Skandapurāṇa Adhyāya 38
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0380010: सुशर्मोवाच।
SP0380011: अतः परं प्रवक्ष्यामि शाल्मलीनरकं पुनः।
SP0380012: यात्यन्ते तत्र पुरुषाः सुभृशं पापकर्मिणः॥ १॥
SP0380021: शाल्मलीनां सहस्राणि बहूनि प्रवरेश्वर|
SP0380022: उच्चाः सर्वाश्च ता घोरा बहुयोजनविस्तृताः|
SP0380023: महाशाखा महापत्रा महाकण्टकसंयुताः॥ २॥
SP0380031: लोहेन महता चैव प्राकारेणाभिसंवृताः|
SP0380032: जालेन महता सर्वा उपरिष्टात्समावृताः॥ ३॥
SP0380041: पुरुषास्तत्र तिष्ठन्ति बहवो रुषिताननाः|
SP0380042: वज्रटङ्कोपलधरा असिमुद्गरधारिणः|| ४||
SP0380051: अन्यैश्च विविधाकारैरायुधैर्वृतपाणयः|
SP0380052: यातयन्ति भृशं जन्तूनवशांस्ते सुदारुणाः|| ५||
SP0380061: छिद्यमानश्च तत्रापि राक्षसैः क्रूरकर्मभिः|
SP0380062: दिशः प्रपद्यते सर्वा वेदनार्तः सुदुःखितः|
SP0380063: व्रजते यत्र यत्रासौ तत्र तत्राभिहन्यते|| ६||
SP0380071: गर्तेषु पतितं चैव राक्षसाः प्राप्य सर्वशः|
SP0380072: शस्त्रैर्नानाविधाकारैर्निकृन्तन्त्यतिदारुणाः|| ७||
SP0380081: श्रावयन्तः पुरानेन कृतं पापं महाबलाः|
SP0380082: भर्त्सयन्तश्च दुर्वृत्तं पतितं क्वचिदेव हि|| ८||
SP0380091: तत उत्थाय भिन्नाङ्गः सो ऽनुबद्धश्च राक्षसैः|
SP0380092: सूचीकण्टकसंयुक्तं देशमन्यं प्रपद्यते|| ९||
SP0380101: तत्र सूचीभिरुग्राभिः कण्टकैश्चायसैः पुनः|
SP0380102: भिद्यमानो नदन्दुःखान्निपतत्यतिदुःखितः|| १०||
SP0380111: तत्राप्येनं समासाद्य विविधायुधपाणयः|
SP0380112: राक्षसाभिद्रवन्त्येव वैरिणो वैरिणं यथा|| ११||
SP0380121: तस्मादुत्थाय वेगेन वृक्षं यद्यधिरोहति|
SP0380122: तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते छिद्यते ऽपि च|
SP0380123: यन्त्रैश्च विविधाकारैरयस्तुण्डैश्च पक्षिभिः|| १२||
SP0380131: हृतकर्णाक्षिनासोष्ठः पतितो धरणीतले|
SP0380132: तत्र सूचीभिरुग्राभिः सर्वाङ्गेषु विभिद्यते|| १३||
SP0380141: एवं बहुविधाकारा यातनास्तत्र दुःखिताः|
SP0380142: प्राप्नुवन्ति दुराचारा ये तान्निगदतः शृणु|| १४||
SP0380151: अग्निदो गरदाता च अयोनौ यश्च गच्छति|
SP0380152: पुंसि योत्सृजते शुक्रं विषदो मांसविक्रयी|| १५||
SP0380161: समुद्रयायी दुष्टात्मा यश्चैको मृष्टमश्नुते|
SP0380162: अतिथिं नार्चयेद्यस्तु यस्तु मिथ्याव्रती भवेत्|| १६||
SP0380171: ब्रह्मोज्झश्च विवासाश्च यो ऽपः प्रविशते द्विजः|
SP0380172: घण्टिको ग्रामयाजी च शूद्राध्यापक एव च|| १७||
SP0380181: तथा वार्धुषिको लुब्धो विक्रेता ब्रह्मणश्च यः|
SP0380182: एते गच्छन्ति दुर्वृत्ताः कूटशाल्मलिसंज्ञकम्|| १८||
SP0380191: कोटीद्वयेन तूत्तीर्णा वर्षाणां वै पुनश्च ते|
SP0380192: उच्छ्रये पातिताः स्तोकं कालं विश्राम्य वै पुनः|| १९||
SP0380201: पात्यन्ते नरके तस्मिन्यावत्क्षीणं तदेनसम्|
SP0380202: एषैव विधिरन्येषां नरकाणां मुने स्मृता|| २०||
SP0380211: य इमं भृशदुःखितोपलम्भं सुकृतीनामतिदुर्गमाचलम्|
SP0380212: शृणुयात्प्रयतः कुतूहलात्मा न स गच्छेन्निरयं हि शाल्मलम्|| २१||
SP0389999: स्कन्दपुराणे ऽष्टत्रिंशत्तमो ऽध्यायः||