०५३

Skandapurāṇa Adhyāya 53

E-text generated on February 22, 2017 from the original TeX files of: Yokochi, Yuko, ed. The Skandapurāṇa. Vol.III. Adhyāyas 34.1-61, 53-69. The Vindhyavāsinī Cycle. Critical Edition with an Introduction & Annotated English Synopsis. Leiden/Groningen: Brill & Egbert Forsten, 2013.

SP0530010: व्यास उवाच।
SP0530011: देवी भगवती सा हि हिमवत्तनयाव्यया।
SP0530012: कियन्तं कालमचरत्तपः परमदुश्चरम्॥ १॥
SP0530021: कथं लब्धवती चापि वरं वरशतारणी।
SP0530022: एतदिच्छामि कथितं सर्वं वै विप्रसत्तम॥ २॥
SP0530030: सनत्कुमार उवाच।
SP0530031: शृणु काले व्यतीते हि तपो देव्याः सुदुश्चरम्।
SP0530032: प्रयता प्राञ्जलिर्भूत्वा समाधाय मनस्तथा॥ ३॥
SP0530041: दिवाकरे ऽभिसंधाय चक्षुश्च मन एव च।
SP0530042: तस्थौ वृक्षावबद्धेव दार्वर्चानिमिषेक्षणा॥ ४॥
SP0530051: सुवर्चलेव सादित्यमीक्षती पर्यवर्तत।
SP0530052: एकपादोर्ध्वबाहुश्च निरुच्छ्वासा बभूव ह॥ ५॥
SP0530061: दिव्यं वर्षसहस्रं सा निश्चलोपलवत्स्थिता।
SP0530062: व्याघ्रद्वितीया रुद्राणी तपोयुक्ता शुभव्रता॥ ६॥
SP0530071: न चास्या ग्लानिरभवन्न बलक्षय एव वा।
SP0530072: पूर्ववच्च हि सा देवी तपसैवावतिष्ठति॥ ७॥
SP0530081: तस्यास्तपःप्रभावेन सर्वं सस्थाणुजङ्गमम्।
SP0530082: अभावोपहतं यद्वज्जगदार्तं व्यतिष्ठत॥ ८॥
SP0530091: नातिदीप्तो ऽभवत्सूर्यश्चन्द्रमा न प्रकाशते।
SP0530092: ज्योतींषि तिमिराण्यासन्व्योम्नि सिद्धा न यान्ति च॥ ९॥
SP0530101: मम्लुश्च देवमाल्यानि विमानानि च पेतिरे।
SP0530102: स्वर्गे ऽपि न सुखं तेषामौत्सुक्यं चापि जायते॥ १०॥
SP0530111: धूमायन्ति दिशः सर्वास्त्रैलोक्यं चैव कृत्स्नशः।
SP0530112: विद्याधृतां गतिर्भग्ना प्रज्वलन्त्यायुधानि च॥ ११॥
SP0530121: मृगा व्याघ्राश्च सिंहाश्च विडालोलूकमूषिकाः।
SP0530122: पन्नगा नकुलाश्चैव एकस्थाः संचरन्त्युत॥ १२॥
SP0530131: ततो देवाः समागम्य ऊचुः सर्वे परस्परम्।
SP0530132: विपर्ययो ऽयं त्रैलोक्ये अकस्मात्सम्प्रदृश्यते।
SP0530133: कारणं महदत्रास्ति नेदं निष्कारणं भवेत्॥ १३॥
SP0530141: तस्माद्वयमजानन्त एतं सर्वं विपर्ययम्।
SP0530142: किं तिष्ठामः समुद्विग्ना गच्छामो ब्रह्मणो ऽन्तिकम्॥ १४॥
SP0530151: इत्युक्त्वा ते सुराः सर्वे बृहस्पतिपुरोगमाः।
SP0530152: वैराजभवनं गत्वा ब्रह्माणं सम्प्रणेमिरे॥ १५॥
SP0530161: पूजिता ब्रह्मणा सम्यगुपविष्टा यथार्हतः।
SP0530162: पृष्टास्तेनागमे हेतुमूचुर्हृच्छोकपीडिताः॥ १६॥
SP0530171: भगवंल् लोकतत्त्वज्ञ सर्वप्रत्यक्षदृग्विभो।
SP0530172: लोको ऽयं विपरीतो ऽद्य किमर्थं शंस नः प्रभो॥ १७॥
SP0530181: तेषां तद्वचनं श्रुत्वा भीतानां सर्वयोगवित्।
SP0530182: उवाच मधुरं श्लक्ष्णमिदं गम्भीरवद्वचः॥ १८॥
SP0530191: एषा हैमवती देवी रुद्राणी लोकधारणी।
SP0530192: तपश्चरति युक्तात्मा योगमास्थाय निश्चलम्॥ १९॥
SP0530201: अद्य वर्षसहस्रं हि दिव्यं तस्याः समाधिना।
SP0530202: वर्षाणां द्वे शते चैव तथान्यच्छरदां शतम्॥ २०॥
SP0530211: तपश्चरत्या योगेन तस्यैष तपसः सुराः।
SP0530212: प्रभावो येन लोकानां विपरीतत्वमागतम्॥ २१॥
SP0530220: देवा ऊचुः।
SP0530221: यदि तस्याः प्रभावेन महोत्पातभयं त्विदम्।
SP0530222: अतो भूयो दहेल्लोकांस्तस्मात्तां संनिवारय॥ २२॥
SP0530231: सा हि देवी तपोयुक्ता अतो भूयो विभावरी।
SP0530232: लोकानिमान्सहास्माभिर्दहेदपि न संशयः॥ २३॥
SP0530241: तस्माल्लोकहितार्थाय अस्माकं वचनादपि।
SP0530242: तथा कुरु यथा साध्वी विनिवर्तति शोभना॥ २४॥
SP0530250: ब्रह्मोवाच।
SP0530251: एवं भवतु गच्छध्वं निर्वृता भवतानघाः।
SP0530252: वरप्रदानेनेष्टेन रुद्राणीं स्थापयाम्यहम्॥ २५॥
SP0530261: गतेष्वथ तु देवेषु ब्रह्मा लोकपितामहः।
SP0530262: विमानं काञ्चनं शुभ्रं वेदिकाशतसंकुलम्॥ २६॥
SP0530271: किङ्किणीजालसंनद्धं मुक्तादामावभासितम्।
SP0530272: इन्द्रनीलमयैः स्तम्भैर्जालैर्जाम्बूनदैस्तथा॥ २७॥ SP0530281: घण्टाभिर्विश्वरूपाभिः समन्तात्परिवारितम्।
SP0530282: वज्रनीलेन्द्रवैडूर्यमहानीलादिभासितम्॥ २८॥ SP0530291: स्तूपिकाभिश्च योग्याभिः स्फटिकाङ्काभिरावृतम्।
SP0530292: सर्वलोकमयं तद्वै स्वयं देवेन निर्मितम्॥ २९॥ SP0530301: पञ्चभूतमयं तद्धि प्रकृतिस्थमथापि च।
SP0530302: शब्दादिजालसम्बद्धं घण्टेन्द्रियसुशब्दवत्॥ ३०॥ SP0530311: मुक्तादामाष्टकैर्युक्तं किङ्किणीषोडशावृतम्।
SP0530312: विंशतिर्वेदिकाश्चात्र विमानं तन्महाप्रभम्॥ ३१॥ SP0530321: शतार्धलक्षणैर्दिव्यैर्मणिजातैस्तथाचितम्।
SP0530322: आसनैर्बहुभिर्युक्तं लोकस्थानैः समन्ततः॥ ३२॥ SP0530331: आरुरोह विमानं तं ब्रह्मा स मुनिभिः सह।
SP0530332: वेदैः सह तथा चापि मन्त्रैः सर्वैस्तथैव च॥ ३३॥ SP0530341: मध्ये तस्यासनं दिव्यं स्वर्णपद्मोपगं दृढम्।
SP0530342: उपोपविष्टस्तत्रासौ ब्रह्मा लोकपितामहः॥ ३४॥ SP0530351: तस्य पार्श्वे तु सावित्री गायत्री चैव सुप्रभा।
SP0530352: ऋग्वेदो दक्षिणेनास्य यजुर्वेदश्च पश्चिमे।
SP0530353: उत्तरे सामवेदस्तु अग्रतो ऽथर्वणस्तथा॥ ३५॥ SP0530361: प्रायश्चित्तानि धर्माश्च तपांसि विविधानि च।
SP0530362: दानानि च विचित्राणि क्रतवः सेष्टयस्तथा॥ ३६॥ SP0530371: तथा व्याहृतयः पुण्यास्तथा लोकाश्च सर्वशः।
SP0530372: पर्वताश्चैव नद्यश्च तथा लोकस्य मातरः॥ ३७॥ SP0530381: लोकपालाः प्रजाध्यक्षा दक्षो धर्मस्तथैव च।
SP0530382: भृगुरत्रिर्वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः॥ ३८॥ SP0530391: मरीचिरङ्गिराश्चैव रुचिश्चैव महायशाः।
SP0530392: ऋभुः सनातनश्चैव विराजश्च महातपाः॥ ३९॥ SP0530401: पितरश्चैव देवाश्च ब्रह्मणो ये प्रसूतयः।
SP0530402: पृथिवी वायुराकाशमापो ज्योतिस्तथैव च॥ ४०॥ SP0530411: एते चैव यथोद्दिष्टाः सागरा दिश एव च।
SP0530412: विद्याश्च धर्मकाराश्च अग्रतस्ते ऽवतस्थिरे॥ ४१॥ SP0530421: ब्रह्मदण्डश्च दण्डश्च कलशः काञ्चनस्तथा।
SP0530422: कमण्डलुश्च तस्यासीत्पार्श्वयोरुभयोरपि॥ ४२॥ SP0530431: यज्ञोपवीतं श्रीमच्च ओंकारश्च तथाग्रतः।
SP0530432: अक्षसूत्रं च योगं च जप्यं चैवाग्रतः स्थिताः।
SP0530433: स्वाहा स्वधा वषट्चैव अग्निश्चैतानि पार्श्वतः॥ ४३॥ SP0530441: यमाश्च नियमाश्चैव साधनानि बहूनि च।
SP0530442: धर्मस्यैतानि सर्वाणि पार्श्वस्थान्यभवंस्ततः॥ ४४॥ SP0530451: दया कृपाथ दानं च श्रद्धा चैव ह्रिया सह।
SP0530452: ऋषीणां पार्श्वगाः सर्वा दक्षिणा यज्ञपार्श्वतः॥ ४५॥ SP0530461: ततो देवाश्च ये केचिद्ब्रह्मलोकनिवासिनः।
SP0530462: सर्वे समधिरुह्याशु समन्तादवतस्थिरे॥ ४६॥ SP0530471: एवं तेषु विमानं तं समारूढेषु सर्वशः।
SP0530472: सुखासीनेषु सर्वेषु ब्रह्मा समनुचोदयत्॥ ४७॥ SP0530481: तच्चोदितं योगविदग्रगामिना महाविमानोत्तमसर्वगामिना।
SP0530482: ययौ प्रभावेन मनोनुगामिना यथा मनः सर्वसृजेव हेतुना॥ ४८॥ SP0539999: इति स्कन्दपुराणे त्रिपञ्चाशो ऽध्यायः॥