०७०

Skandapurāṇa Adhyāya 70

E-text generated on February 11, 2019 from the original TeX files of: Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IV. Start of the Skanda and Andhaka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Diwakar Acharya and Judit Törzsök. Leiden/Boston: Brill, 2018.

SP0700010: व्यास उवाच।
SP0700011: स गत्वा मन्दरं भूयो गिरिपुत्र्या सह प्रभुः।
SP0700012: यच्चकार महादेवस्तन्मे ब्रूहि महामुने॥ १॥
SP0700020: सनत्कुमार उवाच।
SP0700021: मन्दरं गिरिमागत्य पार्वत्या सहितो हरः।
SP0700022: रेमे हिरण्मये दिव्ये सर्वरत्नविभूषिते॥ २॥ SP0700031: चारुसोपानसंकीर्णे चित्रपट्टशिलातले।
SP0700032: तस्मिन्पुरवरे श्रेष्ठे मनसा निर्मिते तदा॥ ३॥ SP0700041: गणेश्वरैर्महायोगैर्नन्दीश्वरपुरोगमैः।
SP0700042: सिद्धैर्मुनिवरैश्चैव सेव्यमानो जगत्पतिः।
SP0700043: उवास सहितो देव्या नन्द्यमानस्तथैव च॥ ४॥ SP0700051: तस्यैवं दीव्यतो व्यास देवदेवस्य धीमतः।
SP0700052: सहस्राक्षः शशाङ्कश्च वायुश्चैव तदागताः॥ ५॥ SP0700061: समागत्य पुरद्वारं दृष्ट्वा ते नन्दिनं स्थितम्।
SP0700062: ऊचुः प्राञ्जलयो भूत्वा शंकरस्य दिदृक्षवः।
SP0700063: यथा पश्याम देवेशं नन्दिंस्तत्कर्तुमर्हसि॥ ६॥ SP0700071: अथ नन्दी समागम्य द्वारमूले समास्थितः।
SP0700072: शम्भोर्निवेदयामास त्रीन्देवान्स समागतान्॥ ७॥ SP0700081: विशन्त्विति समाज्ञाप्ते देवदेवेन नन्दिनि।
SP0700082: विविशुस्ते त्रयो देवाः शंकरस्यान्तिकं तदा॥ ८॥ SP0700091: प्रणम्य सहितास्तस्थुः पश्यन्तो वरदं विभुम्।
SP0700092: अथ तान्प्राह लोकेशः शिरोभिः प्रणतान्स्थितान्॥ ९॥ SP0700101: का वः कर्तव्यता देवाः किमर्थं यूयमागताः।
SP0700102: ब्रूत दास्यामि तत्सर्वं यद्यन्मृगयतामराः॥ १०॥ SP0700111: अथ देवः सहस्राक्षो वचः प्रोवाच शंकरम्।
SP0700112: हिरण्यकशिपुं हन्तुमसुरेन्द्रं महाबलम्।
SP0700113: यच्चकार वपुर्विष्णुर्नारसिंहं भयानकम्॥ ११॥ SP0700121: तं हत्वापि स दैत्येन्द्रं विष्णुः परबलार्दनः।
SP0700122: तद्रूपं नैव संत्यज्य स्वं वेषमकरोद्विभो॥ १२॥ SP0700131: तेन रूपेण देवेश क्रूरेण पिशितेप्सुना।
SP0700132: न वयं निर्वृता भूत्वा त्रासात्तिष्ठाम शंकर॥ १३॥ SP0700141: स यथा सिंहरूपं तं परित्यजति माधवः।
SP0700142: प्रसादं नस्तथा कर्तुमर्हसि त्वं सुरोत्तम॥ १४॥ SP0700151: अथ प्रोवाच तं शक्रं देवदेवः पिनाकधृक्।
SP0700152: सिंहरूपं यथा शक्र विष्णुस्त्यक्ष्यति भीषणम्।
SP0700153: करिष्यामि तथा शक्र व्येतु ते मानसो ज्वरः॥ १५॥ SP0700161: अथ वायुस्तदा देवं व्यज्ञापयत शंकरम्।
SP0700162: अशरीरो यथा न स्यां तथा मे कर्तुमर्हसि॥ १६॥ SP0700171: श्रुत्वा पवनविज्ञप्तिं देवस्तस्मै त्रिलोचनः।
SP0700172: शरीरं सुमहत्प्रादाद्येनासौ मूर्तिमानभूत्॥ १७॥ SP0700181: विज्ञापितं शशाङ्केन ततो व्यास महात्मना।
SP0700182: दक्षेणाहं पुरा शप्तो यक्ष्मदेहो भविष्यसि।
SP0700183: स यथा यक्ष्महीनः स्यां प्रसादं मे तथा कुरु॥ १८॥ SP0700191: विज्ञाप्तं शशिनः श्रुत्वा देवस्तस्मै वरं प्रभुः।
SP0700192: इमं प्राह महातेजाः शशिने प्रणताय तु।
SP0700193: तपः कृत्वा प्रभासे त्वं यक्ष्महीनो भविष्यसि॥ १९॥ SP0700201: इति लब्ध्वा वरं सर्वे त्रयो ऽपि सुरसत्तमाः।
SP0700202: वायुः सोमः सहस्राक्षः स्वानि वेश्मानि भेजिरे॥ २०॥ SP0700210: व्यास उवाच।
SP0700211: भगवन्स कथं तेन नरसिंहेन सूदितः।
SP0700212: हिरण्यकशिपुर्दैत्यः किंप्रभावश्च सो ऽभवत्।
SP0700213: किंवयाः किं तपश्चास्य शंसैतत्पृच्छतो मम॥ २१॥ SP0700220: सनत्कुमार उवाच।
SP0700221: दितिर्नामाभवत्पत्नी कश्यपस्य प्रजापतेः।
SP0700222: दक्षस्य दुहिता व्यास सा जज्ञे तनयद्वयम्।
SP0700223: हिरण्यकशिपुं ज्येष्ठं हिरण्याक्षं कनीयसम्॥ २२॥ SP0700231: अभिषिक्तः स दैत्यानां राजाभूद्ब्रह्मणा पुरा।
SP0700232: दानवानामथेन्द्रत्वे विप्रचित्तिर्महाबलः।
SP0700233: सहस्राक्षश्च देवानामेतदिन्द्रत्रयं बभौ॥ २३॥ SP0700241: अथ तेषां तदा व्यास त्रैलोक्यं संप्रशासताम्।
SP0700242: हिरण्यकशिपुर्दैत्यः शक्रराज्यजिहीर्षया।
SP0700243: त्रैलोक्यमात्मसात्कर्तुं मतिं तपसि संदधे॥ २४॥ SP0700251: स गत्वा दक्षिणामाशां श्रीपर्वतसमास्थितः।
SP0700252: तपस्तीव्रं महत्तेपे दैत्यराजो महाबलः॥ २५॥ SP0700261: स्वरक्तेन जुहावाग्नौ संमिश्राः समिधश्चरन्।
SP0700262: ऊर्ध्वबाहुर्निरालम्बो दिवा सूर्यार्पितेक्षणः।
SP0700263: एकपादो ऽनिमेषश्च सो ऽतिष्ठत्कृतनिश्चयः॥ २६॥ SP0700271: द्वे सहस्रे तदाब्दानां दिव्यानां स्थितवान्बली।
SP0700272: महता तपसा तस्य त्रैलोक्यं संप्रचुक्षुभे॥ २७॥ SP0700281: अथाभ्येत्य सुरश्रेष्ठो ब्रह्मा कमलवाहनः।
SP0700282: इष्टं वृणु वरं राजन्निति प्रोवाच सादरम्॥ २८॥ SP0700291: तं दृष्ट्वा दैत्यराजस्तु ब्रह्माणं वरदं प्रभुम्।
SP0700292: वरं प्रार्थितवान्व्यास शृणु यादृशमीप्सितम्॥ २९॥ SP0700301: भगवन्यदि तुष्टो ऽसि वर एषो ऽस्तु मे विभो।
SP0700302: अमरः स्यामवध्यश्च जराहीनो महाबलः॥ ३०॥ SP0700311: न शस्त्रेण न मन्त्रेण न रात्रौ न दिवा तथा।
SP0700312: नैवार्द्रेण न शुष्केण न पुंसा न च योषिता॥ ३१॥ SP0700321: अब्रवीत्सान्तरं ब्रह्मा स चैनं समभाषत।
SP0700322: अतश्च यो ऽन्यथा मृत्युर्भविष्यति स मे प्रभो॥ ३२॥ SP0700331: एवमस्त्विति तं प्रोच्य ब्रह्मा सुरवरोत्तमः।
SP0700332: जगामात्मपुरं क्षिप्रं शान्तः प्रीतः पितामहः॥ ३३॥ SP0700341: सो ऽपि सर्वासुरश्रेष्ठो हिरण्यकशिपुस्तदा।
SP0700342: जित्वा शक्रं स्वयं राज्यं चकार दितिनन्दनः॥ ३४॥ SP0700351: त्रैलोक्यमात्मसात्कृत्वा जित्वा सर्वान्दिवौकसः।
SP0700352: आत्मनैवाभवच्छक्रः स्वयं वायुः स्वयं यमः।
SP0700353: धनेशो वरुणो वह्निः सर्व एवाभवत्स्वयम्॥ ३५॥ SP0700361: प्रणमध्वं यजध्वं मां ब्रह्माहं सपुरन्दरः।
SP0700362: इति प्राह ऋषीन्सर्वान्सिद्धान्विप्रांश्च सो ऽसुरः॥ ३६॥ SP0700370: व्यास उवाच।
SP0700371: श्रीपर्वत इति प्रोक्तो यस्त्वया मुनिसत्तम।
SP0700372: कथं श्रीपर्वतः सो वै किं पुण्यं तत्र किं फलम्॥ ३७॥ SP0700380: सनत्कुमार उवाच।
SP0700381: अहं ते कथयिष्यामि यन्मां पृच्छसि सुव्रत।
SP0700382: हिरण्यकशिपुर्दैत्यो यत्र तेपे महत्तपः॥ ३८॥ SP0700391: गिरौ तस्मिन्महापुण्ये देवदेवो वृषध्वजः।
SP0700392: उमया सहितो देव्या रेमे नित्यं महाद्युतिः॥ ३९॥ SP0700401: तिष्ठतस्तत्र देवस्य देवी गिरिवरात्मजा।
SP0700402: तपःसिद्धान्महायोगाञ्ज्वलनादित्यवर्चसः॥ ४०॥ SP0700411: कृत्वा प्रदक्षिणं शम्भोः सप्रणामं महामुने।
SP0700412: गच्छतस्तान्मुहुर्दृष्ट्वा पप्रच्छ भुवनेश्वरम्॥ ४१॥ SP0700421: क एते देव संसिद्धा योगीशास्त्वां प्रणेमिरे।
SP0700422: ततो देवः प्रहस्यैनामुवाच परमेश्वरः॥ ४२॥ SP0700431: योगसिद्धा महात्मानो योगे पाशुपते स्थिताः।
SP0700432: य इहाराध्य मां देवि जहुः प्राणान्नरोत्तमाः॥ ४३॥ SP0700441: त एते सिद्धदेहार्थाः स्वच्छन्दगतिचारिणः।
SP0700442: मोक्षसिद्धिं परां निष्ठां गन्तारः परमं पदम्॥ ४४॥ SP0700451: अथ संचिन्त्य सुचिरं विस्मयायतलोचना।
SP0700452: देवं प्रोवाच शर्वाणी वचः परमपूजितम्॥ ४५॥ SP0700461: यथाहमपि देवेश प्राप्नुयां सिद्धिमीदृशीम्।
SP0700462: करिष्यामि तथा यत्नमेषा चास्मि गता विभो॥ ४६॥ SP0700471: ततः कृत्वा श्रियो रूपं देवी परमशोभनम्।
SP0700472: महत्तत्र तपस्तेपे सहस्रं परिवत्सरान्॥ ४७॥ SP0700481: देवश्चास्या वरं प्रादात्तैः समानं महाद्युतिः।
SP0700482: कृत्स्नस्याध्यात्मतन्त्रस्य मया प्रोक्तस्य भामिनि।
SP0700483: महायोगेश्वरी सिद्धा परार्थज्ञा भविष्यसि॥ ४८॥ SP0700491: अयं च पर्वतः श्रीमान्नाम्ना तव भविष्यति।
SP0700492: श्रीपर्वत इति ख्यातश्चित्रद्रुमविभूषितः।
SP0700493: समन्ताद्योजनशतं महापुण्यो भविष्यति॥ ४९॥ SP0700501: इहागम्य च यो देवि त्वां मां च गिरिनन्दने।
SP0700502: शुचिः स्नात्वार्चयेन्मर्त्यः स लोकं मम यास्यति॥ ५०॥ SP0700511: यश्चेह त्यक्ष्यते प्राणाञ्छ्रीगिरावचलोत्तमे।
SP0700512: त्रिनेत्रः कामगो भूत्वा गाणापत्यमवाप्नुयात्॥ ५१॥ SP0700521: इहागत्य च ये शैलं करिष्यन्ति प्रदक्षिणम्।
SP0700522: शर्वायतनसंयुक्तं भविष्यन्ति हि ते गणाः॥ ५२॥ SP0700531: अतिशयरमणीये सिद्धसंघैरुपेते SP0700532: सुरभिकुसुमचित्रे श्रीगिरौ ये पुमांसः।
SP0700533: व्यपगतमलदोषा मां प्रपश्यन्ति शुद्धा SP0700534: वियति विहगयुक्तैस्ते विमानैः प्रयान्ति॥ ५३॥ SP0709999: इति स्कन्दपुराणे सप्ततितमो ऽध्यायः॥