Skandapurāṇa Adhyāya 68
E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013.
SP0680010: सनत्कुमार उवाच।
SP0680011: अथ ता देवता देवी कौशिकी देहसम्भवाः।
SP0680012: न्यवेशयन्महाभागा देशेषु नगरेषु च॥ १॥
SP0680021: बहुपुत्रां प्रलम्बां च लङ्कायां संन्यवेशयत्।
SP0680022: लम्बौष्ठीं वृषदंशां च किंनरीं चैव सिंहले॥ २॥
SP0680031: गोकर्णे रेवतीं देवीं पाण्ड्येषु मुखमण्डिकाम्।
SP0680032: आभीरेषु शिवां चैव शान्तिं च वरणातटे॥ ३॥
SP0680041: वत्सगुल्मे प्रभां देवीं लक्ष्मीं कोलगिरावपि।
SP0680042: उपकां पारसीकेषु वायसीं यवनेषु च॥ ४॥
SP0680051: प्रचण्डां च तुखारेषु कौसलेषु च लम्बिकाम्।
SP0680052: जयां च विजयां चैव स्वपुरे संन्यवेशयत्॥ ५॥
SP0680061: प्रभावती कलिङ्गेषु जयन्ती नागसाह्वये।
SP0680062: काश्मीरेषु स्थिता षष्ठी सरमा मलयेषु च॥ ६॥
SP0680071: पूतनां च सुवीरेषु मृत्युं पिष्टपुरे तथा।
SP0680072: कोटीवर्षे बहुमांसां पौण्ड्रेषु कटपूतनाम्॥ ७॥
SP0680081: अस्पृष्टां मध्यदेशे तु किंनरीं बर्बरेषु च।
SP0680082: वाराणस्यां निरायासां चित्रघण्टां च कौशिकी।
SP0680083: महाकालीं महाकाले वानरीं शबरेषु च॥ ८॥
SP0680091: शेषाश्च देवताः सर्वा ग्रामेषु नगरेषु च।
SP0680092: कर्वटेषु महीध्रेषु कौशिकी संन्यवेशयत्॥ ९॥
SP0680101: कस्यचित्त्वथ कालस्य स्वर्णाक्षे हि महातपाः।
SP0680102: यत्र विष्णुर्वरांल् लेभे देवमाराध्य शंकरम्।
SP0680103: चक्रं सुदर्शनं नाम द्विषतामन्तकोपमम्॥ १०॥
SP0680111: ऋषिरास्ते महाभागः शरद्वान्नाम गौतमः।
SP0680112: तस्य यज्ञं जगामाथ देवी तेन निमन्त्रिता॥ ११॥
SP0680121: तस्यास्तत्रागमं ज्ञात्वा सूनुः सुम्भस्य वीर्यवान्।
SP0680122: आजगामाशु तं देशं महिषो नाम दानवः॥ १२॥
SP0680131: सुसंहतः पृथूरस्को महाग्रीवः सुवालधिः।
SP0680132: वक्रशृङ्गः पृथुखुरो विशालोच्छ्रितमस्तकः॥ १३॥
SP0680141: बद्धवैराशयः क्रूरो महासत्त्वो ऽतिदुर्जयः।
SP0680142: वज्रनिष्पेषपरुषं नर्दमानो महास्वनः॥ १४॥
SP0680151: अञ्जनाद्रिसमप्रख्यो युयुत्सुर्बलदर्पितः।
SP0680152: देव्याः पन्थानमावृत्य दानवेन्द्रसुतः स्थितः॥ १५॥
SP0680161: विज्ञाय तस्यागमनं योगेशा विन्ध्यवासिनी।
SP0680162: जगाम त्वरिता तत्र यत्रासौ दानवाधमः॥ १६॥
SP0680171: अथ दृष्ट्वा स तां देवीं क्रोधाद्रक्ततरेक्षणः।
SP0680172: अभ्याजगाम वेगेन यत्नमास्थाय दानवः॥ १७॥
SP0680181: उद्वालधिस्तीक्ष्णविषाणकोटिः सुपीनवक्षाः कठिनोर्ध्वकर्णः।
SP0680182: अभ्यापतद्गुग्गुलुताम्रनेत्रो जवेन देवीमसिताद्रिकल्पः॥ १८॥
SP0680191: तं कौशिकी वीक्ष्य तदापतन्तं दैत्येन्द्रपुत्रं महिषं सरोषम्।
SP0680192: चुक्रोध ताम्रायतचारुनेत्रा स्थिता धरण्यामसुरेन्द्रहन्त्री॥ १९॥
SP0680201: अभ्येत्य तां दानवराजसूनुर्बलेन मत्तः परमेण देवीम्।
SP0680202: अभ्याहनद्वक्षसि लोलहारे शृङ्गेण शक्रायुधकर्कशेन॥ २०॥
SP0680211: विषह्य तं तस्य तदा प्रहारं जग्राह शृङ्गे महिषं करेण।
SP0680212: उद्भ्राम्य चोच्चैः परितः सरोषा न्यपातयद्भूमितले श्वसन्तम्॥ २१॥
SP0680221: उद्गृह्य सा वालधिमिन्द्रशत्रोः कृत्वा च पादं शिरसि प्रसह्य।
SP0680222: त्रिशूलमादाय बिभेद पृष्ठे व्ययोजयच्चासुभिराशु दैत्यम्॥ २२॥
SP0680231: कुलिशकठिनशृङ्गं नीलजीमूतकल्पं
SP0680232: महिषमथ निहत्य प्रौढदर्पं तदानीम्।
SP0680233: विविधकुसुमवृष्ट्या सर्वतः कीर्यमाणा
SP0680234: धरणिधरमगच्छत्कौशिकी स्वं निवासम्॥ २३॥
SP0689999: इति स्कन्दपुराणे ऽष्टषष्टो ऽध्यायः॥