Skandapurāṇa Adhyāya 47
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0470010: सुशर्मोवाच।
SP0470011: महारौरवमन्यच्च शृणु मे दुष्टयातनम्।
SP0470012: यत्र धाराश्च तोयस्य तडागानि च पुत्रक।
SP0470013: कारीषी कनकाभा च कुल्याश्चाग्निप्रपूरिताः॥ १॥
SP0470021: आयसा बहवः स्तम्भा वृक्षाश्च बहुकण्टकाः।
SP0470022: राक्षसा विविधाकारास्तीक्ष्णशस्त्रास्त्रधारिणः॥ २॥
SP0470031: तत्र पापेन बहुना जन्तुः समभिपाशितः।
SP0470032: निपतेद्विकृताकारः क्रन्दमानो मुहुर्मुहुः॥ ३॥
SP0470041: स तत्र पतितः क्षिप्रं राक्षसैर्भिन्नमस्तकः।
SP0470042: कारीष्यामग्निवर्णायां पच्यते भृशदारुणम्॥ ४॥
SP0470051: ततः स तेन दाहेन दुःखितः परमार्तिमान्।
SP0470052: दाहप्रशमनार्थाय तडागे ऽभिनिमज्जते॥ ५॥
SP0470061: तत्र क्षारेण कष्टेन द्विगुणं वेदनार्दितः।
SP0470062: वेगेनोत्थाय वृक्षं वा स्तम्भं वाप्यभिरोहति॥ ६॥
SP0470071: तत्र तैः कण्टकैस्तीक्ष्णैरायसैश्चावतक्षितः।
SP0470072: पतते ह्यग्निकुल्यायां करुणं बहुधा नदन्॥ ७॥
SP0470081: एवं स यात्यमानस्तु तृषार्तो विलपन्बहु।
SP0470082: धारामाश्रयते पातुं सापि तस्यायसं तदा।
SP0470083: अग्निवर्णं वहत्यम्भस्ततो मूर्छार्दितो म्रियेत्॥ ८॥
SP0470091: संपूर्णयातनश्चापि मुक्तस्तस्माद्भयावहात्।
SP0470092: उच्छ्रयेषु तदा जन्तुर्यात्यते भृशदारुणम्॥ ९॥
SP0470101: तत्र गच्छन्ति राजघ्नो राजभार्यावमन्यकः।
SP0470102: आशां दत्त्वा न दद्याद्यो यश्च तीर्थावदूषकः॥ १०॥
SP0470111: मोषकः सूचकश्चैव स्त्रीभृतो यश्च पापकृत्।
SP0470112: अग्नौ गवि च यो दानं ब्राह्मणे वापि वारयेत्॥ ११॥
SP0470121: विक्रीणीयात्स्वभार्यां यो अपत्यं वा नराधमः।
SP0470122: हरते चाग्निभाण्डानि योगिनां चैव किंचन॥ १२॥
SP0470131: चोरग्राहश्च दुर्बुद्धिर्मनुष्यास्तस्य ये च ह।
SP0470132: ब्राह्मणाधिकृतश्चैव धर्माधिकृत एव च॥ १३॥
SP0470141: कपिला यस्य गौः स्याच्च अनग्नेर्ब्राह्मणस्य ह।
SP0470142: मिथ्याग्निहोत्री यश्चैव नैत्यके ऽपरिवेषकः॥ १४॥
SP0470151: राजपुत्रहरश्चैव दुर्भिक्षं यश्च चिन्तयेत्।
SP0470152: राष्ट्रलोपं दारलोपं धनलोपं च यो नरः।
SP0470153: देशस्य डामरं चैव सततं य इहेच्छति॥ १५॥
SP0470161: य इमं शृणुयादभीक्ष्णशो नियतं धर्ममतिश्च तिष्ठति।
SP0470162: न स गच्छति तं भयावहं नरकं रौरवमुग्ररौरवम्॥ १६॥
SP0479999: स्कन्दपुराणे सप्तचत्वारिंशो ऽध्यायः॥