Skandapurāṇa Adhyāya 50
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0500010: सुशर्मोवाच।
SP0500011: अतः परं प्रवक्ष्यामि संसारपरिवर्तनम्।
SP0500012: यथा वै नरकात्तीर्णाः संसरन्ति समासतः॥ १॥
SP0500021: प्रथमे नरके प्रोक्ता ये मया पापकर्मिणः।
SP0500022: शेषेण कर्मणा ते तु जायन्ते कृमियोनिषु॥ २॥
SP0500031: कृमियोनौ परावृत्ताः सहस्राणां शतं यदा।
SP0500032: ततः पुनर्मर्कटास्ते जायन्ते ऽथ तरक्षवः॥ ३॥
SP0500041: तत्र तावत्परावृत्ता जायन्ते गोषु ते यदा।
SP0500042: तदा तत्र शतेनैव जन्मनां शेषतस्ततः।
SP0500043: मानुषेषूपजायन्ते कुत्सितास्वेव योनिषु॥ ४॥
SP0500051: तत्र ते कुर्वते भूयो यदि किंचिन्न किल्बिषम्।
SP0500052: ततो विशुद्धां जातिं ते पुनरेव लभन्त्युत।
SP0500053: न च भूयो ऽपि ते घोरं संसारं प्राप्नुवन्ति वै॥ ५॥
SP0500061: द्वितीये ये मया प्रोक्तास्ते मुक्ताः शेषकर्मणा।
SP0500062: कृमिकीटेषु जायन्ते सहस्राणां शतानि षट्॥ ६॥
SP0500071: तथा शतसहस्रं च शतानां ते पुनर्गताः।
SP0500072: मत्सयोनौ प्रसूयन्ते तावदेव न संशयः॥ ७॥
SP0500081: ततो व्याघ्राश्च ऋक्षाश्च ततो गोत्वमवाप्यते।
SP0500082: मानुषेषूपपद्यन्ते कुत्सिताः स्वेन कर्मणा॥ ८॥
SP0500091: तृतीये त्वथ ये प्रोक्ता मया दुष्कृतकारिणः।
SP0500092: ते मुक्ताः कर्मणस्तस्माच्छेषेण समवेष्टिताः।
SP0500093: कृमिकीटेषु जायन्ते सहस्राणां शतानि षट्॥ ९॥
SP0500101: तथैव दश चान्यानि पक्षिणस्तावदेव च।
SP0500102: ततः सिंहाश्च सर्पाश्च गावः पश्चाच्च मानुषाः॥ १०॥
SP0500111: चतुर्थे त्वथ ये प्रोक्ता मया दुष्कृतकारिणः।
SP0500112: ते सर्वे शेषवन्तस्तु जायन्ते कृमियोनिषु॥ ११॥
SP0500121: सहस्राणां शतान्यष्टौ तथा चान्यानि षोडश।
SP0500122: योनीनां हि ततो भूयो जायन्ते ते ततो मृगाः॥ १२॥
SP0500131: मृगभावाद्विनिर्मुक्ता जायन्ते च पुनः खराः।
SP0500132: ततो ऽजा गवयाश्चापि गावो मानुष्यतान्ततः॥ १३॥
SP0500141: पञ्चमे ये मया प्रोक्तास्ते ऽपि शेषेण कर्मणा।
SP0500142: कृमिकीटेषु जायन्ते जन्मनां कोटिमेव हि॥ १४॥
SP0500151: हस्तियोनौ च तावद्धि उष्ट्रेष्वश्वेषु चैव हि।
SP0500152: ततो गोत्वं समासाद्य मानुष्यं प्राप्नुवन्ति ते॥ १५॥
SP0500161: षष्ठाच्चैव विनिर्मुक्तास्ततः शेषेण कर्मणा।
SP0500162: जायन्ते कृमिकीटेषु जन्मनां द्विगुणेन हि॥ १६॥
SP0500171: कोटिमेकां ततो यूका ततो मत्सो ऽथ सूकरः।
SP0500172: महिषत्वं ततः प्राप्य गोत्वाज्जायेत मानुषः।
SP0500173: मानुषत्वे कुत्सितश्च व्याधितश्चैव जायते॥ १७॥
SP0500181: सप्तमाच्च विनिर्मुक्तः कृमिकीटेषु जायते।
SP0500182: कोटित्रयं तावदेव वृक्षत्वमधिगम्य च॥ १८॥
SP0500191: ततो लता ततो गुल्मस्ततो हस्ती च जायते।
SP0500192: गोत्वं च समनुप्राप्य जायते मानुषस्ततः॥ १९॥
SP0500201: अष्टमाच्च विनिर्मुक्तो बद्धः शेषेण कर्मणा।
SP0500202: जायते कृमिकीटेषु द्वे कोटी द्विगुणे च सः॥ २०॥
SP0500211: ततश्चौषधिभावेन वीरुत्सु च कुशेषु च।
SP0500212: ततो गोत्वाद्विनिर्मुक्तो जायते कुत्सितो नरः॥ २१॥
SP0500221: नवमादपि चोत्तीर्णो बद्धः शेषेण कर्मणा।
SP0500222: जायते कृमिकीटेषु पञ्चकोटीस्ततः खगः॥ २२॥
SP0500231: ततो मत्सश्च तावद्वै तावदेव सरीसृपः।
SP0500232: श्वा ततस्तावदेवाथ ततो भवति किंनरः॥ २३॥
SP0500241: किंनरत्वाद्विनिर्मुक्तस्ततो गोषूपजायते।
SP0500242: ततो गोयोनिनिर्मुक्तो मानुषेषूपजायते॥ २४॥
SP0500251: दशमादपि चोत्तीर्णः षट्कोटीर्जन्मनां कृमिः।
SP0500252: शेषेण कर्मणा जातस्ततो भवति वानरः॥ २५॥
SP0500261: वानरस्तावदेवेह तावदेव च कुक्कुटः।
SP0500262: तावदेव च काकस्तु जीवंजीवक एव च॥ २६॥
SP0500271: वृक्षदारकमार्जारपिपिलीका च जायते।
SP0500272: ततो गोषु प्रजातो ऽसौ मानुषेषूपजायते॥ २७॥
SP0500281: महारौरवनिर्मुक्तः सप्तकोटीः सुदुःखितः।
SP0500282: जन्मनां कृमिकीटेषु ततो मत्सत्वमश्नुते॥ २८॥
SP0500291: ततः श्वा गर्दभश्चैव भैनाशी शुक एव च।
SP0500292: ततो भवति गौश्चापि ततः षण्ढः प्रजायते॥ २९॥
SP0500301: तमोनरकनिर्मुक्तस्त्वष्टकोटीः सुदुःखितः।
SP0500302: जन्मनां प्राप्नुते जन्तुर्विष्ठायां कृमियोनिषु॥ ३०॥
SP0500311: ततः श्वा जायते भूयश्चक्राह्वश्च पुनः पुनः।
SP0500312: ततो मण्डूकतां प्राप्य जायते मृगपक्षिषु॥ ३१॥
SP0500321: जायते किंनरश्चापि द्वीपी शरभ एव च।
SP0500322: ततो गोत्वं समासाद्य मानुषत्वमवाप्नुते॥ ३२॥
SP0500331: तमोनरकनिर्मुक्तः शेषेणैव हि कर्मणा।
SP0500332: जायते कृमिकीटेषु नवकोटीः स जन्मनाम्॥ ३३॥
SP0500341: ततो भवति काकश्च भासश्चैव स जायते।
SP0500342: वान्ताशी च ततः पक्षी उलूकश्च ततः पुनः॥ ३४॥
SP0500351: पुनर्वृक्षश्च गुल्मश्च ततो भवति वै मृगः।
SP0500352: ततो गौर्मनुजश्चापि तत्र गर्भे स वै मृतः॥ ३५॥
SP0500361: पुनः पुनर्जायमानः सहस्राणां शतं स तु।
SP0500362: व्याधितः कुत्सितश्चैव जायते स नरः पुनः॥ ३६॥
SP0500371: यस्तु सर्वानिमान्प्राप्य नरकानिह जायते।
SP0500372: स योनिषु समस्तासु सर्वसंसारमश्नुते॥ ३७॥
SP0500381: यदि मानुष्यतां याति कदाचित्कालपर्ययात्।
SP0500382: तत्रापि कुत्सितां योनिं भूयो भूयः प्रपद्यते॥ ३८॥
SP0500391: अनिष्टः सर्वभूतानां दुःखितो व्याधितस्तथा।
SP0500392: विकृतं रूपमाप्नोति कर्मणा स्वेन दूषितः॥ ३९॥
SP0500400: सुशर्मोवाच।
SP0500401: एतत्ते कथितं सर्वं समासात्पुत्र सर्वशः।
SP0500402: नरकाणां सतत्त्वं च क्रमभेदौ यथागति॥ ४०॥
SP0500410: सनत्कुमार उवाच।
SP0500411: य इमं शृणुयाद्युक्तः सदा पर्वसु पर्वसु।
SP0500412: श्रावयेद्वा द्विजान्सम्यक्सर्वपापैः प्रमुच्यते॥ ४१॥
SP0500421: धर्म्यं यशस्यमायुष्यं स्वर्ग्यं सर्वार्थसाधकम्।
SP0500422: श्राव्यं च पठितव्यं च सततं भूतिमिच्छता॥ ४२॥
SP0500431: इदं तु सर्वार्थसुखावहं ध्रुवं महानुभावं सुगतिप्रदं शुभम्।
SP0500432: सदैव विप्रेण समाहितात्मना अधीत्य धार्यं श्रुतिसंमितं ध्रुवम्॥ ४३॥
SP0509999: स्कन्दपुराणे पञ्चाशो ऽध्यायः॥