Skandapurāṇa Adhyāya 52
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0520010: व्यास उवाच।
SP0520011: के पुनस्तं न गच्छन्ति नरकं शुभकर्मिणः।
SP0520012: पापेष्वभिरता देव एतदिच्छामि वेदितुम्॥ १॥
SP0520021: तथा स्त्रीणां च का युक्ता गतिः परमिका शुभा।
SP0520022: केन कर्मविपाकेन एतदिच्छामि वेदितुम्॥ २॥
SP0520030: सनत्कुमार उवाच।
SP0520031: न गच्छन्ति नरा ये तु नरकं तं सुदुःखिताः।
SP0520032: पापकर्मण्यभिरतास्तानिमाञ्छृणु मानद॥ ३॥
SP0520041: नाग्निचिन्नरकं याति न सत्पुत्री न गोव्रती।
SP0520042: नाश्वमेधेन यो यष्टा गोसहस्रप्रदो न च॥ ४॥
SP0520051: न च स्वाध्यायनित्यो यो रुद्रजापी च यो नरः।
SP0520052: ब्राह्मणं तारयेद्यश्च आपदो मरणान्तिकात्॥ ५॥
SP0520061: तमेव व्याधितं दीनमकर्मण्यं तथैव च।
SP0520062: शुश्रूषेद्यावदर्थेन युक्तो धर्मेण मानवः॥ ६॥
SP0520071: तथा गां चैव संभग्नां पतितां शक्तिवर्जिताम्।
SP0520072: संरक्षति सुयुक्तात्मा स च तं नैव गच्छति॥ ७॥
SP0520081: महेशं यश्च भावेन परेण च समाधिना।
SP0520082: भक्तः समर्चयेन्नित्यं स च तं नैव गच्छति॥ ८॥
SP0520091: ब्राह्मणास्तं न गच्छन्ति वेदवेदाङ्गपारगाः।
SP0520092: षट्कर्मनिरता व्यास आत्मधर्मव्यवस्थिताः॥ ९॥
SP0520101: तपःशौचसमायुक्ता दयावन्तो दृढव्रताः।
SP0520102: प्रतिग्रहनिवृत्ताश्च ईशभक्ताश्च ये द्विजाः॥ १०॥
SP0520111: क्षत्रिया ये च रक्षार्थं प्रजानां नित्यमुद्यताः।
SP0520112: त्यजन्ति समरे प्राणान्न ते नरकगामिनः॥ ११॥
SP0520121: वैश्या वार्तासमायुक्ता न्यायधर्मव्यवस्थिताः।
SP0520122: येषां वृत्तिरविच्छिन्ना देवब्राह्मणपूजने।
SP0520123: नरकं ते न पश्यन्ति स्वर्गगास्ते प्रकीर्तिताः॥ १२॥
SP0520131: भक्ता वर्णत्रयं ये च शूद्रा दर्पविवर्जिताः।
SP0520132: ब्राह्मणांश्च विशेषेण ये नित्यं समुपासते।
SP0520133: न ते पश्यन्ति नरकान्सुगतिं च मृता ययुः॥ १३॥
SP0520141: चतुर्ष्वपि च वर्णेषु मनुजा भावतः शिवम्।
SP0520142: शर्वार्पितक्रियावस्था भक्ता नित्यमनुव्रताः।
SP0520143: न ते प्रयान्ति नरकान्प्राप्नुवन्ति परां गतिम्॥ १४॥
SP0520151: प्रासादं ये च वै कृत्वा देवदेवमुपासते।
SP0520152: अन्यानपि पितॄंस्ते तु नरकादुद्धरन्त्युत॥ १५॥
SP0520161: खानिताः पुष्करिण्यश्च तडागानि ह्रदानि च।
SP0520162: रोपितानि च षण्डानि ते ऽपि तानि न यान्ति हि॥ १६॥
SP0520171: परित्राणां द्विजातीनामन्येषां चैव दुःखिनाम्।
SP0520172: नित्यं प्रकुर्वते ये च ते ऽपि तान्न व्रजन्ति हि॥ १७॥
SP0520181: अक्रोधनाश्च ये नित्यं देवब्राह्मणपूजकाः।
SP0520182: नित्यं दानरताश्चैव न ते गच्छन्त्यधोगतिम्॥ १८॥
SP0520191: सत्याभिधानसंयुक्ता दुष्कृतारम्भवर्जिताः।
SP0520192: स्वधर्मकरणे सक्ताः पश्यन्ति नरकान्न ते॥ १९॥
SP0520201: लिङ्गार्चनरतस्तस्मात्सर्वस्मात्परिमुच्यते।
SP0520202: ध्यानी तु सर्वदा यो वै गणाञ्जपति वा शुचिः।
SP0520203: योगी तु सर्वपापानि कुर्वन्नपि न लिप्यते॥ २०॥
SP0520211: स्त्रीणां तु परमो देवः पतिर्भवति सर्वदा।
SP0520212: तस्मान्नान्यत्प्रपश्यन्ति ये केचिद्धर्मचिन्तकाः॥ २१॥
SP0520221: कर्मणा मनसा वाचा यद्ददाति जुहोति वा।
SP0520222: परित्यज्य पतिं नारी न तस्य फलमश्नुते॥ २२॥
SP0520231: पतिशुश्रूषणे रक्ता त्रिविधेनापि कर्मणा।
SP0520232: पतौ मृते ऽपि मनसा नान्यमिच्छति या नरम्॥ २३॥
SP0520241: करोति पुण्यं यच्चापि पत्युः सर्वं प्रयच्छति।
SP0520242: सा नारी नरकान्सर्वान्मनसापि न गच्छति॥ २४॥
SP0520251: संसारं नैव सा घोरं सर्वं संप्रतिपद्यते।
SP0520252: अन्यासां तु न संदेहो नरकं प्रति सुव्रत॥ २५॥
SP0520260: सनत्कुमार उवाच।
SP0520261: सुकेशं त्वनुगृह्यैवं काष्ठकूटाश्रमं गतः।
SP0520262: अनुजग्राह तं विप्रं काष्ठकूटं तपोधनम्॥ २६॥
SP0520270: व्यास उवाच।
SP0520271: किं तपस्तस्य भगवन्ब्राह्मणस्य महात्मनः।
SP0520272: कियता चैव कालेन वरं लेभे महेश्वरात्॥ २७॥
SP0520281: कस्य पुत्रः कस्य नप्ता किंनामा स च सत्तमः।
SP0520282: एतदिच्छामि कथितं भगवन्विस्तराच्छुभम्॥ २८॥
SP0520290: सनत्कुमार उवाच।
SP0520291: गौतमस्यान्वये विप्रो नाम्ना कृष्ण इति प्रभुः।
SP0520292: तस्य पुत्रो ऽभवत्ख्यातो भूमन्युरिति नामतः।
SP0520293: तस्य पत्न्यभवत्सुभ्रूरात्रेयी नामतो यशा॥ २९॥
SP0520301: स कदाचित्कृतोद्वाहो भूमन्युर्नाम गौतमः।
SP0520302: नाविन्दत सुतं तस्या जरया चाभिसंवृतः॥ ३०॥
SP0520311: स भार्यामाह दुःखार्त इदं वचनकोविदः।
SP0520312: पुत्रेणेच्छन्ति लोकांश्च अनृणाश्च भवन्त्युत।
SP0520313: जरापरिणतश्चाहं न च मे दृश्यते सुतः॥ ३१॥
SP0520321: सा त्वं कंचित्सगोत्रं मे अनुज्ञाता मया शुभे।
SP0520322: अभिपद्यस्व पुत्रार्थं याचे त्वां प्राञ्जलिर्नतः॥ ३२॥
SP0520330: यशोवाच।
SP0520331: न मया श्रुतमेतत्ते तथा नोक्तं त्वयानघ।
SP0520332: मादृशी कथमेतद्धि मनसाप्यभिचिन्तयेत्॥ ३३॥
SP0520341: अत्रीणां तु कुले जाता गौतमं कुलमागता।
SP0520342: मद्विधा कथमेतद्धि कुर्यात्सद्भिर्विगर्हितम्॥ ३४॥
SP0520351: तपसा धनमन्विच्छेज्जीवितानि सुखानि च।
SP0520352: पुत्रान्कुलं च लोकांश्च तपः कुरु महामुने॥ ३५॥
SP0520361: तपसा हि सुतो लब्धः शक्तिना स पराशरः।
SP0520362: और्वश्च तपसा स्वेन च्यवनेन महामुनिः॥ ३६॥
SP0520371: वसिष्ठेन कपिञ्जल्यामिन्द्रप्रमतिरेव च।
SP0520372: शिलादो ऽजनयच्चैव तपसा नन्दिनं सुतम्॥ ३७॥
SP0520381: तथा भवानपि तपः करोतु सुसमाधिना।
SP0520382: लप्स्यसे त्वं सुतं श्रेष्ठं महायोगबलान्वितम्॥ ३८॥
SP0520391: मां हि दृष्ट्वा पुरा प्राह अत्रिर्ब्रह्मसुतः स्वयम्।
SP0520392: सत्पुत्रिणी भवित्रीयं न मिथ्या तद्भविष्यति॥ ३९॥
SP0520401: तपो ऽस्ति मयि यत्किंचित्त्वत्प्रसादात्समार्जितम्।
SP0520402: तेन स्वेन च संयुक्तो रुद्रमाराधय प्रभो॥ ४०॥
SP0520410: सनत्कुमार उवाच।
SP0520411: एवमुक्तः स तेजस्वी ह्रिया परमया युतः।
SP0520412: तथैव समनुज्ञातो रुद्रं शरणमेयिवान्॥ ४१॥
SP0520421: त्वरितं स समागम्य नर्मदां हर्षसंयुतः।
SP0520422: तस्यास्तीरे तमुद्दिश्य तस्थौ वाय्वशनः समाः॥ ४२॥
SP0520431: स तु नैवाभवद्विप्रः कृतार्थस्तेन कर्मणा।
SP0520432: ततः स दुःखितो भूयः प्राणायामेन तस्थिवान्॥ ४३॥
SP0520441: वर्षमेकं ततो देवस्तमुवाच तदा विभुः।
SP0520442: किमेवं क्लिश्यसे विप्र न तवास्ति सुतः क्वचित्।
SP0520443: व्यर्थस्ते ऽयं श्रमस्तावन्नास्ति पुत्रस्तवानघ॥ ४४॥
SP0520451: स एवमुक्तो निर्विण्णो निराशः पुत्रजन्मनि।
SP0520452: चिन्तयामास मरणं न गन्तुं स्वं गृहं प्रति॥ ४५॥
SP0520461: स काष्ठकूटं संभृत्य गृहीत्वाग्निं च दुःखितः।
SP0520462: विलप्य बहु दुःखार्त आत्मानं दग्धुमैच्छत॥ ४६॥
SP0520471: तस्य रुद्रः समालक्ष्य व्यवसायं सुदुष्करम्।
SP0520472: पुत्र पुत्रेति गम्भीरमदृश्य इदमब्रवीत्॥ ४७॥
SP0520481: पुत्रस्ते भविता गच्छ मा च त्वं साहसं कृथाः।
SP0520482: काष्ठकूटेति नाम्ना च भविष्यति स ते सुतः॥ ४८॥
SP0520491: अथ हृष्टमना विप्रो गत्वा पत्न्यां महातपाः।
SP0520492: उत्पादयामास सुतं काष्ठकूटं महामुनिम्॥ ४९॥
SP0520501: संस्कृतस्य तु कालेन तस्य बुद्धिरभूत्ततः।
SP0520502: अशक्तो ऽयं वृद्धभावान्मामध्यापयितुं पिता।
SP0520503: तस्माद्यास्यामि चामन्त्र्य पितरं वेदकारणात्॥ ५०॥
SP0520511: स गत्वा मातरं विप्रः पितरं च महायशाः।
SP0520512: प्रणम्य शिरसा पादौ इदं वचनमब्रवीत्॥ ५१॥
SP0520521: सुतो युवाभ्यां जातो ऽहं धर्महेतोर्न कामतः।
SP0520522: आवां तारयिता चायं तथैव च पितामहान्।
SP0520523: संततिश्चाप्यविच्छिन्ना भविष्यति न संशयः॥ ५२॥
SP0520531: इष्टांश्च लोकान्प्राप्स्याव सुपुत्रेणेति सर्वथा।
SP0520532: पितॄणां चानृणौ स्याव इत्यभीष्टो ऽस्मि वां सुतः॥ ५३॥
SP0520541: सो ऽहं धर्मेष्वकुशलः श्रुतिस्मृतिबहिष्कृतः।
SP0520542: कर्ताज्ञानेन तत्कर्म पितरो येन दुःखिताः।
SP0520543: भवांश्च निरये मग्नश्चिरं वत्स्यति दुष्टवत्॥ ५४॥
SP0520551: भवान्नाध्यापने शक्तः स्थविरत्वाद्दिने दिने।
SP0520552: पुत्रस्नेहाच्च कार्यं च न सम्यग्धारयिष्यति॥ ५५॥
SP0520561: इयं च जननी नित्यमेकपुत्रो ऽयमित्युत।
SP0520562: त्वया सम्यक्प्रशास्यन्तं नैव मामनुमंस्यते॥ ५६॥
SP0520571: सो ऽहमन्यं तपोनित्यं निरनुक्रोशमेव च।
SP0520572: आचार्यं मतिसंपन्नं संश्रयामीति मे मतिः॥ ५७॥
SP0520581: न चापि तद्व्यवस्यामि युवयोर्नास्ति कश्चन।
SP0520582: कुर्याद्यः पादयोर्नित्यं शुश्रूषामिति चिन्तयन्॥ ५८॥
SP0520591: न च नाख्येयमेतद्वां मया चिन्ता कृता शुभम्।
SP0520592: अशुभं वापि यत्किंचिद्युवां मम गतिः परा॥ ५९॥
SP0520601: एवमुक्तौ तु पितरौ पुत्रेण सुमहात्मना।
SP0520602: साश्रुपूर्णेक्षणौ स्थित्वा मुहूर्तमिदमूचतुः।
SP0520603: आघ्रायालिङ्ग्य संमार्ज्य स्नेहात्प्रियसुतं तदा॥ ६०॥
SP0520610: भूमन्युरुवाच।
SP0520611: शुश्रूषा द्विविधा पुत्र पितॄणां धर्मसंहिता।
SP0520612: या कर्तव्या प्रयत्नेन सुतेन सुमहात्मना॥ ६१॥
SP0520621: ऐहिकी चाङ्गशुश्रूषा परत्रे या च धर्मदा।
SP0520622: यया तरन्ति पितरः कामांश्चाप्नुवते ऽक्षयान्।
SP0520623: तत्रैहिकं न नो हीष्टं यथा ह्यामुष्मिकं कृतम्॥ ६२॥
SP0520631: तस्मादामुष्मिकं कर्म यद्भवेत्तत्समाचर।
SP0520632: गच्छाधीष्व श्रुतिं चैव स्मृतिं चैव सुकर्मणाम्॥ ६३॥
SP0520640: मातोवाच।
SP0520641: यथा ते ऽयं पिता पुत्र ब्रवीति विदितात्मवान्।
SP0520642: तथा कुरु यथा देवो वरदस्ते भवेद्भवः॥ ६४॥
SP0520651: उदरेण मया दुःखं धारितस्त्वं महामते।
SP0520652: तथा च बहुभिः क्लेशैर्लब्धः सर्वार्थसिद्धये॥ ६५॥
SP0520661: पित्रा च तपसोग्रेण प्राणांस्त्यक्त्वातिदुस्त्यजान्।
SP0520662: महादेवाद्भवांल् लब्धस्तस्य युक्तं समाचर॥ ६६॥
SP0520671: यथा तुष्टौ त्वया पुत्र जीवौ जीवेन संगतौ।
SP0520672: आवामुभावपि स्याव तथा सम्यक्त्वमाचर॥ ६७॥
SP0520680: सनत्कुमार उवाच।
SP0520681: ततस्ताभ्यामनुज्ञात आघ्रातश्चैव मूर्धनि।
SP0520682: प्रदक्षिणमुपावृत्य जगाम सुकृतात्मवान्॥ ६८॥
SP0520691: स जगाम तदा ताभ्यां विसृष्टश्च्यवनं प्रति।
SP0520692: ऋग्यजुर्भ्यामिवोत्सृष्टा स्वाहुतिर्वरुणं प्रति॥ ६९॥
SP0520701: स तमासाद्य तुष्टेन तेनासौ सफलः कृतः।
SP0520702: भागधेयमिव प्राप्य देवैर्मन्त्रपुरःसरः॥ ७०॥
SP0520711: अथ पुत्रे गते तस्मिन्पिता दिष्टान्तमेयिवान्।
SP0520712: काष्ठकूटस्ततो ऽभ्येत्य कृतविद्यः सुधार्मिकः।
SP0520713: अपश्यन्मातरं दीनामतोयामिव पद्मिनीम्॥ ७१॥
SP0520721: सोमहीनामिव निशामाज्ञाहीनामिव श्रियम्।
SP0520722: रुदन्तीं सास्रुपूर्णाक्षीं विलपन्तीं सुदुःखिताम्॥ ७२॥
SP0520731: काष्ठकूटस्तु तां दृष्ट्वा दुःखेन समभिप्लुताम्।
SP0520732: जयन्त इव पौलोमीं शक्रे नष्टे ऽब्रवीदिदम्॥ ७३॥
SP0520740: काष्ठकूट उवाच।
SP0520741: श्रुतं मयेदं प्रागेव कृता चैवोदकक्रिया।
SP0520742: मा शोके मन आधत्स्व एष धर्मः सनातनः॥ ७४॥
SP0520751: देवानां च ऋषीणां च योगिनां च महात्मनाम्।
SP0520752: मर्त्यानां किं पुनर्मातर्मा रुदस्त्वं तपोधने॥ ७५॥
SP0520761: अहं तेनात्मनात्मा वै सृष्टः स्वेनैव तेजसा।
SP0520762: पश्य मां कृतकृत्यं त्वं गायत्रीवात्मनः सुतम्॥ ७६॥
SP0520771: वेदाः सर्वे मयाधीताः साङ्गोपाङ्गाः सविस्तराः।
SP0520772: तथोपवेदाः सर्वे च अध्यात्मं चैव कृत्स्नशः॥ ७७॥
SP0520781: यत्किंचित्पुरुषैर्ज्ञेयं तत्सर्वं ज्ञातमेव च।
SP0520782: श्रोतव्यं च श्रुतं सर्वमुपास्ताश्चापि योगिनः॥ ७८॥
SP0520791: अनेन हि प्रकर्षेण हृष्यमाणा मुदान्विता।
SP0520792: मां पालय महासत्त्वे गायत्रीव सदा क्रतुम्॥ ७९॥
SP0520800: सनत्कुमार उवाच।
SP0520801: श्रुत्वा तस्य वचस्तद्वै माता तथ्यं महात्मनः।
SP0520802: भूयस्तरेण दुःखेन रुदन्ती तमुवाच ह॥ ८०॥
SP0520810: यशोवाच।
SP0520811: पुत्र नैतद्धि दुःखं मे मृतः स इति संमतः।
SP0520812: सर्वेषां प्राणिनामेतद्विहितं मर्त्यधर्मिणाम्॥ ८१॥
SP0520821: स चापि कृतकृत्यश्च महात्मा तपसान्वितः।
SP0520822: न तस्य शोच्यमस्माभिरिह किंचिद्धि विद्यते॥ ८२॥
SP0520831: आत्मानं पुत्र शोचामि याहं तेन विना कृता।
SP0520832: तमेवानुमृता नास्मि तवागमनकांक्षिणी॥ ८३॥
SP0520841: नार्था न भोगस्वजना न पुत्रा नैव बान्धवाः।
SP0520842: योषितां तत्र तिष्ठन्ति पतिर्यत्रावतिष्ठते॥ ८४॥
SP0520851: पतिर्यदि ततः सर्वं नास्ति किंचित्पतिं विना।
SP0520852: सर्वं हि दुःखदं तासां यासां नास्ति पतिः सुत॥ ८५॥
SP0520861: इदं च मे पुनर्दुःखं यत्त्वां तेन सहाद्य वै।
SP0520862: नाभिनन्दामि संहृष्टा सुखं श्रीरिव विष्णुना॥ ८६॥
SP0520871: बहुशः स हि मामाह काष्ठकूट इहेष्यति।
SP0520872: कृतविद्यस्ततस्तस्य वरयिष्ये स्नुषां शुभाम्॥ ८७॥
SP0520881: काश्यपस्योदलस्येयं सुता गुणवती भृशम्।
SP0520882: तामहं वरयिष्यामि काष्ठकूटस्य सुव्रताम्॥ ८८॥
SP0520891: कदा द्रक्ष्यामि तं पुत्रं सपत्नीकं दृढव्रतम्।
SP0520892: अग्निं चैवाहरिष्यामि पत्नीरत्नं समीक्ष्य ह॥ ८९॥
SP0520901: पत्न्या कदाहं पुत्रस्य पादग्रहणतोषितः।
SP0520902: शुभानि मनसा वाचा विधास्यामि बहून्यपि॥ ९०॥
SP0520911: एवं मनोरथवतस्तस्य पुत्रवतस्तथा।
SP0520912: प्रियपुत्रस्य नैवाभूदेतद्दहति मां सुत॥ ९१॥
SP0520921: मया त्वमुक्तः पूर्वं च गच्छन्वै तस्य सन्निधौ।
SP0520922: जीवौ यथा त्वां पश्यावस्तन्न चैवाभवत्तथा॥ ९२॥
SP0520931: वज्रसारमयं मे ऽद्य हृदयं यन्न दीर्यते।
SP0520932: या त्वां पश्यामि पुत्रेह विना तेनासती पुनः॥ ९३॥
SP0520940: सनत्कुमार उवाच।
SP0520941: ततः सा कुररी यद्वद्विना पत्या महायशा।
SP0520942: विलप्य बहुदुःखार्ता पपात धरणीतले॥ ९४॥
SP0520951: तां काष्ठकूटो दुःखार्तां पतितां गतजीविताम्।
SP0520952: विसंज्ञामग्निना दग्ध्वा विललाप सुदुःखितः॥ ९५॥
SP0520961: हा तात मम दुर्बुद्धेरधर्मज्ञस्य चैव हि।
SP0520962: क्व गतो ऽसि न मे ऽद्य त्वं सभार्यः संप्रभाषसे॥ ९६॥
SP0520971: ननु त्वयाहं निर्दिष्टो गच्छाधीष्वेति हृष्टवत्।
SP0520972: सो ऽहमद्यागतो ऽधीत्वा कस्मान्मां नाभिभाषसे॥ ९७॥
SP0520981: ननु ते तपसा लब्धः परेण च समाधिना।
SP0520982: पुत्रो ऽहं देवदेवाद्वै रुद्रात्किं नाभिभाषसे॥ ९८॥
SP0520991: किं मयापकृतं तात सहभार्यस्य ते ऽनघ।
SP0520992: यन्मां सहाम्बयागत्वा दृढं नैवाभिनन्दसि॥ ९९॥
SP0521001: हा हतो ऽसि मयैकेन दुष्पुत्रेण दुरात्मना।
SP0521002: अराजकमिदं मन्ये पितृघ्नं मां न हन्ति यत्॥ १००॥
SP0521011: एवं स विलपन्व्यास ऋषिभिर्बहुभिस्तथा।
SP0521012: संस्थापितः समाश्वस्त अकरोदुदकक्रियाम्॥ १०१॥
SP0521021: इमां प्रतिज्ञां चक्रे स ऋषिमध्ये महातपाः।
SP0521022: दुष्करां सर्वभूतानामुपस्पृश्य कृताञ्जलिः॥ १०२॥
SP0521031: अद्यप्रभृति नोच्छ्वासं करिष्यामि कथंचन।
SP0521032: वायवो मे शरीरस्था न चरिष्यन्ति कर्हिचित्॥ १०३॥
SP0521041: निमेषोन्मेषरहित एकपादोर्ध्वबाहुमान्।
SP0521042: काष्ठलोष्टोपलीभूतो भविष्यामि न संशयः॥ १०४॥
SP0521051: रुद्रं द्रष्टास्मि यावच्च यावच्च पितरं तथा।
SP0521052: सभार्यं संप्रपश्यामि तावद्व्रतमिदं मम॥ १०५॥
SP0521060: सनत्कुमार उवाच।
SP0521061: ततः स ऋषिभिस्तैस्तु दृश्यमानो महातपाः।
SP0521062: महेश्वरं सदा ध्यायंस्तत्रैव समतिष्ठत॥ १०६॥
SP0521071: तस्य देवस्थितस्यैवं पितृभक्त्या तयापि च।
SP0521072: तुष्टो दिने ऽष्टमे व्यास स्वयमेवाह शंकरः॥ १०७॥
SP0521080: देव उवाच।
SP0521081: काष्ठकूट प्रयच्छामि दिव्यं चक्षुस्तवानघ।
SP0521082: पश्य मां त्वं सुविश्रब्धमदृश्यं योगिनामपि॥ १०८॥
SP0521091: ब्रूहि पुत्र वरं चापि यस्ते हृदि समाहितः।
SP0521092: प्रदास्यामि न संदेहः सुनिश्चिन्त्याभिधत्स्व तत्॥ १०९॥
SP0521100: सनत्कुमार उवाच।
SP0521101: ततः स दृष्ट्वा देवेशमुद्यन्तमिव भास्करम्।
SP0521102: पपात पादयोर्हृष्ट इदं चोवाच सुस्वरम्॥ ११०॥
SP0521110: काष्ठकूट उवाच।
SP0521111: भगवन्मृत्युना माता पिता च मम योजितौ।
SP0521112: जीवेतां तावुभौ देव एतदिच्छाम्यहं वरम्॥ १११॥
SP0521120: देव उवाच।
SP0521121: तौ मृतौ नरकं घोरं प्रपन्नौ मृत्युनार्दितौ।
SP0521122: न तौ शक्यौ पुनर्जीवौ कर्तुमन्यद्वृणीष्व मे॥ ११२॥
SP0521130: काष्ठकूट उवाच।
SP0521131: नाहमन्यं वरं देव कथंचिदपि कामये।
SP0521132: पित्र्यर्थो ऽयं समारम्भस्तद्विधत्स्व नमस्तव॥ ११३॥
SP0521140: देव उवाच।
SP0521141: शरीरं चेन्मृतस्यास्ति तच्छक्यं जीवितेन हि।
SP0521142: संयोजयितुमन्येन दग्धस्यैतन्न विद्यते।
SP0521143: तयोर्न चास्ति वै देहो न चान्यत्कारणं तथा॥ ११४॥
SP0521151: यादृक्च स पिता तुभ्यं भवांस्तादृक्शरीरतः।
SP0521152: शरीरमेतत्त्वं यच्छ ततो जीवौ भविष्यतः॥ ११५॥
SP0521160: काष्ठकूट उवाच।
SP0521161: तुभ्यं वै नास्त्यकर्तव्यं कर्तव्यं चेन्मतं भवेत्।
SP0521162: शरीरं च विना दृष्टमुत्थानं वै ध्रुवस्य तु॥ ११६॥
SP0521171: न चापि मे शरीरेण विना ताभ्यां रतिः प्रभो।
SP0521172: तस्माद्गृहाण देवेश शरीरं यदि मन्यसे॥ ११७॥
SP0521181: तस्यैवेदं महादेव अङ्गादङ्गं समुत्थितम्।
SP0521182: तस्माद्यच्छस्व देवेश न मे कार्यमनेन हि॥ ११८॥
SP0521190: सनत्कुमार उवाच।
SP0521191: ततः स भगवान्देवः प्रहस्य ऋषिसत्तमम्।
SP0521192: प्रीतात्मा प्रत्युवाचेदं युयुक्षुस्तं शुभेन हि॥ ११९॥
SP0521200: देव उवाच।
SP0521201: परीक्षेयं कृता पुत्र तव धर्मभृतां वर।
SP0521202: पितृभक्त्यानया सम्यक्तुष्टो ऽस्मि शृणु मे वचः॥ १२०॥
SP0521211: अक्षयश्चाव्ययश्चापि अजरो मृत्युवर्जितः।
SP0521212: ऐश्वर्येण च संयुक्तः प्रियो मे गणपो भवान्॥ १२१॥
SP0521221: काष्ठकूट इति ख्यातः सर्वयोगबलान्वितः।
SP0521222: कामगेन विमानेन मत्कृतेन चरिष्यसि॥ १२२॥
SP0521231: इमे च ऋषयः सर्वे आश्रमे ऽस्मिंस्तपस्विनः।
SP0521232: तवैवानुचरा भूत्वा भविष्यन्ति गणेश्वराः॥ १२३॥
SP0521241: अक्षयाश्चाव्ययाश्चैव महायोगबलान्विताः।
SP0521242: ऐश्वर्येण च तुल्यास्ते भविष्यन्ति न संशयः॥ १२४॥
SP0521251: अयं च ते पिता पुत्र भूमन्युः सह भार्यया।
SP0521252: तवैवानुचरो भूत्वा त्वत्समः समुपस्थितः॥ १२५॥
SP0521261: श्वेतं च पर्वतं दिव्यं विमानैरुपशोभितम्।
SP0521262: कामगं संप्रयच्छामि निवासं स्वर्गसंनिभम्॥ १२६॥
SP0521270: सनत्कुमार उवाच।
SP0521271: ततः स भगवान्देव अनुगृह्य तमूर्जितम्।
SP0521272: जगाम मन्दरं भूयः सो ऽपीष्टं देशमाव्रजत्॥ १२७॥
SP0521281: यावद्देवी तपोयुक्ता पितुः शिखरमाश्रिता।
SP0521282: तावद्देव इदं सर्वं चकार कथितं हि यत्॥ १२८॥
SP0521291: य इमं देवदेवस्य चेष्टितं शृणुयान्नरः।
SP0521292: श्रावयीत द्विजान्वापि न स दुर्गतिमाप्नुयात्॥ १२९॥
SP0521301: नित्यमेतदधीयंश्च शुचिः प्रयतमानसः।
SP0521302: देहभेदं समासाद्य रुद्रलोकं स गच्छति॥ १३०॥
SP0521311: य इमं बहुपापनाशनं परमं रुद्रसमीपयोजनम्।
SP0521312: पठते ऽतिगुणप्रसाधनं स मृतो याति न दीनसंभवम्॥ १३१॥
SP0529999: इति स्कन्दपुराणे द्विपञ्चाशो ऽध्यायः॥