०७१

Skandapurāṇa Adhyāya 71

E-text generated on February 11, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0710010: सनत्कुमार उवाच।
SP0710011: शासतस्तस्य दैत्यस्य हिरण्यकशिपोस्तदा।
SP0710012: अगात्कालो महान्व्यास त्रैलोक्यं सचराचरम्॥ १॥ SP0710021: दर्पेण महताविष्टः श्रीमदोद्वृत्तचेतनः।
SP0710022: अवमेने सुरान्सर्वान्न च धर्ममवेक्षते॥ २॥ SP0710031: स देवान्सहितान्सर्वाञ्छक्राद्यान्क्रोधमूर्छितः।
SP0710032: चालितानपि राज्ये स्वे कृच्छ्रमापादयद्भृशम्॥ ३॥ SP0710041: संताप्यमानास्ते सर्वे ब्रह्माणं शरणं ययुः।
SP0710042: भगवन्भूतभव्येश पितामह महाद्युते॥ ४॥ SP0710051: हिरण्यकशिपुर्दैत्यस्त्वत्तो लब्धवरो ऽनघ।
SP0710052: त्रैलोक्यं कृत्स्नमाक्रम्य राज्यं नो हृतवान्दिवि॥ ५॥ SP0710061: अनिशं चावमानं नः प्रयुङ्क्ते वैरयातनम्।
SP0710062: तेन विद्राविताः सर्वे शरणं वयमागताः॥ ६॥ SP0710071: प्रसादं कुरु देवेश स न स्यान्नो यथा रिपुः।
SP0710072: त्यक्तधर्मा जगच्छत्रुर्हिरण्यकशिपुर्बली॥ ७॥ SP0710081: एवं प्रोक्तस्तदा देवैर्देवः कमलवाहनः।
SP0710082: प्रोवाचेदं महाप्रज्ञ देवानां प्रियकृद्वचः॥ ८॥ SP0710091: क्षीणं तद्दैत्यराजस्य तपस्तस्य दुरात्मनः।
SP0710092: कृच्छ्रं गमितवान्यो वो राज्यं च हृतवान्रिपुः॥ ९॥ SP0710101: तेनाहं प्रार्थितः पूर्वं सर्वावध्यत्वमुत्तमम्।
SP0710102: अन्तरं भाषितश्चासौ मया संज्ञाविमोहितः॥ १०॥ SP0710111: यदैवान्तरमाहाथ दैत्यराजो विचेतनः।
SP0710112: तदैव मनसा तोषमहमागां महाबलाः॥ ११॥ SP0710121: ते यूयमद्य गच्छध्वं विष्णोर्भवनमुत्तमम्।
SP0710122: तं ब्रूत सहिताः सर्वे तस्य नाशार्थमच्युतम्॥ १२॥ SP0710131: नरसिंहवपुः कृत्वा सकृदाहत्य हंस्यति।
SP0710132: हिरण्यकशिपुं दैत्यं ततो निर्वृतिमेष्यथ॥ १३॥ SP0710141: एवमस्त्विति ते सर्वे प्रणिपत्य पितामहम्।
SP0710142: आजग्मुः सहिता देवा विष्णोर्भवनमादृताः॥ १४॥ SP0710151: अथ दृष्ट्वा महातेजा विष्णुर्देवानुपस्थितान्।
SP0710152: उवाच श्लक्ष्णया वाचा वचश्चेतोमनोहरम्॥ १५॥ SP0710161: स्वागतं भवतामस्तु किमर्थं यूयमागताः।
SP0710162: पूज्या भवन्तः सर्वे मे सुहृदो ऽतिगरीयसः॥ १६॥ SP0710171: यद्वो मनोगतं किंचिन्मया कार्यं दिवौकसः।
SP0710172: क्षिप्रं तद्ब्रूत संक्षिप्तं कर्ताहमविचारितम्॥ १७॥ SP0710181: विष्णुनैवं तदा प्रोक्ता देवाः शक्रपुरोगमाः।
SP0710182: ऊचुः प्रहृष्टवदनाः संस्तुवन्तो जनार्दनम्॥ १८॥ SP0710191: हिरण्यकशिपोर्देव दैत्यराज्ञो महाबलात्।
SP0710192: भयं नः सुमहज्जातं राज्यं चापहृतं दिवि॥ १९॥ SP0710201: अवमानः प्रयुक्तश्च तेनास्मभ्यं सुरोत्तम।
SP0710202: भुनक्ति स जगत्कृत्स्नं ब्रह्मद्विट्कश्यपात्मजः॥ २०॥ SP0710211: स यथा वध्यते दैत्यस्त्वया सर्वारिसूदन।
SP0710212: तथा कुरु हृषीकेश वरो ऽयं नः प्रदीयताम्॥ २१॥ SP0710221: ततो विष्णुश्चिरं ध्यात्वा वधोपायं प्रचिन्त्य च।
SP0710222: प्राह देवान्सुरश्रेष्ठो वचसाप्याययन्निव॥ २२॥ SP0710231: एवमस्तु सुरश्रेष्ठाः सर्वं कर्तास्मि वो वचः।
SP0710232: महाबलः स दैत्येन्द्रो यतो युष्मान्वदाम्यहम्॥ २३॥ SP0710241: आविशन्तु भवन्तो ऽपि शरीरं मम सुव्रताः।
SP0710242: सर्वदेवमयो भूत्वा दृप्तं हंस्यामि वो रिपुम्॥ २४॥ SP0710251: ततो देवास्तदा सर्वे विविशुर्वैष्णवीं तनुम्।
SP0710252: स चापि बलवान्भूत्वा रूपं कृत्वा भयानकम्॥ २५॥ SP0710261: नारसिंहं महातेजा नखदंष्ट्राविभीषणम्।
SP0710262: जगाम विलसन्विष्णुर्हिरण्यकशिपोः पुरम्॥ २६॥ SP0710271: उद्यानं स बहिस्तस्य सर्वर्तुकुसुमायुतम्।
SP0710272: नृसिंहो दैत्यसिंहस्य दृष्ट्वा तस्थौ सुविस्मितः॥ २७॥ SP0710281: चम्पकाशोकजातीभिः कदम्बबकुलैरपि।
SP0710282: तथा सुरभिपुष्पैश्च समन्तादुपशोभितम्॥ २८॥ SP0710291: सरोभिः पद्मसंछन्नैर्हंसचक्राह्वशोभितैः।
SP0710292: वृक्षैः कामफलैश्चैव वैभ्राजसदृशं वनम्॥ २९॥ SP0710301: तद्बभञ्ज नृसिंहस्तु खेलगामी मदोत्कटः।
SP0710302: सरांसि क्षोभयामास करीव समदोल्वणः॥ ३०॥ SP0710311: स रेजे वनमध्यस्थः परिसर्पन्नितस्ततः।
SP0710312: मेरोरचलराजस्य स्थितं शृङ्गमिवोच्छ्रितम्॥ ३१॥ SP0710321: अथागत्य नृसिंहं तं वनपाला रुषान्विताः।
SP0710322: बलिनो वारयामासुस्तांश्चैव व्यहनद्बली॥ ३२॥ SP0710331: हतशेषास्ततस्तत्र प्रपलीनास्तु ये ऽसुराः।
SP0710332: ते गत्वा कथयामासुर्हिरण्यकशिपोस्तदा॥ ३३॥ SP0710341: तेषां तद्वचनं श्रुत्वा दैत्यराजो महाबलः।
SP0710342: प्रह्लादं चानुह्लादं च नमुचिं बाष्कलिं बलिम्॥ ३४॥ SP0710351: विप्रचित्तिप्रधानांश्च सर्वानाहूय दानवान्।
SP0710352: प्रोवाच त्वरितं गत्वा बद्ध्वा सिंहं ममान्तिकम्॥ ३५॥ SP0710361: समानयत दैत्येन्द्रा न हन्तव्यः कथंचन।
SP0710362: क्रीडनं सिंहपोतो ऽसौ देव्या मम भविष्यति॥ ३६॥ SP0710371: इति श्रुत्वासुराः सर्वे विप्रचित्तिपुरोगमाः।
SP0710372: उद्यानं सहिता गत्वा नृसिंहं ददृशुः स्थितम्॥ ३७॥ SP0710381: दूरस्थाश्चिक्षिपुः पाशांस्तांश्च चिच्छेद माधवः।
SP0710382: अथ विद्रावयामास दानवान्केसरी भृशम्॥ ३८॥ SP0710391: ततो हतसहायास्ते दैत्या विमनसो ययुः।
SP0710392: पार्श्वं दानवराजस्य सर्वं चाकथयंस्तदा॥ ३९॥ SP0710401: अथ क्रुद्धः स्वयं राजा हिरण्यकशिपुर्बली।
SP0710402: रथमास्थाय संनद्धो नृसिंहं प्राद्रवद्रुषा॥ ४०॥ SP0710411: स रथः सिंहराजेन सायुधः पर्वतोपमः।
SP0710412: संभ्राम्य पातितस्तूर्णं चूर्णमागान्महीतले॥ ४१॥ SP0710421: ततो भग्नरथो दैत्यः क्रोधात्संरक्तलोचनः।
SP0710422: वृक्षमुत्पाट्य वेगेन नृसिंहाय व्यसर्जयत्॥ ४२॥ SP0710431: अथ सः पतितो गात्रे सिंहराजस्य पादपः।
SP0710432: मृद्भाण्ड इव पाषाणे क्षिप्तश्चूर्णं जगाम ह॥ ४३॥ SP0710441: गृहीत्वा स तदा सिंहो हिरण्यकशिपुं सकृत्।
SP0710442: तलेनाहत्य तं प्राणैर्व्ययोजयत सत्वरम्॥ ४४॥ SP0710451: सिंहनादं महत्कृत्वा नखैर्वज्रमयैर्विभुः।
SP0710452: उरो बिभेद दैत्यस्य महाशैलोपमं हरिः॥ ४५॥ SP0710461: हते तस्मिन्महादैत्ये विष्णुना शक्तिनन्दन।
SP0710462: दानवा न हता ये तु विविशुस्ते रसातलम्॥ ४६॥ SP0710471: देवराज्यं पुनः शक्रो लेभे निष्कण्टकं महत्।
SP0710472: दिवौकसश्च सर्वे ते स्वानि राज्यानि भेजिरे॥ ४७॥ SP0710481: अथागत्य ततो देवः शूलपाणिर्वृषध्वजः।
SP0710482: सुरैर्विज्ञापितो व्यास यत्ते कथितवानहम्॥ ४८॥ SP0710491: विष्णोस्त्याजयितुं रूपं सिंहमद्भुतकर्मणः।
SP0710492: शरभः स तदा भूत्वा हिमवच्छिखरोपमः॥ ४९॥ SP0710501: चतुर्भिः पृष्ठजैः पादैस्तीक्ष्णदंष्ट्रो महाबलः।
SP0710502: नरसिंहसमीपं तु गत्वागर्जत्समाहितः॥ ५०॥ SP0710511: अथ सिंहस्तदा दृष्ट्वा शरभं समुपस्थितम्।
SP0710512: क्रोधेन महताविष्टो तलेनैनमताडयत्॥ ५१॥ SP0710521: स हतस्तेन सिंहेन शरभो नैव चुक्षुभे।
SP0710522: ततः शरभमाहत्य वज्रदेहं महाबलम्।
SP0710523: आत्मनैवागमत्कृच्छ्रं स्पर्शात्तस्य महात्मनः॥ ५२॥ SP0710531: ततो विष्णुश्चिरं ध्यात्वा ज्ञात्वा शंकरमागतम्।
SP0710532: प्रणम्य शिरसा तस्मै स्तोत्रमेनं प्रचक्रमे॥ ५३॥ SP0710541: नमः शर्वाय रुद्राय सेनान्ये सर्वदाय च।
SP0710542: नमः परमदेवाय ब्रह्मणे परमाय च॥ ५४॥ SP0710551: कालाय यमरूपाय कालदण्डाय वै नमः।
SP0710552: नमः कालान्तकर्त्रे च कालाकालहराय च॥ ५५॥ SP0710561: नमः पिनाकहस्ताय रौद्रबाणधराय च।
SP0710562: चण्डाय वामदेवाय सर्वयोगेश्वराय च॥ ५६॥ SP0710571: नमो विद्याधिपतये ब्रह्मणः पतये नमः।
SP0710572: नमो ऽसुरवरघ्नाय कालचक्राय वै नमः॥ ५७॥ SP0710581: संवर्तकाग्निचक्राय प्रलयान्तकराय च।
SP0710582: नरनारायणेशाय नरनारायणात्मने॥ ५८॥ SP0710591: ममैव वरदात्रे च सर्वकामप्रदाय च।
SP0710592: शरभाय सुरूपाय व्याघ्रचर्मसुवाससे॥ ५९॥ SP0710601: नन्दीश्वरगणेशाय गणानां पतये नमः।
SP0710602: इन्द्रियाणामथेशाय मनसां पतये नमः॥ ६०॥ SP0710611: नमः प्रधानपतये सुराणां पतये नमः।
SP0710612: नमो ऽस्तु भावपतये तत्त्वानां पतये नमः॥ ६१॥ SP0710621: चराचरस्य पतये भूतानां पतये नमः।
SP0710622: त्रैलोक्यपतये चैव लोकानां पतये नमः॥ ६२॥ SP0710631: योगदाय नमो मह्यं तथैवैश्वर्यदाय च।
SP0710632: अवध्यत्वप्रदात्रे च तथैवाजय्यदाय च॥ ६३॥ SP0710641: भगवंस्त्वत्प्रतिष्ठो ऽस्मि त्वन्निष्ठस्त्वत्परायणः।
SP0710642: शरणं त्वां प्रपन्नो ऽहं प्रसीद मम सर्वदा॥ ६४॥ SP0710651: य इमं शृणुयान्नित्यं शुचिः प्रयतमानसः।
SP0710652: स रुद्रलोकमासाद्य देवस्य गणपो भवेत्॥ ६५॥ SP0710661: धन्यं यशस्यमायुष्यं स्वर्ग्यं पापप्रणाशनम्।
SP0710662: श्रावणं श्रवणं चास्य तथानुस्मरणं सदा॥ ६६॥ SP0710670: सनत्कुमार उवाच।
SP0710671: स एवं स्तूयमानस्तु विष्णुना भुवनेश्वरः।
SP0710672: हृषीकेशमुवाचेदं वचः परमपूजितम्॥ ६७॥ SP0710681: तुभ्यं विष्णो मया दत्तः पुण्यो ह्येष वरः शुभः।
SP0710682: अयोनौ सज्जमानस्य स्वयोनौ प्रतिपादनम्॥ ६८॥ SP0710691: स त्वं विष्णुर्महातेजा मत्तो लब्धवरः सदा।
SP0710692: वेलायां त्वं समुद्रस्य तिर्यग्योनिमसूत यः॥ ६९॥ SP0710701: कृतं कार्यं त्वया सर्वं हिरण्यकशिपुर्हतः।
SP0710702: एहि गच्छ शुभां योनिमात्मनः परमाद्भुताम्॥ ७०॥ SP0710711: ततस्तमाक्रमत्पादैः सिंहं शरभसत्तमः।
SP0710712: अयोजयच्च देहेन पुनर्दिव्येन केशवम्॥ ७१॥ SP0710721: विष्णवे ऽथ वरं दत्त्वा दैत्यघ्नं स वृषध्वजः।
SP0710722: प्रकृतिस्थो भवेत्युक्त्वा तत्रैवान्तरधीयत॥ ७२॥ SP0710731: दत्त्वा तस्मै वरमनुपमं विष्णवे लोकधाता SP0710732: दैत्यघ्नत्वं सुरपुरवधूलोचनैः पीयमानः।
SP0710733: नीलाम्भोदद्युतिनिभमुरः प्रोद्वहञ्छूलपाणि- SP0710734: र्धाम स्वाक्यं परममुनिभिर्वन्द्यमानो जगाम॥ ७३॥ SP0719999: इति स्कन्दपुराण एकसप्ततितमो ऽध्यायः॥