०४५

Skandapurāṇa Adhyāya 45

E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.

SP0450010: सुशर्मोवाच।
SP0450011: महापद्मस्ततश्चान्यो निरयो रोमहर्षणः।
SP0450012: यत्र ते किंकरा घोरा यमस्य यमसंनिभाः॥ १॥
SP0450021: जन्तूनामायुधैः कुण्ठैर्निर्घृणाः पापकर्मिणाम्।
SP0450022: उत्कृत्योत्कृत्य मांसानि तेभ्यो यच्छन्ति वै पुनः॥ २॥
SP0450031: ते भक्षयित्वा मांसानि स्वानि दुष्कृतकारिणः।
SP0450032: पद्मपत्रनिभा जाता धाम्यन्ते ऽग्नौ दिवानिशम्॥ ३॥
SP0450041: अनलेन च घोरेण द्रवीकृतमयः पुनः।
SP0450042: मुखे ऽपावृत्य यच्छन्ति दारुणा यमकिंकराः॥ ४॥
SP0450051: अयोमय्यस्तथा नार्यो नराश्चाग्निसमप्रभाः।
SP0450052: समाश्लिष्यन्ति संगत्य द्रवमाणास्ततस्ततः॥ ५॥
SP0450061: वृक्षाश्च तत्र बहवः सुपुष्पफलपत्रिणः।
SP0450062: तानाश्रयन्ति दुःखार्ता अग्निं वर्षन्ति ते ऽपि च॥ ६॥
SP0450071: शिलाश्च बह्व्यस्तत्रान्यास्ताः श्लिष्यन्ति यदा च ते।
SP0450072: तदा ताश्चाग्निवर्णाभा दहन्ते तान्भृशं नरान्।
SP0450073: एवमेष महापद्मो नरकः संप्रकीर्तितः॥ ७॥
SP0450081: सुवर्णहारी यश्चैव मातृयायी च यो नरः।
SP0450082: माता पुत्रं च यो ऽभ्येति वेददोषावकीर्तकः॥ ८॥
SP0450091: मत्सरी यश्च दुर्वृत्तः श्रवणानां च पूजकः।
SP0450092: वृषलो यः श्रुतिं ब्रूयाच्छृणुयादपि वा पुनः।
SP0450093: गृह्णीयाद्वापि दुर्बुद्धिर्ब्राह्मणान्वावमन्यते॥ ९॥
SP0450101: ब्राह्मणेभ्यो रहस्यानि आश्रमान्तरजानि च।
SP0450102: यस्मिन्नाधिकृतो यः स्याच्छृणुयाद्वा पठेत वा॥ १०॥
SP0450111: दुष्टश्रवणनिर्ग्रन्थास्तथैवाजीवकाश्च ये।
SP0450112: भक्तस्तेभ्यो द्विजो यश्च नरकं संप्रपद्यते॥ ११॥
SP0450121: योगं परिवदेद्यश्च पितॄनथ पितामहान्।
SP0450122: योगेश्वरांश्च दुर्वृत्तो योगधर्ममथापि च।
SP0450123: वेदवर्णाश्रमज्ञांश्च तन्निन्दाभिरतः शठः॥ १२॥
SP0450131: हेतुको नास्तिवादी च सर्वस्तं प्रतिपद्यते।
SP0450132: तथ्यमुक्तं मया सर्वमेवमेतन्न संशयः॥ १३॥
SP0450141: एवं ते यातितास्तत्र स्वकर्मफलबन्धनाः।
SP0450142: ततः शेषेण संबद्धा जायन्ते कीटकादिषु॥ १४॥
SP0450151: शृणुयाद्य इमं विजित्य दोषान्मतिमान्नित्यमलोभमोहशोकः।
SP0450152: स तु दैवविधिप्रवेरितात्मा दिवमेवैति न याति तं कदाचित्॥ १५॥
SP0459999: स्कन्दपुराणे पञ्चचत्वारिंशो ऽध्यायः॥