Skandapurāṇa Adhyāya 35
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0350010: सनत्कुमार उवाच।
SP0350011: ततः स भगवान्देवः सुकेशं गणपं पुनः।
SP0350012: चकार ब्राह्मणं व्यास तपःसत्यपरायणम्॥ १॥
SP0350020: व्यास उवाच|
SP0350021: कथं स ब्राह्मणः पूर्वं गणेशत्वमुपागतः|
SP0350022: केनास्य तपसा तुष्टो गणपत्वं ददौ प्रभुः|| २||
SP0350030: सनत्कुमार उवाच|
SP0350031: आसीद्वसिष्ठकुलजो ब्राह्मणः सत्यवाक्शुचिः|
SP0350032: तीर्थयात्रास्वभिरत उपवासपरायणः|| ३||
SP0350041: स कदाचिद्विदेशस्थो वने ऽपश्यत्पथि स्थितम्|
SP0350042: व्याघ्रं व्यात्ताननं घोरं नखदंष्ट्रायुधं वरम्|| ४||
SP0350051: दृष्ट्वा तं स तदा विप्रस्त्यक्त्वा पन्थानमाशुगः|
SP0350052: विवेश महतीं घोरामटवीं प्राणिवर्जिताम्|| ५||
SP0350061: तत्रापश्यत्स पुरतो वीरणस्तम्बमाश्रितान्|
SP0350062: पुरुषांल् लम्बमानांश्च क्रन्दमानान्सुदुःखितान्|| ६||
SP0350071: तानवाक्शिरसो दृष्ट्वा लम्बमानांस्तदा द्विजान्|
SP0350072: के यूयमिति पप्रच्छ ते चैवमिदमूचिरे|| ७||
SP0350081: तव स्मः पितरः सर्वे नरके ऽस्मिन्नधोमुखाः|
SP0350082: वीरणे त्वयि लम्बामस्तव दोषेण दुर्मते|| ८||
SP0350091: पुत्रानिच्छन्ति मनुजास्तारयिष्यन्ति नस्त्विमे|
SP0350092: नरकादिति स त्वं नः पातयिष्यसि दुःखितान्|| ९||
SP0350100: विप्र उवाच|
SP0350101: मया तीर्थाभिगमनात्तपो यत्समुपार्जितम्|
SP0350102: जन्मप्रभृति यच्चापि मया किंचित्कृतं शुभम्|
SP0350103: तेन यूयमितो गर्तादुद्धरध्वं पितामहाः|| १०||
SP0350110: पितर ऊचुः|
SP0350111: न वयं तपसा शक्या न यज्ञेनाप्यतो ऽन्यथा|
SP0350112: गर्तादस्मात्समुद्धर्तुं यद्ब्रूमस्तत्कुरुष्व नः|| ११||
SP0350121: अपत्यं गुणसंयुक्तमुत्पादय तपोयुतम्|
SP0350122: ततो वयमितो गर्तान्मुच्येम यदि मन्यसे|| १२||
SP0350130: विप्र उवाच|
SP0350131: ऊर्ध्वरेताहमित्येतन्मया व्रतमुदाहृतम्|
SP0350132: न दारानाहरिष्यामि तारयिष्ये च वै पितॄन्|| १३||
SP0350141: ततः स तांस्तदोत्सृज्य दुःखेन महता वृतः|
SP0350142: जगाम रुद्रं शरणं पितरो ऽन्तर्हितास्ततः|| १४||
SP0350151: पितृष्वन्तर्हितेष्वेवं वायुभक्षस्तदा द्विजः|
SP0350152: काष्ठलोष्टोपलीभूतो निरुच्छ्वासो ऽवतिष्ठत|| १५||
SP0350161: संधाय स मनो रुद्रे निश्चलं सुसमाहितः|
SP0350162: हृदयेन जपन्रुद्रानाकाशे समतिष्ठत|| १६||
SP0350171: तस्य पूर्णे तदा मासि वातवर्षमभून्महत्|
SP0350172: सर्वसत्त्वप्रमथनं दुःसहं भीमशब्दवत्|| १७||
SP0350181: तेन वर्षेण महता नैव तस्याभवत्तदा|
SP0350182: दुःखं वाप्यथवा भङ्गः सम्यगेवावतस्थिवान्|| १८||
SP0350191: अथ तं भगवान्देवो मासे वर्तति सप्तमे|
SP0350192: विष्णुरूपधरो भूत्वा प्रोवाच द्विजसत्तमम्|| १९||
SP0350201: तुष्टो ऽस्मि तव भद्रं ते तपसानेन सुव्रत|
SP0350202: वरं वरय विप्रर्षे यस्ते मनसि वर्तते|| २०||
SP0350211: सुकेशस्तु ततो दृष्ट्वा नारायणमुपागतम्|
SP0350212: अब्रवीच्छंकरादिच्छे वरं न भवतो ह्यहम्|| २१||
SP0350220: विष्णुरुवाच|
SP0350221: अलमेतेन विप्रर्षे निर्बन्धेन हरं प्रति|
SP0350222: देवैरपि न शक्यो ऽसौ द्रष्टुं किमुत मानुषैः|| २२||
SP0350230: सुकेश उवाच|
SP0350231: शंकरादेव चक्रेश शुभं वा यदि वाशुभम्|
SP0350232: वरं कांक्षे न च त्वत्तो न चान्यस्मात्कथंचन|| २३||
SP0350241: भवन्तो ऽपि हि तं देवं यस्मात्सर्वे समाहिताः|
SP0350242: अर्चयध्वं स्तुवध्वं च तस्माच्छ्रेष्ठः स उच्यते|| २४||
SP0350251: तस्य तं निश्चयं ज्ञात्वा तुतोष भगवान्हरः|
SP0350252: उवाच चैनं विप्रेन्द्र गणपो मे भवाक्षयः|| २५||
SP0350261: अमरो जरया त्यक्तः सर्वदुःखविवर्जितः|
SP0350262: ऐश्वर्येण च संयुक्तः प्रियो मम पुरःसरः|| २६||
SP0350271: इदं च मत्कृतं दिव्यं त्रिकूटं नाम पर्वतम्|
SP0350272: भवनैः काञ्चनैर्युक्तं कामगं ते ददाम्यहम्|| २७||
SP0350281: येषां कृते च त्वं पुत्र मां तोषयितुमुद्यतः|
SP0350282: ते चेमे पितरः सर्वे सुपुत्रेण त्वयानघ|
SP0350283: तारिता नरकाद्घोराद्गणेशत्वमुपस्थिताः|| २८||
SP0350291: किंकरास्ते भविष्यन्ति नित्यं दुःखविवर्जिताः|
SP0350292: गणेश्वरास्तवैवेमे भविष्यन्ति वशानुगाः|| २९||
SP0350301: सुकेश इति नाम्ना च प्रथितस्त्वं भविष्यसि|
SP0350302: सदा चाष्टगुणैश्वर्यसमायुक्तश्चरिष्यसि|| ३०||
SP0350310: सनत्कुमार उवाच|
SP0350311: ततः स दृष्ट्वाथ पितॄन्नरकात्ससुहृज्जनान्|
SP0350312: तीर्णान्गणेश्वरत्वेन पुनः पूज्येन संयुतान्|| ३१||
SP0350321: महेश्वरं हृष्टमनाः शिरसा प्राञ्जलिर्नतः|
SP0350322: उवाच हर्षमाणास्यस्तदा वचनकोविदः|| ३२||
SP0350330: सुकेश उवाच|
SP0350331: भगवन्गणपत्वं च लब्धमैश्वर्यमेव च|
SP0350332: अमरत्वं तथाक्षय्यं तथैवाजरता वरा|| ३३||
SP0350341: पितरस्तारिताश्चेमे गणपाश्चैव मे कृताः|
SP0350342: नगश्च कामगो ह्येष लब्धो मे त्वत्प्रसादतः|| ३४||
SP0350351: इच्छामि त्वां महादेव सोमं सप्रवरेश्वरम्|
SP0350352: सदा सुमुखमत्यर्थं सुदृश्यं चैव कामद|| ३५||
SP0350360: सनत्कुमार उवाच|
SP0350361: स एवमुक्तो भगवान्सुकेशेन महात्मना|
SP0350362: उवाचैवमिदं सर्वं भविष्यति गणेश्वर|| ३६||
SP0350371: इमं गिरिं समाश्रित्य सहैभिः प्रवरैर्वरैः|
SP0350372: गच्छ स्वेष्टां गतिं वत्स देवान्विप्रांश्च पालय|| ३७||
SP0350381: विसृज्य तं महादेवः सुकेशं गणनायकम्|
SP0350382: जगामादर्शनं सोमः सर्वेषामेव पश्यताम्|| ३८||
SP0350391: सुकेशो ऽपि गिरौ तस्मिन्नगरे स्वर्गसंनिभे|
SP0350392: नरकाणां स तत्त्वार्थं पितॄन्पप्रच्छ यत्नतः|| ३९||
SP0350400: व्यास उवाच|
SP0350401: किमर्थं गणपो ब्रह्मंस्तान्पितॄन्पर्यपृच्छत|
SP0350402: कथं च पितरस्तत्र आचख्युस्तस्य धीमतः|| ४०||
SP0350411: एतद्विस्तरशस्तात संक्षेपाद्वा यथातथम्|
SP0350412: त्वत्तो ऽहं श्रोतुमिच्छामि हितं सर्वसुखावहम्|| ४१||
SP0350421: स एवमुक्तः सुरसृक्सुतः प्रभुर्विमानकर्ता विगतप्रयोजनः|
SP0350422: जगाद वाक्यं सुरलोकबन्धनं पुराकृतं दुष्कृतसर्वनाशनम्|| ४२||
SP0359999: इति स्कन्दपुराणे पञ्चत्रिंशो ऽध्यायः||