Skandapurāṇa Adhyāya 39
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0390010: सुशर्मोवाच।
SP0390011: अतः परं तृतीयस्तु नरकः कालसूत्रकः।
SP0390012: समन्तान्महतोच्चेन प्राकारेण सुसंवृतः|
SP0390013: लोहजालेन च तथा आकाशे ऽप्यभिसंवृतः॥ १॥
SP0390021: यथैकश्च तथा सर्वे नरका अभिसंवृताः|
SP0390022: सोच्छ्रयाश्चैव विज्ञेया न वक्ष्ये तदहं पुनः॥ २॥
SP0390031: शोकद्रोहजनास्तत्र यात्यन्ते पुरुषाधमाः|
SP0390032: ये हरन्ति स्त्रियं वाजिविक्रेता यस्तथा गवाम्|| ३||
SP0390041: धर्मस्य चात्मनश्चैव ब्राह्मणानां च निन्दकाः|
SP0390042: छद्मना यश्च शास्त्राणि गुरुभ्यो ऽपहरेत्पुनः|| ४||
SP0390051: गुरुं निन्दति यश्चापि पितरं मातरं तथा|
SP0390052: श्वशुरं भ्रातरं ज्येष्ठं तथा चान्यान्गरीयसः|
SP0390053: आक्रोशते च यस्तान्वै तथा चाप्यवमन्यते|| ५||
SP0390061: आश्रमाणां तथा भेत्ता रहस्यानां च सर्वशः|
SP0390062: अदत्तं यः समादद्यात्स गच्छेद्द्विज तत्र वै|| ६||
SP0390071: ते तत्र पतिता घोरे नरके पापचेतसः|
SP0390072: तिस्रः कोट्यस्तु संपूर्णा वर्षाणां तु नराधमाः|
SP0390073: यात्यन्ते मृत्युवचनात्क्रन्दमाना विचेतसः|| ७||
SP0390081: कालसूत्रेण महता मित्वा मित्वा तु दुष्कृतम्|
SP0390082: छिद्यन्त्यङ्गानि जन्तूनां कुण्ठाग्रैरायुधैर्भृशम्|
SP0390083: किंकरैस्तैरविश्रान्तं दिवारात्रिमतन्द्रितम्|| ८||
SP0390091: पूर्णे काले ततो जन्तुरुच्छ्रयान्प्रतिपद्यते|
SP0390092: विश्राम्य स तदा जन्तुः पात्यते नरके पुनः|
SP0390093: यावदस्य कृतं पापं क्षीणं सर्वमशेषतः|| ९||
SP0390101: य इमं बहुपापकर्तृसूत्रं शृणुयात्सुरलोककर्मसूत्रम्|
SP0390102: न स याति तमुग्रदुःखसूत्रं नरकं यमलोककालसूत्रम्|| १०||
SP0399999: स्कन्दपुराण एकोनचत्वारिंशत्तमो ऽध्यायः||