Skandapurāṇa Adhyāya 61
E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013.
SP0610010: सनत्कुमार उवाच।
SP0610011: अथ दानवमुख्यानां लोकनाशाय निर्ययौ।
SP0610012: मत्तवारणसम्बाधं रथाश्वकलिलं बलम्॥ १॥
SP0610021: तत्तदा दानवानीकं विससार दिशो दिशः।
SP0610022: प्रलये मारुतोद्धूतमुदन्वत इवोदकम्॥ २॥
SP0610031: निजघ्नुर्ब्राह्मणान्केचित्केचिन्निष्पिपिषुर्विशः।
SP0610032: सुसुभुः क्षत्रियानन्ये शूद्रानन्ये बभक्षिरे॥ ३॥
SP0610041: जग्रसुर्लिलिहुर्नेदुर्बभञ्जुश्च समन्ततः।
SP0610042: यज्ञेष्वन्नं हविर्नादान्यूपांश्चामरविद्विषः॥ ४॥
SP0610051: स्वधीतवेदाध्ययनाभिनादितान्मुनिप्रवेकाचितगुल्मपादपान्।
SP0610052: प्रभूतचीराजिनदर्भसंचयान्निकामपर्यन्तहिमाम्बुनिर्झरान्॥ ५॥
SP0610061: उपान्तनीवारगवेधुकाचितान्प्रसुप्तविश्वस्तमृगर्क्षवानरान्।
SP0610062: हविर्भुजो धूमवितानसंकुलान्विसृत्य चान्ये परिजघ्नुराश्रमान्॥ ६॥
SP0610071: केचिन्मुनीनामसुरा जीर्णोरगसमत्विषः।
SP0610072: जटाः संगृह्य लुलुचुः क्षालितास्तीर्थवारिणा॥ ७॥
SP0610081: पातयित्वासुराः केचिच्चरणैः पिपिषुः क्षितौ।
SP0610082: ऋषीनात्मविनाशाय हुताशाञ्ज्वलितानिव॥ ८॥
SP0610091: शिरांसि मुनिपत्नीनां करैः केचित्तलत्रिभिः।
SP0610092: पूतानि वारिभिः पुण्यैः पस्पृशुर्दानवाधमाः॥ ९॥
SP0610101: अथ ते जगृहुर्यात्रां ज्ञात्वाभ्युदयमात्मनः।
SP0610102: विक्षिप्तं लोकनाशाय बलमाहूय सर्वशः॥ १०॥
SP0610111: प्रशस्ते ऽहनि नक्षत्रे मुहूर्ते च जयान्विते।
SP0610112: संनाहभेरीराहत्य क्रियाश्चक्रुर्जयावहाः॥ ११॥
SP0610121: संनाह्यान्बलिनो मत्तानानाय्य वरवारणान्।
SP0610122: सम्यगभ्यर्च्य वर्माणि बबन्धुर्विधिनासुराः॥ १२॥
SP0610131: यन्त्राणि धौतैर्नाराचैः पूर्णान्यासनपार्श्वयोः।
SP0610132: बबन्धुः शक्तिपूर्णांश्च वेणूंस्तिर्यगवस्थितान्॥ १३॥
SP0610141: तोमरान्कणपाञ्छंकूञ्छूलचक्रपरश्वधान्।
SP0610142: आबबन्धुर्नियुक्तांश्च मध्यमासनपार्श्वयोः॥ १४॥
SP0610151: सज्जानि परमास्त्राणि बाणधींश्च सुसंस्कृतान्।
SP0610152: सम्पूर्णान्गार्ध्रवासोभिर्निशिताग्रैः शिलीमुखैः॥ १५॥
SP0610161: संनाह्यानङ्कुशांल् लोहान्बालेन्दुसदृशद्युतीन्।
SP0610162: ग्रैवेयेषु सितांश्चक्रुर्मध्ये मस्तकपिण्डयोः॥ १६॥
SP0610171: क्षुरप्रमालाः संयस्ताः शातकुम्भमयीः शुभाः।
SP0610172: आबबन्धुश्च कुम्भेषु गजानां गजसादिनः॥ १७॥
SP0610181: वैजयन्तीपताकाश्च विचित्राः स्वभिलक्षिताः।
SP0610182: उच्छ्रयामासुरायत्ता दन्त्यनीकस्य दानवाः॥ १८॥
SP0610191: घण्टा वारणमुख्यानामाससञ्जुर्महास्वनाः।
SP0610192: चामराणि सुदीर्घाणि हंसांसरुचिराणि च॥ १९॥
SP0610201: एकैकस्य चतस्रश्च करेण्वश्चारुदर्शनाः।
SP0610202: स्थापिताः पुरतो दैत्यैः परवारणवारणाः॥ २०॥
SP0610211: यूनो युवभिरारूढाञ्छिक्षितानस्त्रकोविदैः।
SP0610212: चक्रुरग्रेसरानश्वान्वर्मिणो लोहजालिनः॥ २१॥
SP0610221: वर्मिणो बद्धकवचाञ्छितनिस्त्रिंशधारिणः।
SP0610222: तेषां पुरःसरान्पत्तीननुयातांश्च धन्विभिः॥ २२॥
SP0610231: दैत्ययोधास्ततश्चान्ये वर्मिणो लोहजालिनः।
SP0610232: आरूढा बद्धनिस्त्रिंशाः स्नातपीतांस्तुरंगमान्॥ २३॥
SP0610241: केचिद्विनीतैर्युवभिः स्नापितैः कृतमङ्गलैः।
SP0610242: रथान्संयोजयामासुरश्वैरग्रजवैस्तदा॥ २४॥
SP0610251: सायुधान्सपताकांश्च किंकिणीजालनादितान्।
SP0610252: अधितस्थुस्तदा केचिद्रथान्हाटकसंस्कृतान्॥ २५॥
SP0610261: एवं तत्कल्पितं श्रुत्वा सैन्यं सैन्यनमस्कृतः।
SP0610262: सुन्दो दानवशार्दूलो निर्ययौ कृतमङ्गलः॥ २६॥
SP0610271: स्वीषं सुकूबरं स्वक्षं शातकुम्भमयं वरम्।
SP0610272: नानामणिमयैश्चित्रैर्भक्तिपुष्पमृगद्विजैः॥ २७॥
SP0610281: युक्तं परमसंहृष्टैर्मनोवेगैस्तुरंगमैः।
SP0610282: आरुह्याथ रथं दिव्यं पताकाध्वजशोभितम्॥ २८॥
SP0610291: कवची बद्धनिस्त्रिंशो विधूतसितचामरः।
SP0610292: अभितः स्तूयमानश्च सूतमागधवन्दिभिः॥ २९॥
SP0610301: निसुन्दो ऽपि मदश्यामकपोलालीनषट्पदम्।
SP0610302: आरुह्य निर्जगामाशु संग्रामिकमनेकपम्॥ ३०॥
SP0610311: अन्ये च दानवास्तत्र रथैरश्वैर्मतङ्गजैः।
SP0610312: निर्ययुः परमप्रीत्या युद्धशौण्डाः सुदंशिताः॥ ३१॥
SP0610321: बलस्याग्रेसरं कृत्वा तारकाक्षं महासुरम्।
SP0610322: सहितं बहुभिः शूरै रथनागाश्वपत्तिभिः॥ ३२॥
SP0610331: पृष्ठतः संविधायाशु बलोन्मत्तं महासुरम्।
SP0610332: बलेन चतुरङ्गेन महिषं परिरक्षणम्॥ ३३॥
SP0610341: पार्श्वयोरुभयोर्न्यस्य मेघस्वनमहास्वनौ।
SP0610342: सैन्येन महता गुप्तौ दानवावरिसूदनौ॥ ३४॥
SP0610351: मध्ये सुन्दो निसुन्दश्च मयः शम्भुः खरो मुरः।
SP0610352: संनद्धा बलिनः शूराः परसैन्यनिवारणाः॥ ३५॥
SP0610361: प्रतस्थिरे सुसंयत्ता दिवं दानवसत्तमाः।
SP0610362: प्रलये मारुतोद्धूता घनाः संवर्तका इव॥ ३६॥
SP0610371: तेषामागमनं ज्ञात्वा सह स्वर्लोकवासिभिः।
SP0610372: अपसृत्य जगामाशु जनस्थानं शतक्रतुः॥ ३७॥
SP0610381: मेरोः शिखरमारुह्य सर्वे ऽथ सहितास्तदा।
SP0610382: सेनां निवेशयामासुर्नन्दने ते सुरद्विषः॥ ३८॥
SP0610391: अथ सैन्यस्य दैत्येन्द्रा रक्षामाधाय सर्वतः।
SP0610392: प्रविभक्तानसम्बाधानावासाञ्जगृहुस्ततः॥ ३९॥
SP0610401: दत्तानुज्ञास्ततः सर्वे दानवा दानवोत्तमैः।
SP0610402: संनाह्यमपनिन्युस्ते सर्वोपकरणं तदा॥ ४०॥
SP0610411: आरूढा गजकन्यासु वर्माणि मुमुचुः शनैः।
SP0610412: आयुधान्यपनीयाशु सैनिका मत्तदन्तिनाम्॥ ४१॥
SP0610421: संनाहानपनिन्युश्च मुमुचुः कवचानि च।
SP0610422: तनुत्राणि विचित्राणि तदा दानवसैनिकाः॥ ४२॥
SP0610431: अपेतकक्षान्मातङ्गान्स्नातपीतान्गतक्लमान्।
SP0610432: बबन्धुः कल्पवृक्षेषु केचिद्दानवसैनिकाः॥ ४३॥
SP0610441: केचित्कल्पद्रुमान्नागा मदसंलीनषट्पदाः।
SP0610442: बभञ्जुर्बलिनस्त्रस्तमत्तोद्भ्रान्तविहङ्गमान्॥ ४४॥
SP0610451: चकर्षुर्बलिनः केचिन्मदश्यामान्मतङ्गजाः।
SP0610452: कपोलान्कल्पवृक्षेषु पुष्पालीनालिपङ्क्तिषु॥ ४५॥
SP0610461: नागा जगाहिरे केचिन्मत्ता मन्दाकिनीं नदीम्।
SP0610462: हैमवारिजकिञ्जल्कपिञ्जरोपान्तरोधसम्॥ ४६॥
SP0610471: विमुक्तसांग्रामिकवर्मजालान्प्रसन्नचित्तान्परिघृष्टकायान्।
SP0610472: निपीततोयानपनीतखेदान्बबन्धुरश्वान्पृथगश्वबन्धाः॥ ४७॥
SP0610481: अथ सूक्ष्माणि वासांसि विचित्राः परमस्रजः।
SP0610482: आनिन्युः कल्पवृक्षेभ्यः फलानि मधु चासुराः॥ ४८॥
SP0610491: हैमानि केचित्पद्मानि तद्रजोरुणमूर्तयः।
SP0610492: बभञ्जुर्दानवा हृष्टा गता मन्दाकिनीं नदीम्॥ ४९॥
SP0610501: आनिन्युः सैनिकाः केचिन्मन्दारकुसुमोत्करान्।
SP0610502: फलान्याजह्रिरे केचित्स्वादूनि च बहूनि च॥ ५०॥
SP0610511: तत्रोष्य रजनीमेकां भेरीराहत्य दानवाः।
SP0610512: तेनैव विधिना यत्ताः प्रजग्मुरमरावतीम्॥ ५१॥
SP0610521: ततस्तूर्यनिनादेन गजानां बृंहितेन च।
SP0610522: सिंहनादैश्च दैत्यानां चचालेवामरावती॥ ५२॥
SP0610531: अथ शून्यां समुद्वीक्ष्य पुरीं दानवसत्तमाः।
SP0610532: इत्थमूचुः सुसंहृष्टा नदन्तो भैरवस्वनम्॥ ५३॥
SP0610541: जयति विबुधशत्रुः सुन्ददैत्येन्द्रसिंहः
SP0610542: कठिनरुचिरबाहुः पीनविस्तीर्णवक्षाः।
SP0610543: शतमखपुरजेता चारुपृथ्वायताक्षः
SP0610544: सजलघननिनादो मत्तनागेन्द्रगामी॥ ५४॥
SP0610551: तदनु जयति चारुप्रान्तरक्तायताक्षो
SP0610552: मृगपतिगतिलीलः संयुगेष्वप्रधृष्यः।
SP0610553: त्रिदशवरविजेता दानवेन्द्रो निसुन्दः
SP0610554: प्रहतमुरजनादः पीनदीर्घोरुबाहुः॥ ५५॥
SP0619999: इति स्कन्दपुराण एकषष्टो ऽध्यायः॥