Skandapurāṇa Adhyāya 36
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0360010: सनत्कुमार उवाच।
SP0360011: त्रिकूटशिखरे तस्मिन्नगरे देवनिर्मिते।
SP0360012: आसीनः काञ्चने दिव्ये विमाने स्त्रीजनाकुले॥ १॥
SP0360021: पितॄन्सर्वान्समाहूय संपूज्य विधिवत्तदा|
SP0360022: सुखोपविष्टांस्तान्दृष्ट्वा इदं वचनमब्रवीत्॥ २॥
SP0360031: युष्माकं तेजसा सर्वमिदमैश्वर्यमीदृशम्|
SP0360032: भवद्भिस्तत्कृतं देवा येनास्मि सुखभाक्कृतः॥ ३||
SP0360040: पितर ऊचुः|
SP0360041: मैवं वदानृतं पुत्र माधर्मस्ते भवेदिह|
SP0360042: नास्मत्प्रसादादैश्वर्यं तव पुत्र कदाचन|| ४||
SP0360051: वयं तु निरये घोरे यात्यमानाः सुदारुणे|
SP0360052: तव देवस्य वीर्येण सुखमापुः सुदुर्लभम्|| ५||
SP0360061: त्वया वयं सुपुत्रेण तारिता निरयाद्यथा|
SP0360062: तथा नान्यं प्रपश्याम धन्यानां त्वं सुतो हि नः|| ६||
SP0360071: अद्य वर्षसहस्राणि बहूनि निरये वयम्|
SP0360072: पच्येम घोरे दुर्वृत्ता बन्धुः स्यात्त्वं न नो यदि|| ७||
SP0360081: बहवः प्राणिनः पुत्र यात्यन्ते तत्र संयताः|
SP0360082: अतिघोरे सुदुर्वृत्तास्तपस्तेषां न विद्यते|| ८||
SP0360090: सुकेश उवाच|
SP0360091: पितरो नोक्तपूर्वं मे मृषा न च वदामि वै|
SP0360092: यथा प्रभावाद्युष्माकमैश्वर्यं मम तत्तदा|| ९||
SP0360101: शृणुध्वं वदतः सम्यङ्मावमंस्था वचो मम|
SP0360102: न चावमन्ये पितरो देवतान्को ऽवमन्यते|| १०||
SP0360111: पितरः कर्म कुर्वन्ति सतां यत्संमतं भुवि|
SP0360112: नित्यं चाशासते तेन प्रजा नः सन्तु पुष्कलाः|| ११||
SP0360121: धार्मिकाश्च कृतज्ञाश्च सत्कर्मरतयस्तथा|
SP0360122: ये नो नरकगर्तस्थांस्तारयिष्यन्ति नित्यशः|| १२||
SP0360131: तेषां तत्कार्यकरणात्स्वधर्माच्यवनेन च|
SP0360132: स धर्मो ऽनुष्ठितः सम्यक्प्रजा जनयते शुभाः|| १३||
SP0360141: धार्मिकाश्च वदन्याश्च कृतज्ञाः सत्पथि स्थिताः|
SP0360142: पितृभक्ताश्च सर्वत्र पितॄणां तारणे रताः|| १४||
SP0360151: सो ऽहं भवद्भिर्धर्मेण परेण च समाधिना|
SP0360152: जनितस्तपसा युक्तो भवतामेव सर्वशः|
SP0360153: देवमाराध्य नरकात्पितॄंस्तारितवान्पुनः|| १५||
SP0360161: एष प्रभावो युष्माकं तपः सुचरितं च ह|
SP0360162: ममात्र किं महाप्रज्ञा अनृतं वात्र किं वचः|| १६||
SP0360171: इयं च वैदिकी शुभ्रा श्रुतिर्वेदविदां वराः|
SP0360172: प्रमाणं यदि मन्यध्वमात्मना कृतमित्युत|| १७||
SP0360181: अङ्गादङ्गात्संभवसि हृदयादधिजायसे|
SP0360182: आत्मा वै पुत्रनामासि स जीव शरदः शतम्|| १८||
SP0360191: अङ्गेभ्यो ऽहं समुत्पन्नो युष्माकं हृदयाच्च ह|
SP0360192: आत्मनाहं तथात्मानं युष्मांस्तारितवांस्तथा|| १९||
SP0360201: तस्माद्भवन्तो मन्यन्तु सर्व एव समाधिना|
SP0360202: तस्माद्धि घोरनरकात्तारिताः स्वेन कर्मणा|| २०||
SP0360211: न चान्यकर्मणा कश्चिदन्यस्तरति दुर्गतिम्|
SP0360212: स्वकर्मणा हि जन्तूनां फलपाको विधीयते|| २१||
SP0360220: सनत्कुमार उवाच|
SP0360221: ततस्त एवं पितरस्तेन प्रोक्ता महात्मना|
SP0360222: हर्षेण सास्रुनयना इदमूचुस्तदा वचः|| २२||
SP0360230: पितर ऊचुः|
SP0360231: त्वदन्यः को वदेदेवं यो न स्यादीशसंमतः|
SP0360232: युक्तमेतत्तव वचो धार्मिकस्य महात्मनः|| २३||
SP0360241: यो न स्यादीदृशः पुत्र कथं तं सर्वदेवपः|
SP0360242: इष्टैस्तु योजयेत्सम्यग्यथा त्वां गोवृषध्वजः|| २४||
SP0360251: त्वं धाता त्वं हि नो बन्धुस्त्वं जनेता महामते|
SP0360252: पिता त्वमेव पुत्रा हि वयं तव न संशयः|| २५||
SP0360261: अत्र ते वर्तयिष्यामः पुरावृत्तं महामते|
SP0360262: श्रुतौ स्मृतौ च यद्गीतं तन्नः संस्मर्तुमर्हसि|| २६||
SP0360270: पितर ऊचुः|
SP0360271: पुत्रा हि ब्रह्मणा सृष्टा देवा यजत मामिति|
SP0360272: ते ऽयजन्त तदात्मानं तेषां ब्रह्मा चुकोप ह|
SP0360273: उवाच चैनान्संरब्धो नष्टसंज्ञा भविष्यथ|| २७||
SP0360281: ते शप्तास्तं तदा देवं सर्व एव दिवौकसः|
SP0360282: दुःखशोकसमायुक्ता ब्रह्माणं तुष्टुवुस्तदा|| २८||
SP0360291: प्रसन्नं तं समालक्ष्य त ऊचुः शिरसा नताः|
SP0360292: नष्टसंज्ञा वयं देव तन्नो यच्छ पुनः प्रभो|
SP0360293: तत्क्षमस्व च देवेश अज्ञानाद्यत्कृतं हि नः|| २९||
SP0360301: अथैवमुक्तो देवैस्तैर्ब्रह्मा लोकपितामहः|
SP0360302: उवाच प्रणतान्देवान्सानुक्रोशमिदं वचः|| ३०||
SP0360311: प्रायश्चित्तं महासत्त्वाश्चरध्वं नियमेन ह|
SP0360312: व्यभिचारकृतं सर्वं ततः पापं प्रहास्यथ|| ३१||
SP0360320: देवा ऊचुः|
SP0360321: सैव संज्ञा न नो देव विद्यते सर्वसृक्प्रभो|
SP0360322: यया ज्ञास्यामहे तानि प्रायश्चित्तानि लोकप|| ३२||
SP0360330: ब्रह्मोवाच|
SP0360331: स्वान्पुत्रान्परिपृच्छध्वं ततः श्रेय अवाप्स्यथ|
SP0360332: पुनः संज्ञां च धर्मज्ञा मा कुरुध्वमतो ऽन्यथा|| ३३||
SP0360340: पितर ऊचुः|
SP0360341: ततस्ते सुरशार्दूलाः पप्रच्छुः स्वान्सुतांस्तदा|
SP0360342: प्रायश्चित्तानि धर्मांश्च वेदान्साङ्गान्सुविस्तरान्|| ३४||
SP0360351: ते च तेभ्यस्तदा पुत्रा आचख्युः प्रयताः शुभाः|
SP0360352: याथातथ्येन तत्सर्वं परमेण समाधिना|| ३५||
SP0360361: अथ ते लब्धसंज्ञाश्च लब्धकामास्तथैव च|
SP0360362: स्वान्पुत्रानभ्यभाषन्त प्रीयमाना मुदा युताः|| ३६||
SP0360370: देवा ऊचुः|
SP0360371: पुत्रा न यूयमस्माकं वयं पुत्रा हि वः सुताः|
SP0360372: यैर्ज्ञानं नष्टसंज्ञानां कृतमस्माकमव्ययम्|| ३७||
SP0360381: तैरेवमुक्ते तत्रागाद्ब्रह्मा लोकपितामहः|
SP0360382: उवाच चेदं तान्देवान्सर्वानेव महायशाः|| ३८||
SP0360390: ब्रह्मोवाच|
SP0360391: वदन्ति नानृतं देवाः सत्यं देवेषु वर्तते|
SP0360392: सुताश्चोक्ता हि वः सर्वे पितरो नानृतं हि तत्|| ३९||
SP0360401: तस्मात्पितृत्वं युष्माकं पुत्राणां नित्यमव्ययम्|
SP0360402: भविष्यति न संदेहो यूयं पुत्राश्च सर्वशः|| ४०||
SP0360411: न ह्यशिष्याय कथ्यन्ते रहस्यानि कथंचन|
SP0360412: एकार्थौ पुत्रशिष्यौ च तस्मात्पुत्राः स्थ सर्वशः|| ४१||
SP0360421: तरन्ति पुत्रैः पितरः पुत्रांस्तांस्तारयन्ति च|
SP0360422: तारयित्वा पितृत्वं च कर्मणा तेन यान्ति ते|| ४२||
SP0360431: यूयं च तारिताः पुत्रैरज्ञानान्नरकात्तथा|
SP0360432: तस्मादिमे हि पितरो यूयं पुत्राश्च सर्वशः|| ४३||
SP0360441: पाति यस्मात्पिता तस्माज्जनयत्यपि वा पिता|
SP0360442: पुत्रेषु चैतदुभयं पितरस्तेन वो मताः|| ४४||
SP0360451: ततस्ते ब्रह्मणः श्रुत्वा याथातथ्येन तद्वचः|
SP0360452: पितॄंस्तु तान्सुतान्मत्वा पुत्रत्वमुपपेदिरे|| ४५||
SP0360461: ते पुत्रभावमासाद्य प्रीतात्मानो महाबलाः|
SP0360462: पितरस्तान्वरैरिष्टैश्छन्दयामासुरव्यथाः|| ४६||
SP0360471: पितरश्च ततो वव्रुरग्रे यजनमात्मनः|
SP0360472: यो नो ऽनिष्ट्वा यजेद्देवान्न तत्फलमवाप्नुयात्|| ४७||
SP0360481: एनसा चाभिसंयुक्तो महानिरयभाग्भवेत्|
SP0360482: †अबुद्ध्वा† तेन देवाश्च तं हन्युः पापचेतसम्|| ४८||
SP0360491: एवमस्त्विति तानुक्त्वा देवास्ते ऽतिगुणोदिताः|
SP0360492: यथागतं ततो जग्मुर्ब्रह्मणा सह सर्वशः|| ४९||
SP0360500: पितर ऊचुः|
SP0360501: तथा वयं त्वया पुत्र नरकान्नष्टचेतसः|
SP0360502: तारिताश्चेतनावन्तः पुनश्च प्रवरीकृताः|| ५०||
SP0360511: पिता ततो भवान्पूज्यो यो नु पासि महाभयात्|
SP0360512: पुत्रा वयं तवेशान ब्रूहि किं करवाम ते|| ५१||
SP0360520: सनत्कुमार उवाच|
SP0360521: स एवमुक्तस्तेजस्वी सुकेशो गणसत्तमः|
SP0360522: प्रणतः प्राञ्जलिर्भूत्वा पितॄन्वचनमब्रवीत्|| ५२||
SP0360531: एवमेतद्यथोक्तं वो नानृतं वो वचः शुभम्|
SP0360532: परस्परपितृत्वं हि सर्वेषां समुदाहृतम्|| ५३||
SP0360541: वरं भूय इमं मह्यं प्रयच्छत गणेश्वराः|
SP0360542: एतेन प्रश्नमिच्छामि कथितं द्विजसत्तमाः|| ५४||
SP0360550: पितर ऊचुः|
SP0360551: नास्ति किंचिदविदितं भवतः प्रवरेश्वर|
SP0360552: भवानस्मत्प्रमाणार्थं व्याख्यातत्वमिहेच्छसि|| ५५||
SP0360561: ब्रूहि यद्विदितं नो ऽस्ति कथयिष्याम तद्धि ते|
SP0360562: श्रुतं यदनुभूतं वा यथाशक्ति यथाबलम्|| ५६||
SP0360570: सुकेश उवाच|
SP0360571: भवन्तो नरके घोरे परिक्लिष्टाः सुदारुणे|
SP0360572: अतो गतिज्ञाः सर्वेषां नरकानां न संशयः|| ५७||
SP0360581: तेषां सतत्त्वं योगं च कालभेदं तथा क्रमम्|
SP0360582: तत्सर्वं श्रोतुमिच्छामि परं कौतूहलं हि मे|| ५८||
SP0360591: कियन्तो नरकास्ते च किम्प्रमाणाः किमाश्रयाः|
SP0360592: किंरूपाः के च यात्यन्ते कथं चैव सुदुःखिताः|| ५९||
SP0360601: कथं च पतते जन्तुर्यात्यते च कथं तथा|
SP0360602: कियता चैव कालेन नरकात्स विमुच्यते|
SP0360603: मुक्तश्चोत्तिष्ठते केन कथं संतरते पुनः|| ६०||
SP0360611: एतत्सर्वमशेषेण विस्तरेण यथातथम्|
SP0360612: कथयध्वं महाप्रज्ञाः परं कौतूहलं हि मे|| ६१||
SP0360621: तमुपेन्द्रपितामहेश्वरेशप्रवरेशं विदितार्थतत्त्वकोशम्|
SP0360622: दुरिताङ्कितपापयुक्तयोगं प्रतियोगं त्विदमाहुरग्रयोगम्|| ६२||
SP0369999: स्कन्दपुराणे षट्त्रिंशत्तमो ऽध्यायः||