०४९

Skandapurāṇa Adhyāya 49

E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.

SP0490010: सुशर्मोवाच।
SP0490011: तमस्तमतरं घोरं नरकं शृणु मे पुनः।
SP0490012: प्रकाशो यत्र नैवास्ति नैव दृष्टिः प्रवर्तते॥ १॥
SP0490021: पतन्नेव नरस्तत्र विसंज्ञः क्रियते ऽशुभः।
SP0490022: राक्षसैर्विकृताकारैस्तमस्तेन स चोच्यते॥ २॥
SP0490031: तत्रासौ पतितो मूढो वह्निना दह्यते भृशम्।
SP0490032: मृतो वेगादुत्थितश्च दृष्टिहीनो विचेतनः।
SP0490033: छिद्यते भिद्यते चैव राक्षसैः क्रूरकर्मभिः॥ ३॥
SP0490041: तस्मादपि तथैवार्तः सो ऽन्यं देशं प्रपद्यते।
SP0490042: तत्रापि निगृहीतस्तैः पशुमारेण वध्यते॥ ४॥
SP0490051: ततो भूयश्च कूपेषु क्षिप्तो दुर्गेष्वचेतनः।
SP0490052: निमग्नश्चाग्निकारीष्यां निष्कूजन्सो ऽभिजायते॥ ५॥
SP0490061: एवं स यातना बह्वीस्त्वनुभूय सुदुःखितः।
SP0490062: नरकान्तमनुप्राप्य उच्छ्रयेष्वभिपात्यते॥ ६॥
SP0490071: गर्भपातनकारश्च राज्यकामश्च यो भवेत्।
SP0490072: इहैवानर्हमानो ऽसौ भृत्यो राजवधे रतः॥ ७॥
SP0490081: अनाचार्यश्च यः कर्म आचार्याणां प्रपद्यते।
SP0490082: शास्त्रविद्यौषधीनां च गदानामगदैः सह।
SP0490083: यो विनाशयिता कश्चिद्यः प्रशंसति दानवान्॥ ८॥
SP0490091: उपदेशं च यो द्वेषादाचार्यो न प्रयच्छति।
SP0490092: स याति नरकं घोरं दुस्तरं तं तमोमयम्॥ ९॥
SP0490101: कृतघ्नं तु समादाय नरकाः सर्व एव ते।
SP0490102: यमं प्रणम्य ब्रुवते सह तैर्यमकिंकरैः॥ १०॥
SP0490111: भगवन्न वयं शक्ताः पापस्यास्य विनाशने।
SP0490112: उपायमन्यं पश्यस्व प्रसादं कुरु नः प्रभो॥ ११॥
SP0490121: स एवमुक्तो भगवान्यमः प्रेताधिपस्तदा।
SP0490122: सर्वधर्मार्थकुशलान्पृच्छते ऋषिसत्तमान्॥ १२॥
SP0490131: भगवन्तः कथं त्वस्य कृतघ्नस्य दुरात्मनः।
SP0490132: निष्कृतिः सुमहाघोराद्भवेत्पापस्य कर्मणः॥ १३॥
SP0490141: ततस्ते ऋषयः सर्वे दृष्ट्वा दीर्घेण चक्षुषा।
SP0490142: यमं धर्मभृतां श्रेष्ठमिदं वै ब्रुवते वचः॥ १४॥
SP0490151: ब्रह्मघ्ने च सुरापे च चोरे भग्नव्रते तथा।
SP0490152: निष्कृतिर्विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः॥ १५॥
SP0490161: ततः स भगवान्देवो मार्तण्डतनयो वरः।
SP0490162: नरकेभ्यो ददात्याज्ञां सर्वे यूयमिमं नरम्।
SP0490163: शोधयिष्यथ गच्छध्वं नैका ह्यस्य गतिः स्मृता॥ १६॥
SP0490171: ततस्ते तस्य वचनान्नरकाः पापकर्मिणम्।
SP0490172: सर्वेष्वेवानुपूर्वेण यातयन्त्यतिदारुणम्॥ १७॥
SP0490181: भर्तृपिण्डापहर्ता च पितृपिण्डापहारकः।
SP0490182: तस्माद्गृहीत्वा विद्यां च दक्षिणां यो न यच्छति॥ १८॥
SP0490191: पुष्टश्च यः स्वं नान्वेति यश्च तं घातयेन्नरः।
SP0490192: कृतस्य दोषं वदति सकामं न करोति च।
SP0490193: न स्मरेच्च कृतं यस्तु आश्रमान्यश्च दूषयेत्॥ १९॥
SP0490201: न पुष्णाति तथा वाहानाश्रितांश्चोपकारिणः।
SP0490202: भृत्यांश्च कर्मनिरतांस्तथैव हितकारिणः।
SP0490203: भार्याकर्मकरीणां च नर्माणि वदते च यः॥ २०॥
SP0490211: न दत्तं न हुतं किं चिदमुष्मिन्निति यो वदेत्।
SP0490212: सर्वांस्तानृषिभिः सार्धं कृतघ्नानब्रवीन्मनुः॥ २१॥
SP0490221: कृतघ्नश्च शठश्चैव नास्तिको ऽच्छिन्नसंशयः।
SP0490222: एतान्सर्वे ऽभिगच्छन्ति य एते कीर्तिता मया॥ २२॥
SP0490231: उत्पादकोपनेता च यश्च विद्यां प्रयच्छति।
SP0490232: भयत्रातान्नदाता च पञ्चैते पितरः स्मृताः॥ २३॥
SP0490241: यस्तेषां दोषवक्ता च अभ्यसूयक एव च।
SP0490242: तथा द्रोहप्रवृत्तश्च संत्यजेत्तान्नराधमः॥ २४॥
SP0490251: मित्रध्रुग्यश्च दुष्टात्मा तस्य रन्ध्रावकीर्तकः।
SP0490252: कृतोपकारिणे पूर्वं न करोति प्रियं च यः॥ २५॥
SP0490261: एते सर्वे नरा दुष्टाः सर्व एवाशुभे रताः।
SP0490262: नरकान्संप्रपद्यन्ते बद्धाः पापेन कर्मणा॥ २६॥
SP0490271: एते सर्वे मया प्रोक्ता महानिरयगामिनः।
SP0490272: उच्छ्रयानेव गच्छन्ति ये ऽन्ये पापकृतो जनाः॥ २७॥
SP0490281: य इमं तामसं घोरं शृणुयाद्वा पठेत वा।
SP0490282: अधर्माच्च निवर्तेत स गच्छेद्ब्रह्मणः पदम्॥ २८॥ SP0499999: स्कन्दपुराण एकोनपञ्चाशत्तमो ऽध्यायः॥