Skandapurāṇa Adhyāya 73
E-text generated on February 12, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.
SP0730010: व्यास उवाच।
SP0730011: अन्धकः कस्य पुत्रो ऽसौ किंवीर्यः किंपराक्रमः।
SP0730012: कथं च निहतः संख्ये सर्वमेतद्वदस्व मे॥ १॥
SP0730020: सनत्कुमार उवाच।
SP0730021: शृणु व्यास महाबुद्धे सर्वमेतद्यथाभवत्।
SP0730022: अन्धकस्य पुरावृत्तं सर्वं वक्ष्यामि ते द्विज॥ २॥
SP0730031: कश्यपस्य सुतौ दित्यां दैत्यौ तौ संबभूवतुः।
SP0730032: हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षस्ततो ऽनुजः।
SP0730033: ज्येष्ठस्तत्राभवद्राजा हिरण्यकशिपुस्तदा॥ ३॥
SP0730041: तस्मिन्विनिहते वीरे नरसिंहेन धीमता।
SP0730042: हिरण्याक्षो ऽभवद्राजा सर्वदैत्यनमस्कृतः।
SP0730043: अपुत्रः स तपस्तेपे पुत्रहेतोरिति श्रुतिः॥ ४॥
SP0730051: स शङ्कुकर्णं संप्राप्य सिन्धुसागरसंगमे।
SP0730052: तपस्तेपे दितेः पुत्रो देवं द्रष्टुं पिनाकिनम्॥ ५॥
SP0730060: व्यास उवाच।
SP0730061: कथं तदभवद्दिव्यं पवित्रं लोकविश्रुतम्।
SP0730062: शङ्कुकर्णं महेशस्य क्षेत्रं सर्वार्थसाधकम्।
SP0730063: यत्फलं पुण्यसम्पच्च तन्मे व्याख्यातुमर्हसि॥ ६॥
SP0730070: सनत्कुमार उवाच।
SP0730071: पुरा हि भगवान्देवः कपर्दी नीललोहितः।
SP0730072: सिन्धुसागरमागम्य लोकानुग्रहहेतवे।
SP0730073: तपः कर्तुं समारेभे यदचिन्त्यं सुरासुरैः॥ ७॥
SP0730081: दशस्वपि ततो दिक्षु रक्षणार्थं जगत्पतिः।
SP0730082: स्थापयामास गणपान्निकुम्भादीन्सहस्रशः॥ ८॥
SP0730091: शङ्कुकर्णं महादंष्ट्रं स्थूलाक्षं स्थूलनासिकम्।
SP0730092: ह्रस्वपादकरं चैव दारितास्यं विभीषणम्।
SP0730093: शार्दूलचर्मसंछन्नं द्वीपिचर्मोत्तरच्छदम्॥ ९॥
SP0730101: शङ्कुकर्णमिति ख्यातं गणेशं सुमहाबलम्।
SP0730102: समाहूय समीपं तु भगवानिदमब्रवीत्॥ १०॥
SP0730111: स्वैस्त्वं गणेश्वरैः सार्धं न विशेयुर्यथा सुराः।
SP0730112: तथा पाहि वनं वत्स यावदेतद्व्रतं मम॥ ११॥
SP0730121: एवं स कृत्वा रक्षां तु महादेवो वृषध्वजः।
SP0730122: तपस्तेपे महत्तत्र घोरं परमदुश्चरम्॥ १२॥
SP0730131: अथाजग्मुः सुरास्तत्र सर्वे शक्रपुरोगमाः।
SP0730132: निरुद्धाः शङ्कुकर्णेन न चेलुः पदमग्रतः॥ १३॥
SP0730140: देवा ऊचुः।
SP0730141: भो गणेशा वयं देवं शर्वमुग्रं कपर्दिनम्।
SP0730142: द्रष्टुं कार्येण संप्राप्तास्तं नो दर्शयतानघाः।
SP0730143: आकुलास्तमपश्यन्तो नश्याम प्रमथेश्वराः॥ १४॥
SP0730150: शङ्कुकर्ण उवाच।
SP0730151: न युष्माभिः सुराः शक्यो देवो द्रष्टुं कथंचन।
SP0730152: तपः कुरुत भद्रं वो ततो द्रक्ष्यथ शंकरम्॥ १५॥
SP0730160: देवा ऊचुः।
SP0730161: मा लोकानां विनाशः स्याद्गणेश्वर महाद्युते।
SP0730162: इति प्रयच्छ नो द्वारं प्रसादं कुरु नः प्रभो॥ १६॥
SP0730170: शङ्कुकर्ण उवाच।
SP0730171: लोका नश्यन्तु यूयं वा न प्रवेशः प्रदीयते।
SP0730172: विनष्टान्पुनरेवेशः स्रक्ष्यते भुवनेश्वरः॥ १७॥
SP0730181: स्रष्टा स एव भूतानां स विनाशयिता तथा।
SP0730182: तं विना कः सुराः शक्तो लोकान्नाशयितुं विभुम्।
SP0730183: यच्छाम न वयं द्वारमाज्ञा नः परमेश्वरी॥ १८॥
SP0730191: त एवमुक्ताः संचिन्त्य जग्मुर्ब्रह्मसदः सुराः।
SP0730192: ततो निवेदयामासुर्ब्रह्मणस्ते सुरोत्तमाः॥ १९॥
SP0730201: अथ ब्रह्मा सुरानाह मया सह पुनः सुराः।
SP0730202: गच्छध्वं गणपान्यावत्प्रत्यापत्तिं नयामि वः॥ २०॥
SP0730211: ततस्ते ब्रह्मणा सार्धं विष्णुना च दिवौकसः।
SP0730212: तमेव पुनराजग्मुस्तिष्ठते यत्र शंकरः॥ २१॥
SP0730221: अथ तान्पुनरेवाशु रुरोध गणपेश्वरः।
SP0730222: शङ्कुकर्णो गणाध्यक्षस्तेजसा प्रज्वलन्निव॥ २२॥
SP0730231: अथ ब्रह्मा तमाहेदं सान्त्वमर्थयुतं वचः।
SP0730232: गणेश्वर न देवानां दौष्ट्यं किंचिद्धि विद्यते।
SP0730233: तव प्रसादात्पश्यन्तु देवदेवं वृषध्वजम्॥ २३॥
SP0730241: शिरसा प्रणतास्तुभ्यं देवाः सेन्द्रपुरोगमाः।
SP0730242: अहं च विष्णुना सार्धं प्रयाचेम गणेश्वर॥ २४॥
SP0730251: तस्य तद्वचनं श्रुत्वा ब्रह्मणः स गणेश्वरः।
SP0730252: क्रुद्धः पट्टसमुद्यम्य वचः प्रोवाच निष्ठुरम्॥ २५॥
SP0730261: न मे गुरुतरो देवाः प्रणामो भवतामयम्।
SP0730262: आज्ञा गरीयसी शम्भोर्न प्रवेशो ऽस्ति कश्चन॥ २६॥
SP0730271: प्रतिषिद्धाः कथं ब्रह्मन्नियुक्ता रक्षणाय च।
SP0730272: ईशाज्ञां समतिक्रम्य प्रयच्छाम प्रवेशनम्॥ २७॥
SP0730281: तस्य तद्वचनं श्रुत्वा गणेशस्य महात्मनः।
SP0730282: एकान्तं प्रययौ ब्रह्मा लज्जया परयान्वितः॥ २८॥
SP0730291: ततो देवास्तथा दृष्ट्वा व्रीडायुक्तं पितामहम्।
SP0730292: क्रुद्धा मन्युपरीताङ्गा वाक्यमूचुर्गणेश्वरम्॥ २९॥
SP0730301: गणाधिप न ते लज्जा गुरुमाक्रोशसे कथम्।
SP0730302: नैवं त्वां विब्रुवन्तं हि क्षंस्यते वृषभध्वजः॥ ३०॥
SP0730311: अवमानं पुनर्मैवं त्वमस्माकं कृथा गण।
SP0730312: माद्य ते वयमुद्युक्ता नाशयिष्याम जीवितम्॥ ३१॥
SP0730321: तेषां तद्वचनं श्रुत्वा शङ्कुकर्णो रुषान्वितः।
SP0730322: वचः प्रोवाच संक्रुद्धस्तिर्यग्वीक्ष्य दिवौकसः॥ ३२॥
SP0730331: गुरवः किं भवन्तो मे येन शङ्के ऽमराधिपाः।
SP0730332: प्रसाद्य शंकरं यूयं गता देवत्वमुत्तमम्।
SP0730333: गणभूताः सुरेशस्य यूयमप्यमरोत्तमाः॥ ३३॥
SP0730341: वयमप्यतियोगीशा गणपास्तस्य शूलिनः।
SP0730342: समाना यूयमस्माकं हीना वा त्रिदिवौकसः॥ ३४॥
SP0730351: यस्माद्वयं सदेशानं पश्यामो ऽनुचराम च।
SP0730352: सर्वैरेव सुरैस्तस्माद्वयं पूज्याः सदाधिकाः॥ ३५॥
SP0730361: पश्यामो निर्भया यूयं प्रवेशं कुरुतामराः।
SP0730362: यावदद्य गणेशानां बलं द्रक्ष्यथ दारुणम्॥ ३६॥
SP0730371: यद्वो बलं च योगं च यत्तपो यश्च वः श्रमः।
SP0730372: तत्सर्वं दर्शयध्वं वै ततो ज्ञास्यथ मे बलम्॥ ३७॥
SP0730381: तस्य तद्वचनं श्रुत्वा सर्वे देवाः सगर्विताः।
SP0730382: प्रगृहीतायुधाः क्षिप्रं शङ्कुकर्णं विदुद्रुवुः॥ ३८॥
SP0730391: तेषामापततां व्यास सुराणां शूरमानिनाम्।
SP0730392: बलं जग्राह योगेन शङ्कुकर्णो महाबलः॥ ३९॥
SP0730401: निगृहीतबलास्ते तु सर्व एव सुरोत्तमाः।
SP0730402: नाशक्नुवन्पदं दातुं तस्थुः स्तम्भा इवाचलाः॥ ४०॥
SP0730411: निगृहीतेषु देवेषु विष्णुः प्रहरतां वरः।
SP0730412: अभिदुद्राव वेगेन शङ्कुकर्णं गणेश्वरम्।
SP0730413: स योगेन तदा विष्णोर्देहमस्तम्भयद्बली॥ ४१॥
SP0730421: स योगं पुनरास्थाय विष्णुरैश्वर्यसंयुतः।
SP0730422: युयुधे शङ्कुकर्णेन स चैनं प्रत्ययुध्यत॥ ४२॥
SP0730431: तयोस्तु योगीश्वरयोर्युक्तयोर्मुनिसत्तम।
SP0730432: बभूव सुमहद्युद्धं योगेनैव परस्परम्॥ ४३॥
SP0730441: विनिगृह्य स तं विष्णुं गणेशः शर्ववल्लभः।
SP0730442: पितरं मम योगेन युयोध परमाद्भुतम्॥ ४४॥
SP0730451: सुसूक्ष्मं योगमास्थाय ब्रह्मा भूतान्यथाविशत्।
SP0730452: यद्यद्विशत्यसौ भूतं ब्रह्मा लोकपितामहः।
SP0730453: तत्र तत्र स्थितं ह्यग्रे शङ्कुकर्णमवैक्षत॥ ४५॥
SP0730461: स भूतानि समुत्सृज्य तन्मात्राण्यविशत्प्रभुः।
SP0730462: इन्द्रियाण्यथ तत्त्वानि भावांश्चैव पितामहः॥ ४६॥
SP0730471: तत्र तत्र स योगात्मा योगं परममास्थितम्।
SP0730472: अपश्यत्स्थूलशिरसं शङ्कुकर्णं महाबलम्॥ ४७॥
SP0730481: अथास्मिन्नन्तरे व्यास देवदेवस्य शूलिनः।
SP0730482: दिव्यं वर्षसहस्रं तु प्रययौ द्वादशात्मकम्।
SP0730483: समाप्तं चाभवद्व्यास व्रतं तस्य महात्मनः॥ ४८॥
SP0730491: स समाप्ते व्रते तस्मिन्युगान्ताग्निसमद्युतिः।
SP0730492: अवैक्षत दिशः सर्वा जीवयन्निव शंकरः॥ ४९॥
SP0730501: सो ऽपश्यन्निगृहीतांस्तान्सर्वानेव दिवौकसः।
SP0730502: साम्नैव स तदा देवः शङ्कुकर्णं न्यवारयत्॥ ५०॥
SP0730511: सम्यगाज्ञा कृता वत्स त्वया मे गणपेश्वर।
SP0730512: मुञ्च देवानिमान्सर्वान्मावमंस्था गणेश्वर॥ ५१॥
SP0730521: एवं देवेन संप्रोक्तः शङ्कुकर्णो गणाधिपः।
SP0730522: विमुच्य देवतान्सर्वांस्तस्थौ देवसमीपतः॥ ५२॥
SP0730531: सुरा अपि तदा सर्वे व्रीडया परयान्विताः।
SP0730532: प्रणेमुर्देवदेवेशं भक्त्या परमया विभुम्॥ ५३॥
SP0730541: तांस्तदा वृडितान्देवः प्रहस्य विदितात्मवान्।
SP0730542: उवाच ब्रह्मणा सार्धं विष्णुमाभाष्य सुस्वरम्॥ ५४॥
SP0730551: गणेश्वरो ऽयं देवेशा मच्छासनपरः सदा।
SP0730552: यदनेन कृतं किंचिद्व्येतु तद्वः सुरोत्तमाः।
SP0730553: कर्तव्यं यच्च तद्ब्रूत यदर्थं यूयमागताः॥ ५५॥
SP0730560: ब्रह्मोवाच।
SP0730561: शङ्कुकर्णो ह्ययं श्रीमान्गणेशो येन नो बलम्।
SP0730562: हृतं योगेन देवेश वरो ऽस्मै संप्रदीयताम्।
SP0730563: अस्मभ्यं परतो दद्याः सदादर्शनमात्मनः॥ ५६॥
SP0730570: देव उवाच।
SP0730571: अस्यैवेदं भवेन्नाम्ना पवित्रं लोकविश्रुतम्।
SP0730572: शङ्कुकर्णमिति ख्यातं तथा स्थूलेश्वरं शुभम्॥ ५७॥
SP0730581: समन्ताद्योजनमिदं सर्वतीर्थसमन्वितम्।
SP0730582: सर्वयज्ञफलैर्जुष्टं सर्वदानफलैर्युतम्॥ ५८॥
SP0730591: यो ऽभ्यागत्य चरुं कृत्वा मां यत्नेनार्चयिष्यति।
SP0730592: अहोरात्रोपवासेन मम लोकं स यास्यति॥ ५९॥
SP0730601: यत्किंचिन्नियमं कृत्वा यो ऽत्र संवत्सरं वसेत्।
SP0730602: स योगं परमं प्राप्य शङ्कुकर्णसमो भवेत्॥ ६०॥
SP0730611: यश्च प्राणानिह क्षेत्रे त्यजेन्नियममास्थितः।
SP0730612: स देहभेदमासाद्य महागणपतिर्भवेत्।
SP0730613: पितॄणामक्षयं श्राद्धमिह दत्तं भविष्यति॥ ६१॥
SP0730621: यूयं चैश्वर्यसंपन्नास्तपोयोगबलान्विताः।
SP0730622: नित्यं द्रक्ष्यथ मां देवाः प्रयता विगतज्वराः॥ ६२॥
SP0730631: ततो देवो वरं दत्त्वा देवेभ्यः प्रभुरीश्वरः।
SP0730632: प्रकामं दर्शनं नित्यं तत्रैवान्तरधीयत॥ ६३॥
SP0730641: गते तस्मिन्महादेवे ब्रह्मा सुरवरैर्वृतः।
SP0730642: तत्र लिङ्गं प्रतिष्ठाप्य चक्रे तीर्थान्यनेकशः॥ ६४॥
SP0730651: दशाश्वमेधिकं तीर्थं तीर्थं पञ्चाश्वमेधिकम्।
SP0730652: सुराणां चैव तीर्थानि कृत्वा स्वभवनं ययौ॥ ६५॥
SP0730661: एतत्ते कथितं व्यास सिन्धुसागरसंगमे।
SP0730662: परं भगवतः स्थानं पवित्रं लोकविश्रुतम्॥ ६६॥
SP0730671: सिद्धचारणसंकीर्णमप्सरोगणसेवितम्।
SP0730672: बहुपुष्पफलोपेतं सदाविहगनादितम्॥ ६७॥
SP0730681: तस्मिन्गत्वा वने व्यास हिरण्याक्षः प्रतापवान्।
SP0730682: पुत्रहेतोस्तपस्तेपे ध्यायमानस्त्रिलोचनम्॥ ६८॥
SP0730691: अथ देवस्तदा गत्वा सगणो वृषभध्वजः।
SP0730692: रम्यं हिमगिरेः शृङ्गं मैनाकमिति विश्रुतम्।
SP0730693: तस्थौ परमयोगीशः परं ब्रह्म सनातनम्॥ ६९॥
SP0730701: तस्यागत्य तदा देवी संस्थिता पृष्ठतः शनैः।
SP0730702: कराभ्यां पद्मतुल्याभ्यां नेत्रे शम्भोर्न्यमीलयत्।
SP0730703: जानीते नेति संचिन्त्य क्रीडार्थं हिमवत्सुता॥ ७०॥
SP0730711: अथ तस्मिन्क्षणे व्यास जगदन्धमजायत।
SP0730712: अप्रदृश्यं हि तमसा तथा भूतं पुरा यथा॥ ७१॥
SP0730721: अथ देवस्तदा बुद्ध्वा तृतीयं नेत्रमव्ययम्।
SP0730722: ललाटे ऽसृजदूर्ध्वस्थं युगान्ताग्निसमप्रभम्।
SP0730723: तेजसा तस्य नेत्रस्य स गिरिर्भस्मसाद्भवत्॥ ७२॥
SP0730731: पार्वती पितरं दृष्ट्वा तथा दग्धं पिनाकिना।
SP0730732: अपनीय करौ तस्थौ विषण्णा पतिपार्श्वतः॥ ७३॥
SP0730741: अथ देवस्तदा दृष्ट्वा विषण्णवदनामुमाम्।
SP0730742: सौम्येन चक्षुषा शैलमपश्यत्पुनरेव तु।
SP0730743: स तथादृष्टमात्रस्तु पुनः पौराणिको ऽभवत्॥ ७४॥
SP0730751: प्रकृतिस्थं पुनर्दृष्ट्वा देवी पितरमव्ययम्।
SP0730752: प्रणम्योवाच भर्तारं हृषितास्या गिरीन्द्रजा॥ ७५॥
SP0730761: शैल एष त्वया देव किमर्थं भस्मसात्कृतः।
SP0730762: किमर्थं प्रकृतिस्थश्च पुनरेव कृतः प्रभो॥ ७६॥
SP0730771: तस्यास्तद्वचनं श्रुत्वा प्रोवाच परमेश्वरः।
SP0730772: लोचने मे त्वया देवि यस्मिन्काले निमीलिते।
SP0730773: अन्धाः समभवंल् लोकास्तदा सर्वे तमोवृताः॥ ७७॥
SP0730781: प्रकाशार्थं ततो देवि नेत्रमेतन्मया कृतम्।
SP0730782: ललाटे सुमहद्येन दग्धो ऽयमचलोत्तमः॥ ७८॥
SP0730791: त्वां च दीनां पितृवधादुपलक्ष्य ततः शुभे।
SP0730792: प्रियार्थं तव सुश्रोणि प्रकृतिस्थः पुनः कृतः॥ ७९॥
SP0730801: अस्मिंश्च तमसा ग्रस्ते लोके तीव्रेण सर्वतः।
SP0730802: उत्पन्नो ऽन्धः प्रभावेन मम देवि तथैव च।
SP0730803: तप्यमानाय दास्यामि हिरण्याक्षाय तं सुतम्॥ ८०॥
SP0730811: एवमुक्त्वा स भगवान्प्रगृह्यान्धं गणैर्वृतः।
SP0730812: सिन्धुसागरमागम्य हिरण्याक्षमुवाच ह॥ ८१॥
SP0730821: पश्य मां त्वं दितेः पुत्र चक्षुर्दिव्यं ददानि ते।
SP0730822: शर्वो ऽहमागतो दैत्य वरं ब्रूहि यथेप्सितम्॥ ८२॥
SP0730831: स प्रोत्थाय हिरण्याक्षः प्रणम्य शिरसा भवम्।
SP0730832: वरमप्रार्थयद्देवं पुत्रं दत्स्वेति सत्वरम्॥ ८३॥
SP0730841: तमुवाच सुरश्रेष्ठः शिरसा पादयोर्नतम्।
SP0730842: अयं ते ऽसुरशार्दूल पुत्रः पुत्रशताग्रजः।
SP0730843: मावज्ञामन्ध इत्यस्य कुर्यास्त्वमसुराधिप॥ ८४॥
SP0730851: भविता ते महानेष तपोवीर्यबलान्वितः।
SP0730852: न कस्यचिदयं वध्यो मत्तो ऽन्यस्य भविष्यति॥ ८५॥
SP0730861: ततः स भगवान्देवस्तस्मै दत्त्वा सुतं शुभम्।
SP0730862: जगाम शिखरं रम्यं मैनाकं पुनरेव तु॥ ८६॥
SP0730871: आदायान्धं सुतं सो ऽपि हिरण्याक्षो महासुरः।
SP0730872: स्वमश्मकपुरं यात्वा भार्यामाह यशस्विनीम्॥ ८७॥
SP0730881: अयं तुभ्यं सुतो देवि दत्तो भगवता स्वयम्।
SP0730882: संवर्धयैनं योगेन मा प्रमादं कृथाः क्वचित्।
SP0730883: तस्याः स्नेहेन तं दृष्ट्वा स्तनाभ्यां प्रस्रुतं पयः॥ ८८॥
SP0730891: संवर्ध्यमानः कालेन सो ऽन्धकः समवर्धत।
SP0730892: यदा तु यौवनं प्राप्तस्तदैव समचिन्तयत्॥ ८९॥
SP0730901: धिग्जीवितं ममान्धस्य मृत्युरेव वरो मम।
SP0730902: यो ऽहमन्धो न पश्यामि गृहसंबन्धिबान्धवान्॥ ९०॥
SP0730911: धन्यास्ते पुरुषा लोके ये स्वयं यान्त्यविक्लवाः।
SP0730912: दृष्ट्वा दृष्ट्वा सुखं बन्धूनाभाष्य हि यथासुखम्॥ ९१॥
SP0730921: कार्यं भवेच्च लोष्टेन तृणेनाथ शवेन वा।
SP0730922: न मयानुगृहीतेन धिङ्मामशुभकारिणम्॥ ९२॥
SP0730931: सुतस्नेहादयं दैत्यः सदा मां रक्षते पिता।
SP0730932: हन्तव्यं न विहन्त्येष कोषक्षयकरं हि माम्।
SP0730933: नायं स्नेहेन संमूढो जानातीमां मम व्यथाम्॥ ९३॥
SP0730941: अहमेव करिष्यामि यत्कार्यं बुद्धिसत्तमैः।
SP0730942: तपो महत्समास्थाय चक्षुष्मान्भविता ह्यहम्॥ ९४॥
SP0730951: स एवं परिनिश्चिन्त्य बहुधान्धः सुबुद्धिमान्।
SP0730952: आमन्त्र्य सहितं मात्रा पितरं तं प्रणम्य च।
SP0730953: जगाम तपसे धीमान्संकल्प्य कृतनिश्चयः॥ ९५॥
SP0730961: पित्रा शोकपरिप्लुतेक्षणमुखेनायासखिन्नात्मना
SP0730962: मात्रा चासकृदस्रुपातमुखया संवीक्ष्यमाणश्चिरम्।
SP0730963: तत्तीव्राधृतिखेददृष्टिविरहप्रक्वाथितो ऽन्तः श्वसन्
SP0730964: ध्यायन्देवमुमापतिं स तपसे यातो गृहादन्धकः॥ ९६॥
SP0739999: इति स्कन्दपुराणे त्रिसप्ततितमो ऽध्यायः॥