०४६

Skandapurāṇa Adhyāya 46

E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.

SP0460010: सुशर्मोवाच।
SP0460011: अतः परं प्रवक्ष्यामि रौरवं नरकं पुनः।
SP0460012: यत्र ते विवशा बद्धाः कर्मणा स्वेन जन्तवः।
SP0460013: यात्यन्ते दुःखशोकार्ता महानिरयगामिनः॥ १॥
SP0460021: रु इति प्रोच्यते शब्दस्तत्रासौ श्रूयते यतः।
SP0460022: पुनः पुनर्वा भीमो हि रौरवस्तेन कीर्त्यते॥ २॥
SP0460031: पूर्णस्तु सर्वः कारीष्या ज्वलत्या सो ऽतिदारुणः।
SP0460032: मध्ये स्तम्भो ऽस्य लोहो वै तप्तकाञ्चनसप्रभः॥ ३॥
SP0460041: तत्र जन्तुर्भृशं मग्नः प्रविशन्दह्यते भृशम्।
SP0460042: आर्तनादान्प्रकुर्वाणो मूर्छितः पतितः पुनः॥ ४॥
SP0460051: ततः क्लेशेन महता उद्धृत्यात्मानमात्मना।
SP0460052: भूयो ऽन्यं देशमासाद्य तथैव प्रविशन्स हि॥ ५॥
SP0460061: ततस्तस्मादुपोत्पत्य स्तम्भमाश्रयते यदि।
SP0460062: तेनापि दह्यते भूयो विसृज्य प्रविशेत्पुनः॥ ६॥
SP0460071: एवं स यात्यते तत्र बहूनब्दान्सुदुःखितः।
SP0460072: ततो विसृष्टो भूयश्च उच्छ्रयान्प्रतिपद्यते॥ ७॥
SP0460081: तं हि गच्छन्ति पुरुषाः सुरापा धर्मदेशकाः।
SP0460082: पितृहा मातृहा चैव भ्रातृहा गुरुहा तथा॥ ८॥
SP0460091: गोघ्नो ऽथ दमकश्चैव जन्तूनां भृशदारुणः।
SP0460092: गलकर्त्ता कूटमानी कर्मणांश्च करोति यः॥ ९॥
SP0460101: परिवित्तिः परिवेत्ता श्मशानरतिरेव च।
SP0460102: पुनर्भूसुतसंयोगी यस्य चोपपतिर्गृहे।
SP0460103: एते सर्वे ऽभिगच्छन्ति नरकं रौरवं नराः॥ १०॥
SP0460111: य इमं शृणुयाच्च रौरवं नरकं पापकृतां सुरौरवम्।
SP0460112: नियतं प्रयतो ऽतिरौरवं न स गच्छेन्मनसापि रौरवम्॥ ११॥
SP0469999: स्कन्दपुराणे षट्चत्वारिंशो ऽध्यायः॥