०६५

Skandapurāṇa Adhyāya 65

E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013.

SP0650010: सनत्कुमार उवाच।
SP0650011: अथ ता देवताः क्रुद्धा दैत्यानग्रेसरांस्तदा।
SP0650012: निजघ्नुर्विविधैः शस्त्रैस्ते च ता बिभिदुर्युधि॥ १॥
SP0650021: दैत्या नानायुधोपेता देवीर्जघ्नुस्तदाभयाः।
SP0650022: अबला बलिनो धीराः समरे ऽमरविद्विषः॥ २॥ SP0650031: तुरंगिणस्तुरंगस्थाः पदातीश्च पदातयः।
SP0650032: रथिनो रथसंस्थाश्च गजस्था गजसादिनः॥ ३॥ SP0650041: रथान्नागास्तुरंगाश्च रथी नागांस्तुरंगमान्।
SP0650042: पदातीः सादिनः शूराः सादिनीश्च पदातयः॥ ४॥ SP0650051: देव्यो ऽपि युधि संक्रुद्धाः पत्तिसादिरथद्विपान्।
SP0650052: निजघ्नुर्दानवेन्द्राणां प्रासशक्तिपरश्वधैः॥ ५॥ SP0650061: पादैश्च पिपिषुः शूरान्निपात्य युधि दानवान्।
SP0650062: बिभिदुर्मुष्टिभिः काश्चिच्छिरांसि सुरविद्विषाम्॥ ६॥ SP0650071: विदार्योरःस्थलं काश्चित्समरे दर्पशालिनाम्।
SP0650072: पपुश्च रुधिरं देव्यः प्राणैः सह सुरद्विषाम्॥ ७॥ SP0650081: छिन्नांश्च खण्डशः काश्चिद्धेतीनुत्सृज्य वेगिताः।
SP0650082: निजघ्नुर्देवताः क्रुद्धा मुष्टिभिर्वज्रसंहतैः॥ ८॥ SP0650091: केचिन्मदाम्बुविष्यन्दश्यामगण्डस्थला गजाः।
SP0650092: पिपिषुः परमक्रुद्धाः समरे देवतारथान्॥ ९॥ SP0650101: कपोलभित्तिसंलीनमत्तषट्पदपङ्क्तयः।
SP0650102: हतारोहा गजाः केचिन्निजघ्नुर्दैत्यदेवताः॥ १०॥ SP0650111: वर्मिणः केचिदुद्भ्रान्तशितनिस्त्रिंशपाणयः।
SP0650112: चिच्छिदुर्देवतानीकं देवता दानवानपि॥ ११॥ SP0650121: मत्ताः प्रतिच्छन्नमुखाश्च केचिद्गन्धेन विज्ञाय गजं गजेन्द्राः।
SP0650122: घ्रात्वा तु गन्धं सहसाभिजघ्नुराधोरणैरप्यतिसंगृहीताः॥ १२॥ SP0650131: विस्फार्यमाणानि महाधनूंषि महाबलैर्दानवयोधमुख्यैः।
SP0650132: तारं विरेसुः समराजिरेषु क्रौञ्चा इव व्योम शरन्निशान्ते॥ १३॥ SP0650141: तूर्यस्वनैर्ज्यातलसंनिपातैर्नागाश्वनादै रथनेमिघोषैः।
SP0650142: सम्पूर्णकुञ्जोदरकन्दरो ऽसौ विन्ध्यश्चचालेव तदा समग्रः॥ १४॥ SP0650151: देव्यः समुत्सार्य रणे रिपूणामुच्चैर्विनेदुः प्रसभं बलानि।
SP0650152: नेदुश्च नादान्परिहृष्टचित्ताः प्रोत्सार्य देवीर्युधि दैत्ययोधाः॥ १५॥ SP0650161: बलानि किंचित्क्षतजोक्षितानि प्रचक्रिरे तत्र गतागतानि।
SP0650162: महावनानीव समीरणेन समीरितान्युद्गतपल्लवानि॥ १६॥ SP0650171: छिन्नानि वक्त्राणि पुरःसराणां विचित्रहेमाभरणोज्ज्वलानि।
SP0650172: देवीभिराजौ पतितानि रेजुर्निकृत्तनालानि यथाम्बुजानि॥ १७॥ SP0650181: प्रत्याहता विद्रुतभीतनागा सा देवताभिर्निहताश्वयोधा।
SP0650182: दैत्येन्द्रसिंहैः प्रतिसंनिवृत्तैर्दोलायमानेव चमूर्बभूव॥ १८॥ SP0650191: हता निपेतुः समरे नदन्तो देवद्विषामञ्जनशैलकल्पाः।
SP0650192: देवीभिराबद्धविचित्रघण्टा मर्मातिगैर्बाणवरैर्गजेन्द्राः॥ १९॥ SP0650201: बलानि तेषामभिसृत्य वेगादभ्याहतान्याश्वपसेरुराजौ।
SP0650202: महोदधिं प्राप्य विवृद्धकाले प्रत्याहतानीव सरिज्जलानि॥ २०॥ SP0650211: देव्यश्च दैत्याश्च महासमाजे विरेजिरे ऽन्योन्यविषक्तबाणाः।
SP0650212: संसक्तभासो ऽपगमे घनानामभ्रे समूहा इव तारकाणाम्॥ २१॥ SP0650221: उद्घुष्य नामान्यथ दानवेन्द्रा निर्जग्मुराशु स्वबलाद्रथस्थाः।
SP0650222: क्रुद्धाः सुयत्ता रथिनां वरिष्ठा विस्फार्य चित्राणि शरासनानि॥ २२॥ SP0650231: देव्यो ऽपि संयत्ततरा रथस्थाः क्रुद्धा जवेनाथ तदाभिसस्रुः।
SP0650232: मेघस्वनं प्रत्युदियाय षष्ठी कार्तस्वरं मृत्युरुदीर्णकोपा॥ २३॥ SP0650241: द्रुमेण लक्ष्मीर्युधि संससञ्जे मयेन कान्तिः सरमा मुरेण।
SP0650242: घनेन चण्डा नियतिः खरेण प्रभावती धुन्धुमयात्सरोषा॥ २४॥ SP0650251: दैत्या युयुत्सोत्सुकमानसास्ते देवीः समायाः स्वभुजैः सशस्त्रैः।
SP0650252: अभ्याययुः शीघ्रममृष्यमाणाः ख्यातावलेपाः स्वरथैः सुयत्ताः॥ २५॥ SP0650261: ज्योतिःप्रकाशांस्तपनीयपुङ्खानाकर्णपूर्णायतचापमुक्तान्।
SP0650262: सम्प्रेषयामासुरदीनसत्त्वा बाणप्रवेकान्युधि देवतानाम्॥ २६॥ SP0650271: देव्यो ऽथ तेषां निशितान्सुपुङ्खान्मर्मच्छिदो दूरगमान्सुपत्रान्।
SP0650272: आगच्छतां दानवयूथपानां बाणाननन्तान्ससृजुस्तथैव॥ २७॥ SP0650281: ते बाणमुख्या विविधा विरेजुरन्योन्यमुक्ता व्यतिषज्यमानाः।
SP0650282: ते पूर्णमास्यां विघने दिनान्ते भासां समूहा इव चन्द्रसौराः॥ २८॥ SP0650291: छिन्ना निपेतुर्युधि देवताभिर्भुजाः सशस्त्रा दितिजाधिपानाम्।
SP0650292: निरस्तभोगा निबिडा बृहन्तो निगीर्णजिह्वा इव पन्नगेन्द्राः॥ २९॥ SP0650301: मेघस्वनस्याथ रणे तदानीं क्रुद्धा शरौघान्विससर्ज षष्ठी।
SP0650302: आगच्छतस्तानभितः पृषत्कैश्चिच्छेद दैत्यः शतशो ऽन्तरिक्षे॥ ३०॥ SP0650311: बाणानथोद्वीक्ष्य तदा निकृत्तांल् लघ्वीयसो ऽन्यान्विससर्ज तूर्णम्।
SP0650312: दैत्यो ऽपि तानापततः पृषत्कान्व्रातैः शराणां बहुशश्चकर्त॥ ३१॥ SP0650321: निकृत्य बाणान्दितिजः पुरस्तांश्चिक्षेप षष्ठ्या दश रुक्मपुङ्खान्।
SP0650322: तानाशु षष्ठी प्रतिवार्य दैत्यं विव्याध षष्ट्या तपनीयपुङ्खैः॥ ३२॥ SP0650331: स तैर्विभिन्नो रुधिराक्तमूर्तिः प्रविह्वलः किंचिदवाङ्बभूव।
SP0650332: अपाकरोत्तं समरात्स सूतो रथेन जाम्बूनदचित्रितेन॥ ३३॥ SP0650341: कार्तस्वरः काञ्चनचित्रपुङ्खान्ससर्ज देव्याः समरे पृषत्कान्।
SP0650342: चिच्छेद तान्मृत्युरुदारपुङ्खैरनागतानेव शराञ्छरौघैः॥ ३४॥ SP0650351: छित्त्वा शरांस्तस्य शरैर्विचित्रैर्विव्याध तं वक्षसि पञ्चषष्ट्या।
SP0650352: भिन्नः स तैराशु तथा विरेजे व्योम्न्यर्कपादैरिव वारिवाहः॥ ३५॥ SP0650361: अश्वांश्च तस्याशु जघान मृत्युः पृथक्पृषत्कैस्तपनीयपुङ्खैः।
SP0650362: आप्रुत्य दैत्यो ऽथ रथाद्धताश्वात्प्रगृह्य चर्मासिवरं च धौतम्॥ ३६॥ SP0650371: क्रुद्धो नितान्तायतरक्तनेत्रो वेगेन देवीमभितः ससार।
SP0650372: तच्चर्म तस्यापततः शरौघैश्चकर्त मृत्युः शतशः शिताग्रैः॥ ३७॥ SP0650381: स कृत्तचर्मावरणो ऽसुरेन्द्रो निस्त्रिंशमुद्यम्य निशातधारम्।
SP0650382: अभ्यद्रवन्मृत्युमृभूं तदानीं खे रोहिणीं मेघ इवाभिविद्युत्॥ ३८॥ SP0650391: तमापतन्तं युधि कालकल्पं मृत्युः शरैरुग्रभुजंगतुल्यैः।
SP0650392: जघान मर्मस्वभिलक्षितेषु व्ययोजयच्चासुभिरेनमाशु॥ ३९॥ SP0650401: लक्ष्मी द्रुमं बाणवरैरजय्या समाकिरद्वारणराजलीलम्।
SP0650402: कर्णान्तमुक्तैर्निशितैरजिह्मै रणाजिरे चारुसुवर्णपुङ्खैः॥ ४०॥ SP0650411: अजिह्मगास्ते विविधाः सुपत्रिता द्रुमस्य गात्रेषु निपेतुराहवे।
SP0650412: स तैर्विचित्रैः शुशुभे विषक्तैर्महाद्रुमः पक्षिगणैरिवाश्रितैः॥ ४१॥ SP0650421: लक्ष्मीं ततः किंपुरुषाधिपो ऽसौ विव्याध बाणैर्दशभिः सुपुङ्खैः।
SP0650422: वक्त्रे सुपूर्णेन्दुसमानवक्त्रां बाह्वोः पृथक्चाष्टशतेन धीरः॥ ४२॥ SP0650431: अचिन्तयित्वेषुवरान्वरास्या मुखे ऽस्य तीक्ष्णान्निचखान बाणान्।
SP0650432: अन्यानसंख्यांश्च पृथक्शरीरे सुपत्रितान्हाटकमृष्टपुङ्खान्॥ ४३॥ SP0650441: लक्ष्म्यास्ततो दैत्यपतिः शितेन भल्लेन चिच्छेद रथध्वजाग्रम्।
SP0650442: अश्वांश्च तस्याश्चतुरश्चतुर्भिः सूतं च विव्याध शरेण तूर्णम्॥ ४४॥ SP0650451: नाराचमादाय ततो ऽस्य लक्ष्मीर्जघान सूतं युधि देवशत्रोः।
SP0650452: विव्याध वाहांश्च पृथक्पृषत्कैर्ध्वजं च चिच्छेद रथस्य तूर्णम्॥ ४५॥ SP0650461: यन्त्रा विना तस्य रथं तदानीं ते सायकैरप्रतिमैः प्रतप्ताः।
SP0650462: संग्रामभूमेरपनिन्युराशु प्राणानिवाश्वाः परिरक्षमाणाः॥ ४६॥ SP0650471: कान्तिर्मयं बाणशतैरवाकिरन्मयश्च कान्तिं निशितैः शरौघैः।
SP0650472: नीहारपातैरिव सान्धकारं तदा तयोरन्तरमास तत्र॥ ४७॥ SP0650481: आदानसंधानविकर्षणेषु स्थानक्रमप्रग्रहतेजनेषु।
SP0650482: शिक्षागुणैस्तावपरस्परेण विशेषयामासतुराजिमध्ये॥ ४८॥ SP0650491: कान्तिर्मयास्तान्निचकर्त बाणान्मयश्च कान्त्या विशिखान्विसृष्टान्।
SP0650492: छिद्रं समासेदतुरप्रधृष्यौ किंचिन्न तौ तत्र परस्परस्य॥ ४९॥ SP0650501: अश्वेषु सूते सरथे ध्वजे च सर्वेषु गात्रावयवेषु चास्य।
SP0650502: अजिह्मगान्हाटकमृष्टपुङ्खान्मयस्य कान्तिर्निचखान बाणान्॥ ५०॥ SP0650511: मयश्च कान्तिं सरथां ससूतां सचारुचित्रध्वजवाजिमुख्याम्।
SP0650512: संछादयामास शितैः पृषत्कैर्वनस्थलीं मेघ इवाम्बुवर्षैः॥ ५१॥ SP0650521: क्रुद्धाथ कान्तिः समरे मयस्य नाराचमुख्येन सुपत्रितेन।
SP0650522: सूतं जघानाशु रिपोस्तदानीमष्टाभिरष्टौ तुरगांश्च बाणैः॥ ५२॥ SP0650531: हताश्वसूतो विरथो मयो ऽथ निस्त्रिंशमादाय निशातधारम्।
SP0650532: ज्ञात्वैव कान्त्याः समरे प्रभावं विहाय युद्धं वियदुत्पपात॥ ५३॥ SP0650541: विव्याध तीक्ष्णैः सरमा रणाजिरे बाणैर्मुरं दानवदैत्ययूथपम्।
SP0650542: दैत्यो ऽपि बाणैः सरमामजिह्मगैरभ्याहनद्गृध्रमयूरपत्रिभिः॥ ५४॥ SP0650551: क्रुद्धाथ देवी निशितेन तस्य चिच्छेद भल्लेन धनुर्विचित्रम्।
SP0650552: अन्यद्धनुः सो ऽथ तदा गृहीत्वा विव्याध देव्याश्चतुरस्तुरंगान्॥ ५५॥ SP0650561: ते विह्वलाः शोणितमुद्वमन्तो दैत्येन्द्रबाणाभिहतास्तुरंगाः।
SP0650562: भूमौ निपेतुः समरे श्वसन्तः प्राणाञ्जहुश्चाशु समं समस्ताः॥ ५६॥ SP0650571: क्रुद्धाथ देवी सरमासुरस्य निस्त्रिंशमुद्यम्य सुपीतधारम्।
SP0650572: उत्पत्य खं तस्य तदा जघान यन्तारमश्वांश्च महाप्रमाणान्॥ ५७॥ SP0650581: मुरो ऽथ वेगेन तदान्तरिक्षमुत्पत्य कोपान्निहताश्वसूतः।
SP0650582: विव्याध देवीं दशभिः शिताग्रैः शरैरुरस्युग्रभुजंगकल्पैः॥ ५८॥ SP0650591: अचिन्तयित्वा सरमा शरांस्तान्धनुर्विचिच्छेद तदा मुरस्य।
SP0650592: स कृत्तधन्वा वियतीन्द्रशत्रुरन्तर्दधे संयुगमाशु हित्वा॥ ५९॥ SP0650601: विव्याध चण्डा घनमापतन्तं शरैः शिताग्रैर्युधि रुक्मपुङ्कैः।
SP0650602: विद्धः स तैर्दैत्यपतिर्बभासे करैरिवेन्दोरसितः पयोदः॥ ६०॥ SP0650611: अभ्यद्रवत्तानविचिन्त्य बाणांश्चण्डां घनः सायकजालवर्षी।
SP0650612: आगच्छतस्तस्य शरैः सुपत्रैर्विव्याध चण्डा रथवाजिमुख्यान्॥ ६१॥ SP0650621: चिच्छेद दैत्यो ऽपि समुच्छ्रिताग्रं ध्वजं तुरंगांश्च जघान देव्याः।
SP0650622: हित्वा रथौ ताववतीर्य भूमिं गृहीतचर्मासिवरौ प्रयत्तौ॥ ६२॥ SP0650631: विचेरतुर्मण्डलमाजिमध्ये भूमिं तदाग्राङ्गुलिभिः स्पृशन्तौ।
SP0650632: तांस्तांश्च मार्गांल् लघुपादचारौ छिद्रं न चान्योन्यमवापतुस्तौ॥ ६३॥ SP0650641: अभिप्रुतोच्चप्रुतसिंहयातान्निवृत्तकाक्रीडितकोर्ध्वबाहून्।
SP0650642: खगावलीनाभिहतापयातान्निषण्णकाविद्धशिरोभिघातान्॥ ६४॥ SP0650651: उत्प्रुत्य वेगेन तदाथ तस्य शिरोधरामाशु चकर्त चण्डा।
SP0650652: स कृत्तमूर्धा निपपात तस्यां संग्रामभूमावुरसाशु दैत्यः॥ ६५॥ SP0650661: स शोणितादिग्धवपुस्तदानीं घनः परासुः पतितो धरित्र्याम्।
SP0650662: रराज सन्ध्याच्छुरितोरुमूर्त्तिर्वियद्गतो नील इवाम्बुवाहः॥ ६६॥ SP0650671: विव्याध तीक्ष्णैर्नियतिः सुपत्रैः खरं शरैर्वक्षसि हेमपुङ्खैः।
SP0650672: आयोधने संमुखमापतन्तं भल्लेन चास्य ध्वजमुच्चकर्त॥ ६७॥ SP0650681: विद्धः स तैरभ्यपतत्सरोषो देवीं जिघांसुः समरे ऽरिहन्ता।
SP0650682: गुर्वीं गदां चाशु तदा गृहीत्वा चिक्षेप देव्या रुधिराक्तमूर्त्तिः॥ ६८॥ SP0650691: सा दानवाग्र्येण गदा प्रमुक्ता विचित्रहेमोज्ज्वलचारुघण्टा।
SP0650692: संचूर्णयामास रथं नियत्या यन्त्रीं ध्वजं चाशु समुच्छ्रिताग्रम्॥ ६९॥ SP0650701: उत्पत्य तूर्णं नियतिः स्ववाहात्क्रोधेन संरक्तविलोलनेत्रा।
SP0650702: अभ्येत्य तं दानवयोधमुख्यं खड्गेन मध्ये ऽस्य शिरः पफाल॥ ७०॥ SP0650711: स दानवो विस्फुटितोत्तमाङ्गः क्षितौ विरेजे स्रुतरक्तधारः।
SP0650712: वज्रेण भिन्नः शिखराग्रदेशे गिरिर्यथा धातुरसप्रवाही॥ ७१॥ SP0650721: प्रभावती धुन्धुमजिह्मयातैः शिलीमुखैरभ्यहनत्सुपत्रैः।
SP0650722: उरस्युदारा दशभिः शिताग्रैर्घने घनव्रातसमानवर्णैः॥ ७२॥ SP0650731: जघान सा षोडश देवतारेस्तुरंगमान्षोडशभिः पृषत्कैः।
SP0650732: निहत्य चैकेन रथस्य सूतमेकेन चास्य ध्वजमुच्चकर्त॥ ७३॥ SP0650741: धुन्धुर्गदां भारसहस्रगुर्वीं चिक्षेप कार्तस्वरचारुघण्टाम्।
SP0650742: तामापतन्तीं शतशश्चकर्त प्रभावती दैत्यपतिप्रमुक्ताम्॥ ७४॥ SP0650751: आदाय दैत्यः परिघं महान्तमाप्रुत्य वाहादभितः ससार।
SP0650752: देवीमसावञ्जनशैलनीलो रणाजिरे काल इवात्तदण्डः॥ ७५॥ SP0650761: अभ्यापतन्तं युधि दानवेन्द्रं देवी शरैरभ्यहनत्सुपत्रैः।
SP0650762: देव्या समस्तानविचिन्त्य बाणानभ्येत्य तामाहवमूर्ध्नि रोषात्॥ ७६॥ SP0650771: उद्भ्राम्य वैवस्वतदण्डकल्पं लौहं प्रयस्तं परिघोरुबाहुः।
SP0650772: न्यपातयत्तं परिघं रथे ऽस्या गिरेर्नितम्बे कुलिशं यथेन्द्रः॥ ७७॥ SP0650781: अचूर्णयत्तं रथमाशु देव्याः साश्वं ससूतध्वजहेमचक्रम्।
SP0650782: कालायसो ऽसौ परिघो ऽसुरास्तो वेगेन तत्रापससार देवी॥ ७८॥ SP0650791: दृष्ट्वा स तां तत्र तदापयातां तमेव लौहं परिघं गृहीत्वा।
SP0650792: अभ्यद्रवद्दानवयोधमुख्यो दिवीव चित्रामसितः पयोदः॥ ७९॥ SP0650801: उत्पत्य सा दिव्यवरास्त्रमुक्तैः क्षुरप्रमुख्यैः परिघं चकर्त।
SP0650802: उद्यम्य मुष्टिं निबिडं ततो ऽस्या भूयो ऽथ दैत्यो वियदुत्पपात॥ ८०॥ SP0650811: तं मर्मगैर्मर्मसु बाणमुख्यैः साताडयद्दानवमाशु देवी।
SP0650812: भिन्नः स तैर्मर्मगमैः सुपुङ्खैरन्तर्दधे दानवयोधमुख्यः॥ ८१॥ SP0650821: अथ समरमपास्य योधमुख्यैर्विहतपराक्रमपौरुषैरुपेतैः।
SP0650822: सुरपतिरिपवो विनद्य नादान्द्विरदवरानधितस्थुरात्तशस्त्राः॥ ८२॥ SP0659999: इति स्कन्दपुराणे पञ्चषष्टो ऽध्यायः॥