Skandapurāṇa Adhyāya 56
E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013.
SP0560010: व्यास उवाच।
SP0560011: भगवन्यत्त्वयाख्यातं पूर्वं नरकवर्णने।
SP0560012: दुष्कृतं कर्म कृत्वा तु नरा नरकगामिनः।
SP0560013: भवन्ति सुकृताः स्वर्गे सर्वसौख्यसमायुताः॥ १॥
SP0560021: ब्राह्मणा दुष्कृतं कृत्वा गत्वा दुर्गतिमापदम्।
SP0560022: कथं भूयः समायान्ति स्वर्गसौख्यफलं महत्॥ २॥
SP0560031: योनीर्वा कथमागम्य बह्वीः संकरजातिषु।
SP0560032: भूयः सुकृतिनो भूत्वा प्राप्नुवन्ति शुभां गतिम्॥ ३॥
SP0560040: सनत्कुमार उवाच।
SP0560041: शृणु व्यास पुरावृत्तं दशार्णेषु तु यच्छुभम्।
SP0560042: सप्तानां द्विजशिष्याणामशुभं शुभमेव च॥ ४॥
SP0560051: आसीत्सुपर्वा विख्यातः कौशिको ब्राह्मणः शुचिः।
SP0560052: धार्मिकश्च वदन्यश्च विद्वान्विप्रैः सुपूजितः॥ ५॥
SP0560061: तस्य शिष्या बभूवुर्हि सप्त दुर्मेधसस्तु ते।
SP0560062: गुरुशुश्रूषणे रक्ता नामतस्तान्निबोध मे॥ ६॥
SP0560071: आत्रेयः कण्डरो नाम उपमन्युश्च दामनः।
SP0560072: शाण्डिल्यश्चैव हालो ऽभूद्गार्ग्यश्च विदलस्तथा॥ ७॥
SP0560081: शैशिरो गौतमश्चैव दण्डकीलश्च काश्यपः।
SP0560082: विदर्भश्चैव हारीत इतीमे सप्त विश्रुताः॥ ८॥
SP0560091: उपाध्यायो ऽथ तान्विप्रान्प्रोवाचेदं महातपाः।
SP0560092: अचिराद्गामितो गत्वा याज्यदत्तां सुरूपिणीम्।
SP0560093: गत्वानयत होमार्थे शीघ्रं माहिष्मतीं पुरीम्॥ ९॥
SP0560101: त एवमुक्तास्तेनैव माहिष्मत्यास्त्वतन्द्रिताः।
SP0560102: गामादाय निवर्तन्तो मृत्तिकावतिमन्ततः॥ १०॥
SP0560111: अनावृष्ट्या ततस्ते तु दुर्भिक्षे परिवर्तति।
SP0560112: क्षुधापरिगताः सर्वे किंभक्षाः सम्बभूविरे॥ ११॥
SP0560121: सप्तमे ऽहनि जाते च निराहाराः सुदुःखिताः।
SP0560122: अमन्त्रयन्त गामेतां भक्षयाम किमास्यते॥ १२॥
SP0560131: तेषां यः कण्डरो नाम आत्रेयकुलसम्भवः।
SP0560132: स तानुवाच मा धेनुं भक्षयाम गुरोरिमाम्॥ १३॥
SP0560141: गुरोरर्थे हि नः श्लाघ्यो मृत्युरप्यविचक्षणाः।
SP0560142: मा गुरोः क्रोधनिर्दग्धा यास्याम निधनं वयम्॥ १४॥
SP0560151: ते यदा तद्वचो नैव जगृहुः क्षुत्प्रपीडिताः।
SP0560152: स तदोवाच भूयस्तानिदं वचनमर्थवत्॥ १५॥
SP0560161: यदि वो ऽवधृतं विप्रा भक्षणे ऽस्यास्तपोधनाः।
SP0560162: मा वृथा भक्षयामैनां पित्र्यर्थे प्रोक्षयामहे॥ १६॥
SP0560171: मा नो दोषद्वयेनेह लोपो भवतु शोभनाः।
SP0560172: एवं ह्यल्पेन दोषेण वयं योक्ष्याम सर्वथा॥ १७॥
SP0560181: त एवमुक्ताः सम्यक्तु वचस्तस्यावधार्य च।
SP0560182: प्रोक्षयामासुरव्यग्राः पित्र्यर्थे तां पयस्विनीम्॥ १८॥
SP0560191: ततः संस्कृत्य विधिवन्निवेद्य च महामुने।
SP0560192: हुताग्नयस्ततो भूत्वा प्रत्येकमुपयुज्य च।
SP0560193: वत्समेकं गले बद्ध्वा आनिन्युर्गुरवे तदा॥ १९॥
SP0560201: अथ दृष्ट्वा स तं वत्सं धेनुं पप्रच्छ तान्द्विजः।
SP0560202: त ऊचुः पथि शार्दूलो ऽवधीत्तामिति निर्घृणाः॥ २०॥
SP0560211: अथ तेषां वचः श्रुत्वा शङ्कया च दुरात्मनाम्।
SP0560212: दिव्येन चक्षुषापश्यद्भक्षितां तैर्महातपाः॥ २१॥
SP0560221: ततः स रोषाद्रक्ताक्षो निर्दहन्निव तांस्तदा।
SP0560222: उवाच वत्सं दृष्ट्वा च कृपया दुःखपीडितः॥ २२॥
SP0560231: युष्माभिर्भक्षिता सा हि तथ्यं न कथितं च मे।
SP0560232: कर्मणा तेन तस्माद्वो गतिः कष्टा भविष्यति॥ २३॥
SP0560241: प्रसादितः स तैः शिष्यैर्ब्राह्मणः सुमहाद्युतिः।
SP0560242: कृपया स च तानाह भूयः सर्वानिदं वचः॥ २४॥
SP0560251: यदुक्तं तन्मया तथ्यं न तन्मिथ्या भविष्यति।
SP0560252: येषां तु कृतवन्तः स्थ ते वो धास्यन्ति तच्छुभम्॥ २५॥
SP0560261: मत्समीपे च न स्थेयमिदानीं वः कथंचन।
SP0560262: दृष्ट्वा वत्समिमं बालं मा वो धक्ष्यामि गच्छत॥ २६॥
SP0560271: अथ ते सहिताः सर्वे विसंज्ञा नष्टचेतसः।
SP0560272: कालेन समयुज्यन्त चिन्तयन्तो गुरोर्वचः॥ २७॥
SP0560281: दशार्णा नाम सा व्यास सरित्पुण्या सदाजला।
SP0560282: तस्यास्तीरे वनं दिव्यं विश्रुतं तत्सुभास्वरम्॥ २८॥
SP0560291: तत्र व्याधो ऽभवच्छूरः क्षुपको नाम वीर्यवान्।
SP0560292: तस्य पुत्राभवंस्ते वै चितकायां महाबलाः॥ २९॥
SP0560301: चितका सम्प्रसूता तु पुत्रांस्तान्सप्त संमतान्।
SP0560302: व्याधाः सर्वे ऽभवंस्ते वै चैतका इति विश्रुताः॥ ३०॥
SP0560311: चरन्ति सधनुष्कास्ते घ्नन्तो वै मृगपक्षिणः।
SP0560312: सिंहान्व्याघ्रान्गजांश्चैव वराहादींश्च सर्वशः॥ ३१॥
SP0560321: तेषां नामानि यानि स्म व्याधत्वे तानि मे शृणु।
SP0560322: काण्डरो ऽर्जुनको नाम दामनः सिंहको ऽभवत्।
SP0560323: हालो ऽभूद्व्याघ्रकश्चैव विदलः शरभस्तथा॥ ३२॥
SP0560331: शैशिरो हिमवांश्चैव हस्तिको दण्डकीलकः।
SP0560332: विदर्भो वज्रकश्चैव नामान्येतानि तेषु हि॥ ३३॥
SP0560341: एकतस्ते ऽटवीं घोरां चरन्ति पिशिताशनाः।
SP0560342: हिंस्राः सत्त्वान्तकाः सर्वे योनिं दुष्टामुपागताः॥ ३४॥
SP0560351: कदाचिद्विचरन्तस्ते मृगान्घ्नन्तस्तथैव च।
SP0560352: उपाध्यायाश्रमं प्राप्ताः कर्मणा सुकृतेन ह॥ ३५॥
SP0560361: तत्र तेषां भयोद्विग्नाः सर्व एवाभवन्मृगाः।
SP0560362: मृगान्भीतान्समालक्ष्य स विप्रः सुमहातपाः।
SP0560363: न्यवेक्षत दिशः सर्वा व्याधांश्चापश्यदागतान्॥ ३६॥
SP0560371: स्वशिष्यांस्तान्परिज्ञाय ध्यानाद्व्याधत्वमागतान्।
SP0560372: प्रोवाच करुणाविष्टस्तेषामेव शुभेप्सया॥ ३७॥
SP0560381: शुश्रूषितः पुरा विप्रैर्युष्माभिरहमादरात्।
SP0560382: कर्मणा तेन चेदानीम् - - - - - - - -॥ ३८॥
SP0560391: - - - - - - - - गोवध्याकृतशापिताः।
SP0560392: व्याधत्वमिह सम्प्राप्ताः कुत्सितं हिंस्रवृत्तिमत्॥ ३९॥
SP0560401: सा च गौः पितृकार्येण भक्षिता वो न हिंसया।
SP0560402: तस्माद्यूयमितो भ्रष्टा जातिस्मरणसंयुताः॥ ४०॥
SP0560411: मृगाः कालञ्जरे भूत्वा चक्रवाकाः पुनर्ह्रदे।
SP0560412: भूयश्च मानुषा भूत्वा जातौ जातौ सचेतनाः॥ ४१॥
SP0560421: योगयुक्ता महात्मानो मत्प्रसादादतन्द्रिताः।
SP0560422: सर्वकिल्बिषनिर्मुक्ता ब्रह्मलोकमवाप्स्यथ॥ ४२॥
SP0560431: एतच्छ्रुत्वा ततस्तेषां पूर्वा स्मृतिरजायत।
SP0560432: उपाध्यायो ऽयमस्माकमिति बुद्धौ तदाभवत्॥ ४३॥
SP0560441: ततः कर्म जुगुप्सन्तः पूर्वजातिकृतं च यत्।
SP0560442: प्रदक्षिणमुपावृत्य दशार्णामभितो ययुः॥ ४४॥
SP0560451: दशार्णातीरमासाद्य संमन्त्र्य च परस्परम्।
SP0560452: जातिं पूर्वां स्मरन्तस्ते मृत्युमेव प्रवव्रिरे॥ ४५॥
SP0560461: निश्चितानां ततस्तेषां काण्डरो यो ऽभवद्द्विजः।
SP0560462: व्याधो ऽर्जुनकनामा स इदं वचनमब्रवीत्॥ ४६॥
SP0560471: भवन्तो यन्मया पूर्वमुक्तास्तन्न कृतं हि वः।
SP0560472: इदानीं समनुप्राप्तं मावमन्यत मे वचः॥ ४७॥
SP0560481: श्रेयो वो ऽहं प्रवक्ष्यामि शृणुध्वं कुरुतैव च।
SP0560482: जातिमेतां विमोक्ष्याम येन हास्याम न स्मृतिम्॥ ४८॥
SP0560491: पुत्रानिच्छन्ति पितरः पुष्ट्यर्थं तारणाय च।
SP0560492: वयं च जनितास्तेन व्याधेन सुमहात्मना॥ ४९॥
SP0560501: संवर्धिताश्च क्लेशेन मात्रा पित्रा तथैव च।
SP0560502: अनापृष्ट्वा कथं तौ तु मृत्युमिच्छामहे वयम्॥ ५०॥
SP0560511: ते यूयं यदि मन्यध्वमापृष्ट्वा तौ विसर्जिताः।
SP0560512: योक्ष्यामः श्रेयसात्मानमेतद्वो हितमुत्तमम्॥ ५१॥
SP0560521: न चेद्विसर्जयेतां तौ ताभ्यां शुश्रूषणे रताः।
SP0560522: ततस्तावद्धि तिष्ठामो यावत्कालेन तौ मृतौ॥ ५२॥
SP0560531: ततो वयं कृतात्मान अनृणाः सर्वथापि च।
SP0560532: गमिष्यामो गतिं पुण्यामेतन्नः श्रेय उत्तमम्॥ ५३॥
SP0560541: एवमस्त्विति ते सर्वे गृहीत्वा तस्य तद्वचः।
SP0560542: चिन्तयन्तः पुराजन्म गृहानेवाभिजग्मिरे॥ ५४॥
SP0560551: तानागतान्पिता दृष्ट्वा माता च चितका तदा।
SP0560552: तुष्ट्या परमया युक्ता इदं तानूचतुर्वचः॥ ५५॥
SP0560561: पुत्रकाः सुचिरादद्य यूयमभ्यागता गृहान्।
SP0560562: अद्यावां सुदृढं मूढौ किं चिरं कृतमित्युत॥ ५६॥
SP0560570: चितकोवाच।
SP0560571: क्षुधाविष्टः पिता वो ऽद्य पुत्रस्नेहेन पुत्रकाः।
SP0560572: नात्ति मांसमिमं पक्वं सुरां च न पिबत्ययम्॥ ५७॥
SP0560581: ते ऽपि जातिं जुगुप्सन्तः सर्वे वै पापयोनयः।
SP0560582: इदमूचुः क्षुपं चैव चितकां च शुभं वचः॥ ५८॥
SP0560591: भवन्तो ऽश्नन्त्वविघ्नेन पुष्टये शान्तये ऽपि च।
SP0560592: नाश्नीम वयमद्याहः श्वो भोक्ष्यामो न संशयः॥ ५९॥
SP0560601: ततस्तौ वृद्धभावेन नबुभुक्षासहौ तदा।
SP0560602: आहारयेतामाहारं सुतुष्टौ च बभूवतुः॥ ६०॥
SP0560611: तौ तु तुष्टौ समालक्ष्य सर्वे ऽथ शिरसा नताः।
SP0560612: ऊचुः प्रमनसो वाक्यमेकमत्येन ते तदा॥ ६१॥
SP0560621: पितरौ परिनिर्विण्णा वयमेतेन जन्मना।
SP0560622: इच्छामस्तं परित्यक्तुं तन्नः संमन्तुमर्हथः॥ ६२॥
SP0560631: तेषां तद्वचनं श्रुत्वा पिता तानिदमब्रवीत्।
SP0560632: परिष्वज्य सुतान्सर्वान्बाष्पपर्याकुलेक्षणः॥ ६३॥
SP0560641: अहमासं पुरा पुत्रा ब्राह्मणः संशितव्रतः।
SP0560642: दिवोदासस्य राजर्षेः सखा परमसंमतः॥ ६४॥
SP0560651: स कदाचिद्वने रम्ये धनुषा कुरुते भृशम्।
SP0560652: योग्यां तमहमाहेदं न त्वं वेत्सि धनुर्नृप।
SP0560653: अजानन्किमिदं क्लेशं व्यर्थमेव करोषि च॥ ६५॥
SP0560661: प्रोवाच राजा विप्राणां मन्त्रज्ञानं विधीयते।
SP0560662: आमन्त्रणे भोजने च वाचा च कुशलाः सदा॥ ६६॥
SP0560671: स मया हसता प्रोक्त आनयस्व धनुर्मम।
SP0560672: यावत्क्षिपामि लक्षाय शरं यत्र ब्रवीषि माम्॥ ६७॥
SP0560681: स तथोक्तस्तदा मह्यं सशरं धनुरर्पयत्।
SP0560682: तेनोक्तं लक्षमुद्दिश्य शरः क्षिप्तो मया ततः॥ ६८॥
SP0560691: तत्राभवत्स्थितो विप्रो मृगचारी दृढव्रतः।
SP0560692: स तेन विद्धस्तेजस्वी ममार सहसैव च॥ ६९॥
SP0560701: सो ऽहं तं मृतमालक्ष्य राज्ञा तेन विसर्जितः।
SP0560702: ब्रह्मवध्याभयाद्घोरात्पितरं परिपृष्टवान्॥ ७०॥
SP0560711: प्रोवाच न भयं ते ऽस्ति ब्रह्मवध्या कुतस्तव।
SP0560712: जात्यन्तरशतं गत्वा - - - - - - - -।
SP0560713: - - - - - - - - दृष्टमेतत्स्वयम्भुवा॥ ७१॥
SP0560721: ततो ऽहं परया भक्त्या पितृशुश्रूषणे रतः।
SP0560722: अनया भार्यया सार्धं स्थितो वै बहुलाः समाः॥ ७२॥
SP0560731: स कदाचित्पिता चापि मम कालेन संयुतः।
SP0560732: अवतस्थे च तत्रैव अनयैव सहानघाः॥ ७३॥
SP0560741: अथ कालेन महता गवाहं विनिपातितः।
SP0560742: अग्निस्थं चावरूढैषा रुदन्ती मां शुभेक्षणा॥ ७४॥
SP0560751: सो ऽहं गवा हतश्चेति मृगचारिवधेन च।
SP0560752: व्याधजन्मनि विप्रत्वाद्भ्रष्टः पापेन जज्ञिवान्॥ ७५॥
SP0560761: जातो ऽस्मि जन्मनां पुत्राः सहस्रं भृशदारुणम्।
SP0560762: पितृभक्त्या च हि तया सम्यगाराधनेन च।
SP0560763: नानशन्मे स्मृतिः पुत्रा ज्ञानं मे सम्प्रवर्तते॥ ७६॥
SP0560771: जानामि ब्राह्मणान्भ्रष्टान्सर्वान्वै गोकृतेन वः।
SP0560772: गुरोश्चैवानुशापेन भ्रष्टसंज्ञांस्तथैव च॥ ७७॥
SP0560781: लब्धसंज्ञांस्तथा चैव सर्वानद्य महाबलाः।
SP0560782: माता चेयं हि वो वेत्ति साध्वी नित्यं पतिव्रता॥ ७८॥
SP0560791: यदहं वो ब्रवीम्यद्य तत्कुरुध्वं मम प्रियम्।
SP0560792: अवाप्स्यथ ततः श्रेयः सर्वे यूयमतन्द्रिताः।
SP0560793: अनामया विशोकाश्च न च संज्ञां प्रहास्यथ॥ ७९॥
SP0560801: पुत्रा जन्मेदमन्त्यं मे मनुष्यत्वे न संशयः।
SP0560802: इतो मृतेन गन्तव्यं मया ब्रह्मसदः शुभम्॥ ८०॥
SP0560811: ते यूयं मां प्रतीक्षध्वं किंचित्कालमतन्द्रिताः।
SP0560812: स्वर्गते मयि यच्छ्रेयस्तत्करिष्यथ मा शुचः॥ ८१॥
SP0560821: अवश्यं च सुतैर्माता पिता चैव सुखैधितैः।
SP0560822: शुश्रूषितव्यौ नान्यो ऽस्ति धर्मो ऽस्माद्बलवत्तरः॥ ८२॥
SP0560830: सनत्कुमार उवाच।
SP0560831: ततस्ते विस्मिता भूत्वा नष्टशोका विमत्सराः।
SP0560832: तत्कालं पर्युपासन्त यावत्तौ जहतुस्त्वसून्॥ ८३॥
SP0560841: तयोरतीतयोः सम्यक्कृत्वा ते ऊर्ध्वदेहिकम्।
SP0560842: दशार्णायां महानद्यां विधिनानाशकेन ह॥ ८४॥
SP0560851: असाधयन्त आत्मानं व्याधाः सप्तापि ते तदा।
SP0560852: कालञ्जरे गिरौ भूयो मृगाः सप्तैव जज्ञिरे॥ ८५॥
SP0560861: स्मरन्तस्तत्र ते जातिं मरुत्प्रपतनेन ह।
SP0560862: साधयित्वा तदात्मानं चक्रवाकाश्च जज्ञिरे॥ ८६॥
SP0560871: मृगत्वे यानि नामानि तेषां तानि निबोध मे।
SP0560872: दीर्घजीवी अनाधृष्टो वायुवेगो ऽतिकम्पनः।
SP0560873: श्रीपार्श्वः शङ्खपाच्चैव सोमलक्ष्यश्च सप्तमः॥ ८७॥
SP0560881: जातिं स्मरन्तस्ते पूर्वामन्योन्यमभिमान्य च।
SP0560882: सहिताः सहसा प्राणान्मरुत्प्रपतनाज्जहुः॥ ८८॥
SP0560891: ते सप्तसंख्या व्याधेषु मृगेषु च तथा पुनः।
SP0560892: जन्म प्राप्य पुनर्जाताः सरिद्वीपे खगास्ततः॥ ८९॥
SP0560901: सरीद्वीप इति ख्यातं कम्पिल्ये वै सरः शुभम्।
SP0560902: तत्रापि चक्रवाकास्ते सप्ताजायन्त सोदराः॥ ९०॥
SP0560911: मरुद्देवः शिखण्डी च रथनेमिस्वरस्तथा।
SP0560912: शिखी जीवो ऽथ वृक्षश्च ध्वज इत्येव ते स्मृताः॥ ९१॥
SP0560921: तेषां तत्रोपपन्नानां कदाचिदणुहः स्वयम्।
SP0560922: कम्पिल्यको महातेजा राजा तं देशमागमत्॥ ९२॥
SP0560931: स तत्सरः समासाद्य स्त्रीभिः सह मुदान्वितः।
SP0560932: रेमे मन्दाकिनीं प्राप्य अप्सरोभिरिवामरः॥ ९३॥
SP0560941: तं क्रीडमानं संदृश्य मरुद्देवस्य तत्र वै।
SP0560942: चक्रवाकस्य तस्यासीत्स्पृहा तान्विषयान्प्रति॥ ९४॥
SP0560951: यद्यस्याहं सुतः स्यां वै प्राप्नुयां राज्यमेव च।
SP0560952: ततो ऽहं विषयानेतान्प्राप्नुयां नात्र संशयः॥ ९५॥
SP0560961: तस्य तच्चिन्तितं ज्ञात्वा द्वितीयश्चक्रसाह्वयः।
SP0560962: शिखण्डीति समाख्यातः स तमाह तदा हसन्॥ ९६॥
SP0560971: भवता राजपुत्रत्वं राज्यं चैव विचिन्तितम्।
SP0560972: तत्राहं ते पुरोधाः स्यां ममाप्येष मनोरथः॥ ९७॥
SP0560981: ताभ्यां तच्चिन्तितं ज्ञात्वा रथनेमिस्वरस्ततः।
SP0560982: अचिन्तयत तत्राहं सचिवः स्यां तव प्रभो॥ ९८॥
SP0560990: सनत्कुमार उवाच।
SP0560991: तेषां तथा चिन्तयतां त्रयाणामितरे ततः।
SP0560992: चक्राह्वयास्तदा क्रुद्धा इदं तानब्रुवन्वचः॥ ९९॥
SP0561001: अचिन्तनीयं युष्माभिश्चिन्तितं विषयार्थिभिः।
SP0561002: तस्माद्यूयमितो मुक्ता अवाप्स्यथ मनोरथम्॥ १००॥
SP0561011: ताञ्छप्त्वा दीनमनसः समालक्ष्य पुनश्च ते।
SP0561012: येन तद्राजपुत्रत्वं चिन्तितं राज्यमेव च॥ १०१॥
SP0561021: कृपया तमिदं वाक्यमब्रुवन्नष्टचेतसम्।
SP0561022: बहुसान्त्वगुणोपेतं स्वयं दुःखितवद्यथा॥ १०२॥
SP0561031: वयं तव प्रभावेन तीर्णाः कृच्छ्रमिदं प्रभो।
SP0561032: भवान्मतिप्रदो ऽस्माकं सेतुभूतो मतो हि नः॥ १०३॥
SP0561041: भवान्यदि हि न ब्रूयात्पितॄणां गौर्निवेद्यताम्।
SP0561042: शुश्रूषेमश्च न पितॄन्न स्म संज्ञा ततो भवेत्॥ १०४॥
SP0561051: तव प्रभावादेतन्नो योगैश्वर्यप्रवर्तनम्।
SP0561052: ततो वयं पुनः श्रेयस्तव ब्रूमः शृणुष्व नः॥ १०५॥
SP0561061: तावत्त्वं सक्तहृदयो भविष्यसि नराधिपः।
SP0561062: यावदस्मद्वचस्तथ्यं न श्रोष्यसि सहायवान्।
SP0561063: योगज्ञानमवाप्यैनं प्राप्स्यसे च शुभां गतिम्॥ १०६॥
SP0561070: सनत्कुमार उवाच।
SP0561071: ततस्ते सहिताः सर्वे युक्तात्मानो महाखगाः।
SP0561072: खगत्वं सम्परित्यज्य योनिमन्यां प्रपेदिरे॥ १०७॥
SP0561081: सर्वे ततस्ते मुनिकोपदग्धा व्याधा मृगाश्चक्रसमाह्वयाश्च।
SP0561082: जाताः पुनर्मानुषविग्रहेषु योगेश्वरास्ते त्रय एव राज्ये॥ १०८॥
SP0569999: इति स्कन्दपुराणे षट्पञ्चाशो ऽध्यायः॥