Skandapurāṇa Adhyāya 37
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0370010: सनत्कुमार उवाच।
SP0370011: ततस्ते पितरस्तस्य प्रतिष्ठां स्वसुतं प्रति।
SP0370012: सुशर्माणमिति ख्यातं कथयामासुरव्ययाः॥ १॥
SP0370020: पितर ऊचुः|
SP0370021: अयं ते जनकः पुत्र सुशर्मा लोकविश्रुतः|
SP0370022: कथयिष्यति तत्त्वेन यत्त्वया समुदाहृतम्॥ २॥
SP0370030: सनत्कुमार उवाच|
SP0370031: ततः सुशर्मा विप्रर्षे तमामन्त्र्य महामनाः|
SP0370032: उवाचेदं महासत्त्वं सुकेशं गणसत्तमम्॥ ३||
SP0370040: सुशर्मोवाच|
SP0370041: गणेश्वरेश शृणुया नरका ये प्रकीर्तिताः|
SP0370042: दुरासदा महादुर्गाः सर्वप्राणिभयंकराः|| ४||
SP0370051: प्रथमो नरकस्तत्र विश्रुतो यमलाचलः|
SP0370052: द्वितीयः शाल्मलो नाम तृतीयः कालसूत्रकः|| ५||
SP0370061: कुम्भीपाकश्चतुर्थश्च असिपत्रवनो ऽपरः|
SP0370062: तथा वैतरणी षष्ठः सप्तमश्चाप्ययोघनः|| ६||
SP0370071: अष्टमः पद्म इत्येव महापद्मस्तथापरः|
SP0370072: रौरवो दशमश्चैव महारौरव एव च|| ७||
SP0370081: द्वादशश्च तमो नाम तमस्तमतरस्तथा|
SP0370082: एते महान्तो नरका उच्छ्रयाश्च तथापरे|| ८||
SP0370091: एकैकस्योच्छ्रया ह्यष्टौ नरकास्ते ऽपि कीर्तिताः|
SP0370092: उच्छ्रयेषु सविश्रामा यातना भवतीश्वर|
SP0370093: इतरेषु त्वविश्रामा विशेषो ह्येष कीर्तितः|| ९||
SP0370101: तेषां सततदुःखं तु नॄणां पापेन कर्मणा|
SP0370102: भेदः क्षयाच्च पापस्य क्रमस्तेषां प्रवक्ष्यते|| १०||
SP0370111: प्रमाणं तु गणेशेश न शक्यं वक्तुमेकशः|
SP0370112: विभुत्वात्कर्मणस्तस्य क्षयादन्तं प्रपश्यति|| ११||
SP0370121: नरको ऽतिततः सर्वो नान्तं तस्य प्रपश्यति|
SP0370122: क्षीणपापाः प्रपश्यन्ति यथा तच्छृणु मे ऽव्यय|| १२||
SP0370131: पतितो नरके घोरे दुष्कृती स्वेन कर्मणा|
SP0370132: यात्यमानो ऽतिकरुणं दिशमेकां प्रपद्यते|| १३||
SP0370141: स गत्वा शीघ्रमध्वानं बहुयोजनविस्तृतम्|
SP0370142: बहूनब्दाननासाद्य तस्यान्तं विनिवर्तते|| १४||
SP0370151: विनिवृत्य ततो भूयो यात्यमानो विचेतनः|
SP0370152: अन्यां दिशं पुनर्गत्वा तथैव विनिवर्तते|| १५||
SP0370161: एवं सर्वा दिशो गत्वा ह्यन्तमप्राप्य दुःखिताः|
SP0370162: यात्यन्ते करुणं तत्र पापस्यान्ते ततः पुनः|| १६||
SP0370171: प्रपश्यन्ते परिमितं परिच्छिन्नं च सर्वशः|
SP0370172: द्वारेण महता युक्तं ततस्तस्माद्विमुच्यते|| १७||
SP0370181: एवं हि नरकाः सर्वे ह्यनन्ताश्चाक्षयाव्ययाः|
SP0370182: न तेषां परिसंख्यानं योजनैः संविधीयते|| १८||
SP0370191: येन कालेन तु पुनर्जन्तुः पतति दुःखितः|
SP0370192: यथा चैतच्छृणु विभो कथ्यमानं मयानघ|| १९||
SP0370201: कृत्वा पापानि कर्माणि क्षयान्ते दुष्टचेतनः|
SP0370202: व्याध्याधियुक्तः क्लेशेन त्यजति स्वां तनुं ततः|| २०||
SP0370211: यमदूतैर्महापाशैर्बद्ध्वा दुःखसमीरितः|
SP0370212: विषमेण पथा देव नीयते विकृताकृतिः|| २१||
SP0370221: अयोमयैः कण्टकैश्च विध्यमानस्ततस्ततः|
SP0370222: केशामेध्यास्थिपङ्कैश्च दह्यमानः समन्ततः|| २२||
SP0370231: विषमेषु च गर्तेषु प्रपतन्भिद्यते पुनः|
SP0370232: क्वचिच्चोपलवर्षेण महता संनिकीर्यते|| २३||
SP0370241: तत्र भिन्नशिरोजानुपादबाहूरुबन्धनः|
SP0370242: कृष्यते यमदूतैश्च पुनः कण्टकिभिर्द्रुमैः|
SP0370243: पाट्यते भिद्यते चैव वल्लीभिश्चावबध्यते|| २४||
SP0370251: एवं बहुविधाकारैर्दुःखदैः पथिभिः प्रभो|
SP0370252: नीयमानो ऽवशः क्लेशात्प्राप्नोति यमसादनम्|| २५||
SP0370261: स ततो यममप्राप्य दूरादेव यमाज्ञया|
SP0370262: चित्रगुप्तमुपागम्य श्राव्यते कर्म यत्कृतम्|| २६||
SP0370271: सोमो ऽग्निर्वरुणो वायुः सूर्यश्चेति तदा नरम्|
SP0370272: साक्षिणः सर्वजन्तूनां ब्रुवते कर्म यत्कृतम्|| २७||
SP0370281: उक्तो विभावितश्चैव चित्रगुप्तेन चोदितः|
SP0370282: नरके निपतत्यार्त्त ऊर्ध्वपादो ह्यधःशिराः|| २८||
SP0370291: तोमरैश्चातितीक्ष्णाग्रैः शरैश्चाथ परश्वधैः|
SP0370292: भिन्दिपालैर्मुद्गरैश्च असिभिर्दीर्घवेधनैः|| २९||
SP0370301: परिघैः करपत्रैश्च वज्रैष्टङ्कैर्हुलोपलैः|
SP0370302: कीलैश्च मुसलैश्चैव क्षारपिष्टेन चैव हि|| ३०||
SP0370311: प्रदीप्तैश्चायुधैर्घोरैरग्निवर्षेण चाप्युत|
SP0370312: हन्यमानो दिवारात्रं विनदन्करुणं बहु|
SP0370313: वर्षाणां तु सहस्रेण नरकं प्राप्नुते ऽशुभम्|| ३१||
SP0370321: स तत्र पतितो भूयो यात्यमानः सुदुःखितः|
SP0370322: वर्षकोटीमविश्राम्य निरयान्तं प्रपद्यते|| ३२||
SP0370331: महानरकमुक्तश्च उच्छ्रयान्तरमाश्रितः|
SP0370332: शीतेन वायुना स्पृष्टः सुखं तत्र स विन्दति|| ३३||
SP0370341: स तं विश्राममासाद्य विस्मृतो यातनां तदा|
SP0370342: मुहूर्तमाहृते स्वप्ने राक्षसेनापकृष्यते|| ३४||
SP0370351: स तेन कृष्यमाणश्च भूयो दुःखेन चार्दितः|
SP0370352: करुणं बहुधातीव प्रविलप्यावतिष्ठते|| ३५||
SP0370361: ततो भूयः समाकृष्य यातनायां स राक्षसः|
SP0370362: यातयत्येव तं जन्तुं सविश्रामं सचेतनम्|| ३६||
SP0370371: तत्र वर्षसहस्रं वै यातितः पुनरेव सः|
SP0370372: अन्यस्मिन्नुच्छ्रये घोरे यात्यते तावदेव हि|| ३७||
SP0370381: एवं स उच्छ्रयान्प्राप्य अष्टौ पापेन कर्मणा|
SP0370382: संसारं कृमिकीटादि जन्तुः संप्रतिपद्यते|| ३८||
SP0370391: ये तु गच्छन्ति तं घोरं नरकं पुरुषाधमाः|
SP0370392: तानहं संप्रवक्ष्यामि तव पुत्र समासतः|| ३९||
SP0370401: प्रथमो यो मया प्रोक्तो नरको यमलाचलः|
SP0370402: यात्यन्ते तत्र पुरुषा महानिरयगामिनः|| ४०||
SP0370411: पर्वतौ द्वौ महासत्त्व सिंहव्याघ्रसमाकुलौ|
SP0370412: शरभेभसमाकीर्णौ बहुसर्पसमाकुलौ|| ४१||
SP0370421: पक्षिभिर्विविधाकारैः पुरुषैश्चोद्यतायुधैः|
SP0370422: वृक्षैरपर्णैः संयुक्तौ सूचिभिर्वज्रकण्टकैः|| ४२||
SP0370431: तयोरन्तरमेकं वै समं सूचिभिरावृतम्|
SP0370432: ऊर्ध्वाभिर्वज्रतुण्डाभिरभेद्याभिस्तथैव च|
SP0370433: अन्यतः पुरुषैर्घोरैः शस्त्रपाणिभिरावृतम्|| ४३||
SP0370441: प्राकारेण च लोहेन समन्तात्परिवारितौ|
SP0370442: आकाशे चापि लोहेन तौ जालेन समावृतौ|| ४४||
SP0370451: यात्यन्ते तत्र पुरुषा ये वै स्त्रियमनिच्छतीम्|
SP0370452: आक्रमन्ति पराक्यां वै कन्यादूषक एव च|| ४५||
SP0370461: न्यासापहारकश्चैव तथा मांसापहारकः|
SP0370462: रसापहारकश्चैव यश्चापि परदूषकः|| ४६||
SP0370471: इन्द्रियग्रामघाती च मिथ्यालिङ्गी तथैव च|
SP0370472: मृगश्वापदहन्ता च पृष्ठमांसाशिनश्च ये|| ४७||
SP0370481: वृथामांसाशिनो ये च विषं ये च प्रकुर्वते|
SP0370482: एते नराधमाः पुत्र गच्छन्ति यमलाचलम्|| ४८||
SP0370491: यमलेषु च जातेषु यो न कुर्यान्नराधमः|
SP0370492: प्रायश्चित्तमशुद्धात्मा स च तं प्रतिपद्यते|| ४९||
SP0370501: स प्रपन्नो यथोक्तैस्तैः पुरुषैः समभिद्रुतः|
SP0370502: आयुधैश्छिद्यमानश्च पर्वतं तं प्रपद्यते|| ५०||
SP0370511: तत्र व्याघ्रैश्च सिंहैश्च शरभैः स तरक्षुभिः|
SP0370512: सर्पैर्विडालैः पतगैरयस्तुण्डैश्च भक्ष्यते|| ५१||
SP0370521: तैर्भक्ष्यमाणो यदि च वृक्षं समधिरोहते|
SP0370522: तत्र तैः कण्टकैस्तीक्ष्णैर्भिद्यते पक्षिभिश्च ह|| ५२||
SP0370531: अथ चेत्कन्दरांस्तस्य गुहां वा यातुमिच्छति|
SP0370532: तत्रापि ह्यग्निना दग्धो दुःखार्तो विनिवर्तते|| ५३||
SP0370541: अथ चेदन्तरं घोरं तयोः संप्रतिपद्यते|
SP0370542: तत्र सूचीभिरुग्राभिः पादयोर्भिद्यते नरः|| ५४||
SP0370551: भिन्नं च तं समालक्ष्य अशक्तमपसर्पणे|
SP0370552: समागम्याचलौ क्षिप्रं पीडयेतामतीव हि|| ५५||
SP0370561: पीड्यमानो ऽचलाभ्यां च यन्त्रेणेक्षुवदातुरः|
SP0370562: करुणं क्रन्दमानस्तु यातनां तां समश्नुते|| ५६||
SP0370571: भक्षितस्याथ भिन्नस्य विलुप्तस्य च पक्षिभिः|
SP0370572: दग्धस्य च नवं भूयः शरीरमभिजायते|| ५७||
SP0370581: एवं स यात्यमानो वै बहूनब्दान्सुदुःखितः|
SP0370582: द्वारं लब्ध्वा विनिःसृत्य उच्छ्रयेषु निपात्यते|| ५८||
SP0370591: यमलाचलमेतमुग्रवेगं बहुपापसमेतकर्मयोगम्|
SP0370592: शृणुयाद्य अभीक्ष्णशो ऽतिवेगं स न याति तमुग्रपापयोगम्|| ५९||
SP0379999: स्कन्दपुराणे सप्तत्रिंशो ऽध्यायः||