Skandapurāṇa Adhyāya 75
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0750010: सनत्कुमार उवाच।
SP0750011: सो ऽष्टाभिर्दानवैः सार्धं गत्वा तत्पुरमन्तिके।
SP0750012: निवेदयामास पितुः कृतार्थो ऽन्धक आगतः॥ १॥
SP0750021: प्रियाख्यातुस्ततो व्यास हिरण्याक्षो ऽसुरेश्वरः।
SP0750022: ददौ रत्नान्यनेकानि तथा कामानभीप्सितान्॥ २॥
SP0750031: स्वयं राजा तदा सर्वैः सुहृद्भिः सह वाहनैः।
SP0750032: सह स्त्रीभिर्ययौ तूर्णं सोमस्तारागणैरिव॥ ३॥
SP0750041: स गत्वा नातिदूरे ऽथ वने साशोकचम्पके।
SP0750042: आससाद सुतं श्रीमान्सोमो बुधमिवापरम्॥ ४॥
SP0750051: कृतार्थं स तु तं दृष्ट्वा तुष्टो ऽभूद्दानवेश्वरः।
SP0750052: स्नेहात्स तं परिष्वज्य मूर्ध्न्युपाघ्राय चासकृत्॥ ५॥
SP0750061: कथं केन च कालेन के च लब्धा वरास्त्वया।
SP0750062: पृष्टः स कथयामास यथावृत्तमशेषतः॥ ६॥
SP0750071: तस्य तद्वरदानं च तथा माहात्म्यमेव च।
SP0750072: श्रुत्वा ते ऽसुरशार्दूलाः प्रणेदुः सागरा इव॥ ७॥
SP0750080: सनत्कुमार उवाच।
SP0750081: ततस्तं रथमारोप्य हिरण्याक्षो ऽन्धकं सुतम्।
SP0750082: सुहृद्भिस्तैः सहैवाशु प्रविवेश स्वकं पुरम्॥ ८॥
SP0750091: स पुत्रसहितो भाति दैत्यः संपूर्णमानसः।
SP0750092: चरन्राशिमिवादित्यो यथा सहशनैश्चरः॥ ९॥
SP0750100: सनत्कुमार उवाच।
SP0750101: ततः प्रविश्य दैत्येन्द्रः सुहृद्वर्गमुवाच ह।
SP0750102: अध्वर्युरिव सायाह्ने यथान्यानृत्विजः शुभान्॥ १०॥
SP0750110: हिरण्याक्ष उवाच।
SP0750111: शृणुध्वं यदिदानीं मे कृत्यं हृदि चिरस्थितम्।
SP0750112: कर्तव्यं सह सर्वैस्तु युष्माभिर्भीमविक्रमैः॥ ११॥
SP0750121: मया मनीषितं पूर्वं कृतकृत्य इहागते।
SP0750122: अन्धके नगरे ऽस्मिन्वै कर्ताहं कौमुदीमिति॥ १२॥
SP0750131: मखघ्नस्य च देवस्य देवरात्रिं महाप्रभाम्।
SP0750132: करिष्यामीति तत्सर्वं क्रियतामविशङ्कया॥ १३॥
SP0750141: घुष्यतां नगरे ह्यस्मिंश्चत्वरेषु सभासु च।
SP0750142: कौमुदी दिवसानष्टौ सप्त चैव ममाज्ञया।
SP0750143: तावदेव च देवस्य सन्तु मे देवरात्रयः॥ १४॥
SP0750151: सुहृदो ये च दैत्येन्द्रा दानवाश्च महाबलाः।
SP0750152: सर्वासु दिक्षु ते ऽपीह समायान्तु रमन्तु च॥ १५॥
SP0750161: अस्मत्पक्षे च ये विप्राः शुक्रप्रभृतयः शुभाः।
SP0750162: नागा रक्षांसि यक्षाश्च गन्धर्वा मनुजास्तथा।
SP0750163: ते ऽपि सर्वे समायान्तु रमन्तु च मया सह॥ १६॥
SP0750170: सनत्कुमार उवाच।
SP0750171: त एवमुक्ता दैत्येन्द्रा हिरण्याक्षेण धीमता।
SP0750172: तथा चक्रुस्तदा सर्वं यथोक्तममरद्विषा॥ १७॥
SP0750181: दूतानप्रेषयन्क्षिप्रं दैत्यानां दानवैः सह।
SP0750182: तथान्येषां च पक्षाणामात्मनः शक्तिनन्दन॥ १८॥
SP0750191: निमन्त्रयति वो राजा हिरण्याक्षो महाबलः।
SP0750192: सुहृद्वर्गैस्तु सहिता गच्छध्वं तं दिदृक्षवः॥ १९॥
SP0750201: घण्टिकश्चाहतैर्वस्त्रैर्वेष्टितः सुविभूषितः।
SP0750202: आरूढः पाण्डरं मत्तं गजं समवघोषयत्॥ २०॥
SP0750211: राजा जयति दैत्येन्द्रो हिरण्याक्षः प्रतापवान्।
SP0750212: हता दैत्यद्विषः सर्वे दानवानां च शत्रवः॥ २१॥
SP0750221: जयाय दितिपुत्राणामादित्यानां भयाय च।
SP0750222: प्रातःप्रभृति राजा व आज्ञापयति कौमुदीम्।
SP0750223: देवरात्रिं च देवस्य रुद्रस्य सुरनाशनीम्॥ २२॥
SP0750231: सुसंमृष्टोपलिप्ताभी रथ्याभिः क्रियतां पुरम्।
SP0750232: वासोभिरहतैः सर्वे भवन्तु पुरवासिनः।
SP0750233: स्रग्मिणः सशिरःस्नाता दत्तपङ्का यथाक्रमम्॥ २३॥
SP0750241: गायन्तु गायनाश्चैव नृत्यन्तु नटनर्तकाः।
SP0750242: उच्छ्रियन्तां पताकाश्च गृहवीथ्यापणेषु च॥ २४॥
SP0750251: गृहाणि चोपलिप्तानि नित्यमेव भवन्तु वः।
SP0750252: पुष्पप्रकरजुष्टानि धूपैर्नानाविधैरपि।
SP0750253: स्रग्दामवन्ति सर्वाणि वनमालाकुलानि च॥ २५॥
SP0750261: ब्राह्मणाश्चैव भोज्यन्तां क्रियन्तां वाचनानि च।
SP0750262: ब्रह्मघोषाश्च सर्वत्र पुण्याहोदीरणानि च॥ २६॥
SP0750271: दीपा रात्रौ च सर्वत्र राजमार्गे गृहेषु च।
SP0750272: अनन्तराः क्रियन्तां वै प्रचुरस्नेहवर्तयः॥ २७॥
SP0750281: तरुणाः सह योषिद्भिः समन्तात्पर्यटन्तु च।
SP0750282: रममाणा हसन्तश्च गायन्तो नृत्तसेविनः।
SP0750283: भाण्डवाद्यानि वाद्यन्तां नृत्यन्तां दैत्ययोषितः॥ २८॥
SP0750291: महादेवस्य पूजां च गन्धपुष्पादिकीं शुभाम्।
SP0750292: उपहारांश्च विविधान्स्नपनानि महान्ति च॥ २९॥
SP0750301: बलयः पुष्कलाश्चैव भक्ष्यभोज्यैरलंकृताः।
SP0750302: दीपांश्च विविधाकारान्पानानि च रसांस्तथा॥ ३०॥
SP0750311: फलानि च विचित्राणि मांसं पक्वमथामकम्।
SP0750312: सुवर्णमणिचित्राणि ईश्वराय प्रयच्छत।
SP0750313: वध्यन्तां पशवश्चात्र भोज्यन्तां द्विजसत्तमाः॥ ३१॥
SP0750321: यो न कुर्यादिदं सर्वं पुरवासी नरः क्वचित्।
SP0750322: पातयेत्तस्य शारीरं राजा दण्डं महायशाः॥ ३२॥
SP0750330: सनत्कुमार उवाच।
SP0750331: एवं संघोषयित्वा तु घाण्टिको हस्तिपृष्ठगः।
SP0750332: जगाम स्वगृहं भूयः कौमुदी चाप्यवर्तत।
SP0750333: यथोक्तं तत्तदा सर्वमकुर्वन्त पुरे जनाः॥ ३३॥
SP0750341: राजापि संयतः स्नातः शुचिः प्रयतमानसः।
SP0750342: दिवसे दिवसे व्यास स्नापयामास यत्नवान्॥ ३४॥
SP0750351: पञ्चगव्येन शुद्धेन तैलेन च सुगन्धिना।
SP0750352: क्षीरेण सर्पिषा दध्ना रसैश्च बहुभिः शुभैः॥ ३५॥
SP0750361: पुष्पैः फलैश्च बीजैश्च रत्नैश्चाद्भिः समन्वितैः।
SP0750362: भस्मना गन्धयुक्तेन उदकेन सुगन्धिना॥ ३६॥
SP0750371: एकैकस्य स्वयं राजा घटानां दशभिः शतैः।
SP0750372: दिवसे दिवसे व्यास त्र्यम्बकं सो ऽभ्यषेचयत्॥ ३७॥
SP0750381: गन्धैः पुष्पैश्च धूपैश्च जप्यैर्बलिभिरेव च।
SP0750382: पूजयित्वा ततो राजा विप्रानन्यांश्च भोजयेत्॥ ३८॥
SP0750391: स कृत्वा पशुभिर्मेध्यै रत्नैर्मणिभिरेव च।
SP0750392: बलिशय्यासनाद्यैश्च स्तूयमानो गृहान्ययौ॥ ३९॥
SP0750401: तथैवान्ये ऽपि दैत्येन्द्राः सो ऽन्धकश्च महाबलः।
SP0750402: चक्रुः सर्वे मुनिश्रेष्ठ यथा राजा तथैव ते॥ ४०॥
SP0750411: अन्धकं स गृहीत्वा तु हिरण्याक्षः प्रतापवान्।
SP0750412: पद्भ्यामपातयद्व्यास रुद्रस्येदमुदाहरन्॥ ४१॥
SP0750421: एष देवः सदा पुत्र तवास्तु सुमुखः प्रभुः।
SP0750422: अस्मिन्भक्तिस्त्वया कार्या भाविता परमेश्वरे॥ ४२॥
SP0750431: एष वन्द्यश्च पूज्यश्च अतो नास्ति परो गुरुः।
SP0750432: पूजयेथाः सदैवैनं भक्तितः परमेश्वरम्॥ ४३॥
SP0750440: सनत्कुमार उवाच।
SP0750441: स एवमुक्त्वा प्रणिपत्य शंकरं महासुरः सो ऽसुरदानवेश्वरः।
SP0750442: जगाम धीमान्पुनरेव निर्वृतो निवेशनं देवपतिर्यथा स्वकम्॥ ४४॥
SP0759999: इति स्कन्दपुराणे पञ्चसप्ततितमो ऽध्यायः॥