन्धर्वा नन्दनवने अप्सरोभिर्यथा सह॥ १०॥
SP0760111: राजमार्गः क्वचिद्भाति स्त्रीभिर्बह्वीभिरावृतः।
SP0760112: यथा नभसि चित्रो ऽसौ दिव्यो देवपथः शुभः॥ ११॥
SP0760121: क्वचिन्नूपुरकाञ्चीनां कोकिलानां च निस्वनः।
SP0760122: बभौ श्रोत्रसुखः श्रोतुं कलामदनदीपनः॥ १२॥
SP0760131: क्वचिद्रमणरक्तानां स्त्रीणां व्यास प्रियैः सह।
SP0760132: हृदयव्याकुलकरः श्रूयते मधुरस्वरः॥ १३॥
SP0760141: एवं समभवद्व्यास बहुचित्रस्तदोत्सवः।
SP0760142: दानवानां तदा प्रीतिसौख्यविश्रम्भवर्धनः॥ १४॥
SP0760151: तस्मिन्नुपरते भूयः पूर्ववत्संप्रतिष्ठिते।
SP0760152: प्रकृतिस्थे जने व्यास दानवास्ते समागताः।
SP0760153: विविशुर्भीमसंह्रादाः सभां दिव्यां मनोरमाम्॥ १५॥
SP0760161: जाम्बूनदमयस्तम्भां वज्रवैडूर्यवेदिकाम्।
SP0760162: मुक्तादामावलम्बाढ्यां स्रग्दामोत्तमभूषिताम्॥ १६॥
SP0760171: वज्रवैडूर्यनीलेन्द्रमहानीलाम्रपल्लवैः।
SP0760172: लोहितैः स्फाटिकैश्चैव तथा मरकतैरपि॥ १७॥
SP0760181: दिव्यजालोपसंनद्धां किङ्किणीचित्रशोभिताम्।
SP0760182: बहुपुष्पफलैश्चैव सर्वकामप्रदैर्द्रुमैः॥ १८॥
SP0760191: उपेतां दीर्घिकाभिश्च बहुशय्यासनां शुभाम्।
SP0760192: अक्लमां बहुनिष्यन्दां सर्वदुःखविवर्जिताम्॥ १९॥
SP0760201: सर्वकामसमृद्धां च बहुस्त्रीपुरुषाकुलाम्।
SP0760202: विविशुस्तां सभां दिव्यां दैत्या दर्पसमावृताः॥ २०॥
SP0760211: प्रह्लादश्चानुह्लादश्च शिनिर्बाष्कल एव च।
SP0760212: विरोचनो बलिश्चैव बलिपुत्राश्च विश्रुताः॥ २१॥
SP0760221: सहस्राणि दश द्वे च येषां श्रेष्ठो महाबलः।
SP0760222: बाणो नाम महामायो राजा बाहुसहस्रधृक्॥ २२॥
SP0760231: बाणस्य पुत्रा ये चान्ये सहस्राणि दशैव ते।
SP0760232: मुरो ऽथ मुषुमण्डश्च विप्रचित्तिश्च दानवः॥ २३॥
SP0760241: हलो हयशिराश्चैव शम्बरः कालशम्बरः।
SP0760242: विश्रुतश्चेन्द्रदमनः कालनेमी च दानवः॥ २४॥
SP0760251: तथा सुन्दनिसुन्दौ च विपाकः पाक एव च।
SP0760252: राहुश्च शतकेतुश्च ध्वजस्तारः सतारकः॥ २५॥
SP0760261: महिषो दुन्दुभिश्चैव कालकश्च महाबलः।
SP0760262: अन्धकश्च तथाटिश्च बकः शरभ एव च॥ २६॥
SP0760271: स्वर्भानुर्वृषपर्वा च मधुः कैटभ एव च।
SP0760272: महाकायः शतानन्दः शतदुन्दुभिरेव च॥ २७॥
SP0760281: कार्तस्वनश्च हस्ती च वलो नरक एव च।
SP0760282: ध्वाङ्क्षो मूकेल्वलौ चापि वातापी सासृपुञ्जिकः॥ २८॥
SP0760291: कुण्डलश्चैव मीढश्च पुलोमा चैव विश्रुतः।
SP0760292: धुन्धुश्च शतमायश्च शतावर्तो ऽथ दुःसहः॥ २९॥
SP0760301: चन्द्रसूर्यौ नरश्चैव देवान्तकनरान्तकौ।
SP0760302: ब्रह्महा यज्ञहा चैव इल्वलः पिल्वकस्तथा॥ ३०॥
SP0760311: मयश्च दानवश्रेष्ठो मयपुत्राश्च विश्रुताः।
SP0760312: तेषामष्टौ सहस्राणि सर्वे च कृतनिश्चयाः॥ ३१॥
SP0760321: वृत्रश्च दानवश्रेष्ठो नमुचिर्भजहस्तथा।
SP0760322: शतोदरश्च व्यंसश्च तथायश्च ह्रदोदरः॥ ३२॥
SP0760331: केशी प्रलम्बश्च तथा कबन्धो धेनुकश्च ह।
SP0760332: हालो गार्ग्यशिराश्चैव कुशः शम्भुस्तथैव च॥ ३३॥
SP0760341: तथा गगनमूर्ध्ना च सालुकः साल्व एव च।
SP0760342: मेघनादश्च विख्यातो महानादस्तथैव च॥ ३४॥
SP0760351: खरो ऽथ खररोमा च सूचीलोमा च दानवः।
SP0760352: परिघो ऽपरिघश्चैव दण्डः काश्यप एव च॥ ३५॥
SP0760361: दुन्दुभिश्च महाकायः सैंहिकेयश्च यो गणः।
SP0760362: तथा हालाहलश्चैव अन्धकारक एव च॥ ३६॥
SP0760371: पौलोमाः षष्टिसाहस्राः कालकेयाश्च विश्रुताः।
SP0760372: कालकञ्जाः सहस्राणि अष्टौ ते देवकण्टकाः॥ ३७॥
SP0760381: निवातकवचानां च तिस्रः कोट्यो महाबलाः।
SP0760382: ता एता गणिताः सर्वाः कोट्यः षष्टिः सुरद्विषाम्॥ ३८॥
SP0760391: तत्पक्षान्वर्जयित्वा तु मनुष्यान्पन्नगानपि।
SP0760392: राक्षसाश्च पिशाचाश्च यक्षाः पक्षिण एव च।
SP0760393: तेषामपि तदा व्यास कोट्यो विंशतिसंगताः॥ ३९॥
SP0760401: ते तां सभां समाविश्य सर्वे दर्पात्सुरद्विषः।
SP0760402: सविद्युदुल्का भान्ति स्म प्रावृड्जलधरा इव॥ ४०॥
SP0760411: ते स्रवन्त इवाम्भोदाः सधूमा इव पर्वताः।
SP0760412: महिषा इव नर्दन्तः केतवो ऽनागता इव॥ ४१॥
SP0760421: उत्पाता इव निघ्नन्तः सविषा इव पन्नगाः।
SP0760422: गजा इव च संमत्ताः पवना इव वेगिताः।
SP0760423: सुराणां विप्रकारार्थं तस्थुरापूर्य तां सभाम्॥ ४२॥
SP0760431: अथ गत्वा सभापालो राजानमिदमब्रवीत्।
SP0760432: सुखासीनं तदा व्यास सिंहासनगतं युवा॥ ४३॥
SP0760441: प्रणम्य शिरसा पूर्वं जानुभ्यामवनिं गतः।
SP0760442: बद्धाञ्जलिपुटः सम्यग्वाचा श्लक्ष्णपदाक्षरम्॥ ४४॥
SP0760451: स्वामी जयतु सर्वेषामसुराणां जयावहः।
SP0760452: प्रह्लादाद्याः सभां सर्वे विप्रचित्तिपुरोगमाः।
SP0760453: प्राप्ता विदितमस्त्वेव यदन्यत्कर्तुमर्हसि॥ ४५॥
SP0760460: सनत्कुमार उवाच।
SP0760461: ततः सुरद्विषः श्रुत्वा सर्वान्प्राप्तान्सभां तदा।
SP0760462: उत्तस्थौ सहसा राजा शक्रकेतुरिवोत्सवे॥ ४६॥
SP0760471: स किरीटी महादंष्ट्रो मुञ्जकेशो महाहनुः।
SP0760472: आ कर्णाद्दारितास्यश्च महाछत्त्रशिरास्तथा॥ ४७॥
SP0760481: आजानुबाहुर्वृत्ताक्षः पिङ्गाक्षश्चोर्ध्वरोमवान्।
SP0760482: वज्रसंहननश्चैव महायोगी महाबलः।
SP0760483: किरीटेनातिसंभाति रविणेवोदयस्तथा॥ ४८॥
SP0760491: हारवर्याङ्कितोरस्कः सबलाक इवाम्बुदः।
SP0760492: सपुत्रः प्रययौ व्यास हिमवानिव मूर्तिमान्॥ ४९॥
SP0760501: स तां तदा दानवराजसत्तमो विचित्ररत्नांशुपरीतकुण्डलः।
SP0760502: सभां विवेशासुरदैत्यपुङ्गवैः समावृतां द्यामुदितैर्ग्रहैरिव॥ ५०॥
SP0769999: इति स्कन्दपुराणे षट्सप्ततितमो ऽध्यायः॥