Skandapurāṇa Adhyāya 34
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0340010: सनत्कुमार उवाच।
SP0340011: एवं स भगवान्व्यास मेघमुत्सृज्य देवपः।
SP0340012: वृषवाहः समभवद्यथा ते कथितं मया|| १||
SP0340020: व्यास उवाच|
SP0340021: कथं भगवती देवी कृष्णा गौरत्वमागता|
SP0340022: कारणं तत्र किं चापि एतदिच्छामि वेदितुम्|| २||
SP0340030: सनत्कुमार उवाच|
SP0340031: आसीनौ मन्दरप्रस्थे उमाकामाङ्गनाशनौ|
SP0340032: रेमतुः प्रमथैः सार्धं नानारूपधरैस्तदा|| ३||
SP0340041: अथ देवेन तत्रस्था क्रीडता सा कथान्तरे|
SP0340042: कृष्णेत्युक्ता भगवती सा चुकोप मनस्विनी|| ४||
SP0340051: कुपितां तां महादेवः परिष्वज्य महाद्युतिः|
SP0340052: उवाचासकृदव्यग्रः सान्त्वयन्मधुरं वचः|| ५||
SP0340060: देव उवाच|
SP0340061: देवि मा क्रोधमनघे कृथा विश्वसृगव्यये|
SP0340062: हास्यं प्रकृतमेतन्मे कृष्णेति समुदाहृतम्|| ६||
SP0340071: अद्यप्रभृति नानेन वचसाहं शुभानने|
SP0340072: वक्ष्यामि त्वां त्यज क्रोधं तामुवाच पिनाकधृक्|| ७||
SP0340080: सनत्कुमार उवाच|
SP0340081: तमेवंवादिनं देवं श्रुत्वा गिरिवरात्मजा|
SP0340082: अगमत्परमां तुष्टिमिदं चोवाच सुस्वरम्|| ८||
SP0340090: देव्युवाच|
SP0340091: त्वं गुरुः सर्वलोकस्य पूज्यो भर्ता ममैव च|
SP0340092: - - - - - - - - - - - - - - - -|| ९||
SP0340101: इति तेनेष्टवचसा तुष्टो देव्याः पिनाकधृक्|
SP0340102: वरेण च्छन्दयामास तयैषो ऽभ्यर्थितो वरः|| १०||
SP0340111: यदा यदा वदसि मां कृष्णेति वदतां वर|
SP0340112: तदा तदा मे हृदयं विदीर्यत इव प्रभो|| ११||
SP0340121: एतदर्थमहं पादौ प्रणम्य तव शंकर|
SP0340122: विज्ञापयामि सर्वेश गौरवर्णमनुत्तमम्|
SP0340123: विज्ञापयामि पुत्रश्च यथा मम भवेदिति|| १२||
SP0340131: यदि तुष्टो ऽसि मे देव यदि देयो वरश्च मे|
SP0340132: तपश्चरितुमिच्छामि तदनुज्ञातुमर्हसि|| १३||
SP0340141: ततो हरः प्रहस्यैनामुवाच तपसा हि किम्|
SP0340142: तपसा काङ्क्षितं यत्ते तदद्यैव ददानि ते|| १४||
SP0340151: इत्युक्ता गिरिजा प्राह तप्ते तपसि पुष्कले|
SP0340152: त्वमेव दाता भगवन्वरान्मह्यं यथेप्सितान्|| १५||
SP0340161: तदा विज्ञापितेनैवं सर्वकार्यार्थदर्शिना|
SP0340162: अनुज्ञाता सती भक्त्या चकार त्रिः प्रदक्षिणम्|| १६||
SP0340171: चरणौ च नमस्कृत्य शिरसामिततेजसः|
SP0340172: प्रस्थिता वियदुत्पत्य गिरिं गिरिवरात्मजा|| १७||
SP0340181: सा क्षणादागता देवी हिमवन्तं नगोत्तमम्|
SP0340182: ददर्श ऋषिमुख्यानामाश्रमैरुपशोभितम्|| १८||
SP0340191: सरो मानसमासाद्य तथा बिन्दुसरश्च तत्|
SP0340192: दिव्यां पाण्डुशिलां चैव गङ्गाप्रभवमेव च|| १९||
SP0340201: ततो महालयं प्राप्य देवदारुवनं तथा|
SP0340202: अन्यानि च ततो ऽग्र्याणि वनान्यासाद्य सा सती|| २०||
SP0340211: तस्योत्तरेण शैलस्य गत्वा सातिमनोहरम्|
SP0340212: अपश्यच्छिखरं दिव्यमेकमेकान्तमाश्रितम्|
SP0340213: चामीकरमयं दिव्यं सर्वौषधिसमन्वितम्|| २१||
SP0340221: इन्द्रनीलमहानीलनीलोपलतलैः शुभैः|
SP0340222: वृक्षैर्मणिमयैश्चित्रैः सर्वतः परिसंवृतम्|| २२||
SP0340231: क्वचिन्मनःशिलाशृङ्गं हरितालोपलं क्वचित्|
SP0340232: क्वचिदञ्जनपुञ्जाभं स्फटिकोपलमेव च|
SP0340233: क्वचिद्धेमोपलं दिव्यं क्वचिच्चित्रोपलं पुनः|| २३||
SP0340241: सालतालतमालैश्च प्रियालाम्रातकैस्तथा|
SP0340242: अशोकैश्चम्पकैर्लोध्रैः कदम्बाम्रातिमुक्तकैः|| २४||
SP0340251: नागपुन्नागतिलकैः सुरभीचन्दनैरपि|
SP0340252: धातकीकेतकीभिश्च तथैवोद्दालकैरपि|| २५||
SP0340261: कदलीभिश्च चित्राभिः खर्जूरैः पनसैरपि|
SP0340262: बकुलैर्नालिकेरैश्च पद्मषण्डैश्च शोभितम्|| २६||
SP0340271: कपित्थैः खदिरैश्चैव भव्यैः पारावतैरपि|
SP0340272: मृद्वीकामण्डपैश्चैव तथाङ्कोठैः समावृतम्|| २७||
SP0340281: सदापुष्पफलोपेतैश्चारुचामीकरप्रभैः|
SP0340282: तथा प्रस्रवणैश्चैव नदीभिश्चोपशोभितम्|| २८||
SP0340291: पक्षिभिर्मधुरालापैः समन्ताच्चाभिनादितम्|
SP0340292: मयूरचातकोपेतं हंसचक्राह्वसंकुलम्|
SP0340293: सारसैः खञ्जरीटैश्च हारीतैश्चाभिनादितम्|| २९||
SP0340301: जीवंजीवसमाकीर्णं महिषर्क्षसमाकुलम्|
SP0340302: सिंहशार्दूलचरितं शरभेभसमाकुलम्|| ३०||
SP0340311: मेरुमन्दरसंकाशं सर्वपुष्पफलप्रदम्|
SP0340312: रम्यं स्वर्गमिवागम्यं पापानां क्रूरकर्मिणाम्|
SP0340313: श्रियाः स्वलंकृतावासमुद्यानमिव सत्कृतम्|| ३१||
SP0340321: तत्र केचिन्मधुफला वृक्षाः सर्वत्र कामदाः|
SP0340322: अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः|| ३२||
SP0340331: अपरे सर्वपुष्पाणि फलानि च महीरुहाः|
SP0340332: पुष्पन्ते च फलन्ते च काञ्चनाश्चापरे द्रुमाः|| ३३||
SP0340341: फलन्ति भक्ष्याण्यपरे भोजनानि च सर्वदा|
SP0340342: मानुषाण्यथ दिव्यानि षड्रसानि महाद्रुमाः|| ३४||
SP0340351: वस्त्राण्यन्ये प्रसूयन्ते फलेष्वाभरणानि च|
SP0340352: तथा बहुविधा अन्ये शय्याः स्वास्तरणा द्रुमाः|| ३५||
SP0340361: अमाक्षिकं मध्वपरे अमृतप्रतिमं नगाः|
SP0340362: भोगांश्च विविधानन्ये तथैवाभरणानि च|
SP0340363: अन्ये स्त्रीः संप्रसूयन्ते मनुष्यांश्च तथापरे|| ३६||
SP0340371: सर्वा मणिमयी भूमिर्दिव्ये तस्मिञ्छिलोच्चये|
SP0340372: सुगन्धः पवनो वाति नात्यर्थं चोष्णशीतलः|| ३७||
SP0340381: यावदेव महादेवी तं गिरिं नाभ्यगच्छत|
SP0340382: प्रीत्यर्थं तावदेवासौ देव्या रुद्रेण निर्मितः|| ३८||
SP0340391: तस्यैव च प्रसादेन नासौ गम्यः शिलोच्चयः|
SP0340392: सर्वदेवनिकायानां भूतानां चैव सर्वशः|| ३९||
SP0340401: तस्मिन्गिरिवरे देवी तपस्तेपे सुदुश्चरम्|
SP0340402: वार्क्षे दधाना रुचिरे वाससी धर्मसाधने|| ४०||
SP0340411: कदाचित्सा फलाहारा कदाचित्पर्णभोजना|
SP0340412: कदाचिदम्बुभक्षाभूत्कदाचिदनिलाशना|| ४१||
SP0340421: कदाचिदेकपादेन सूर्यस्याभिमुखी स्थिता|
SP0340422: निगृहीतेन्द्रियग्रामा सा बभूव वरानना|| ४२||
SP0340431: महादेवनमस्कारा महादेवपरायणा|
SP0340432: महादेवप्रिया देवी पुत्रार्थं च वरार्थिनी|| ४३||
SP0340441: अजैकपादं रुद्रं च दिण्डिमुण्डेश्वरं तथा|
SP0340442: कापालिनं भारभूतिमषाढिं चैव सानुगम्|
SP0340443: निकुम्भं शतमन्युं च भूतमोहनमेव च|| ४४||
SP0340451: कालदण्डधरं चैव मृत्युदण्डधरं तथा|
SP0340452: ब्रह्मदण्डधरं चैव घोरचक्रधरं तथा|| ४५||
SP0340461: एतान्गुह्यान्गणाध्यक्षानदृश्यान्सर्वतोमुखान्|
SP0340462: प्रागेव तस्या रक्षार्थं महादेवो नियुक्तवान्|| ४६||
SP0340471: उपरिष्टादधस्ताच्च तं गिरिं ते गणेश्वराः|
SP0340472: अदृश्याः सर्वतश्चैव ररक्षुरमितौजसः|| ४७||
SP0340481: न तस्य गिरिशृङ्गस्य रक्षमाणस्य तैस्तदा|
SP0340482: देवदानवगन्धर्वाः शेकुर्गन्तुमुपान्तिकम्|| ४८||
SP0340491: प्रागेव स्थापितवती यानि चारुशिलातले|
SP0340492: भूषणानि नदी तेभ्यो जज्ञे पुण्यजलाश्रया|| ४९||
SP0340501: तामलंकारधारेति विश्रुतां पापनाशनीम्|
SP0340502: अद्यापि पश्यन्ति जनाः सर्वकालजलां शुभाम्|| ५०||
SP0340511: यस्मिन्नेव दिने देवी सा तथातिष्ठदद्रिजा|
SP0340512: तस्मिन्नेव दिने व्यास शार्दूलो ऽपि जगाम ताम्|| ५१||
SP0340521: महाकायमुखो भीमः पिङ्गलानललोचनः|
SP0340522: नखदंष्ट्रायुधो भीमस्त्रासनः सर्वदेहिनाम्|| ५२||
SP0340531: गुहामुखाद्विनिःसृत्य व्यजृम्भत महाबलः|
SP0340532: जृम्भतस्तस्य वदनान्निष्पेतुरनलार्चिषः|| ५३||
SP0340541: ततः स देवीमालोक्य भक्षार्थमुपचक्रमे|
SP0340542: तपसा स्तम्भितस्तस्या एतदेवान्वचिन्तयत्|| ५४||
SP0340551: नार्येषा दृष्टपूर्वा मे शर्वपार्श्वे सुशोभना|
SP0340552: यादृशं तपसश्चास्या वीर्यं मन्ये न मानुषी|| ५५||
SP0340561: अथवा नित्यमेवासौ महेश्वरमनुव्रता|
SP0340562: मन्दरे सह देवेन रमते हिमवत्सुता|| ५६||
SP0340571: तपसा किं तदा वास्या यस्या भर्ता पिनाकधृक्|
SP0340572: तद्रूपिणीयं काप्यन्या तपोनियममास्थिता|| ५७||
SP0340581: महता तेजसा युक्ता नेयं शक्या मया शुभा|
SP0340582: हन्तुं भक्षार्थमद्येह ययाहं स्तम्भितः स्थितः|| ५८||
SP0340591: तस्मादेनामुपासिष्ये यावत्कालस्य पर्ययः|
SP0340592: स्वयमेतां मृतां पश्चाद्यथेष्टमबलामहम्|
SP0340593: भक्षयिष्ये बुभुक्षार्तो मुनिः फलमिवाश्रमे|| ५९||
SP0340601: विचिन्त्यैवं स शार्दूलो देव्यादूरे समास्थितः|
SP0340602: स्तब्धदृक्कर्णलाङ्गूल उपविष्टो निरीक्ष्य ताम्|| ६०||
SP0340611: सापि देव्यूर्ध्वदृष्टिं तं दृष्ट्वा स्थितमसङ्गिनम्|
SP0340612: अनुग्रहकरीं बुद्धिं चक्रे तस्मिन्सदैव हि|| ६१||
SP0340620: व्यास उवाच|
SP0340621: तपश्चरणसक्तायां देव्यां देवस्त्रिलोचनः|
SP0340622: किमकुर्वत्सुरेशान एतदिच्छामि वेदितुम्|| ६२||
SP0340630: सनत्कुमार उवाच|
SP0340631: देव्यामदीनात्मतपोरतायां वर्णप्रसादं प्रति भावितायाम्|
SP0340632: पुत्रार्थमासक्तमनोरथायां देवो ऽकरोद्यत्तदिदं शृणुष्व|| ६३||
SP0340641: देव्यां तपसि सक्तायां भगवान्गोवृषध्वजः|
SP0340642: जगामानुग्रहं कर्तुमुपमन्योर्महात्मनः|| ६४||
SP0340651: स ऋषिर्मातुलगृहे कदाचित्क्षीरमुत्तमम्|
SP0340652: होमशेषमतिस्वादु पीतवानग्निहोत्रगः|| ६५||
SP0340661: तत्स्मृत्वा मातरं प्राह देहि मातः पयो मम|
SP0340662: तस्मै पिष्टं ददौ माता तोयेनालोड्य दुःखिता|| ६६||
SP0340671: क्षीरमित्युपनीतं तं दृष्ट्वा पिष्टं तदा मुनिः|
SP0340672: नैतत्क्षीरमिति प्राह मातरं सा ततो ऽब्रवीत्|| ६७||
SP0340681: वत्स क्षीरं कुतो ऽस्माकं कुतश्चान्नं तपस्विनाम्|
SP0340682: आराधय महादेवं स ते सर्वं प्रदास्यति|| ६८||
SP0340691: इत्युक्तः स तदा मात्रा दुःखशोकपरिप्लुतः|
SP0340692: जगाम शरणं देवं सर्वभावेन शंकरम्|| ६९||
SP0340701: आदित्याभिमुखो भूत्वा पादेनैकेन संयतः|
SP0340702: मनसा चिन्तयन्नित्यं प्रणतार्तिहरं हरम्|| ७०||
SP0340711: सहस्रमेकं वर्षाणां तस्थौ दिव्यं फलाशनः|
SP0340712: द्वितीयं शीर्णपर्णाशी तृतीयं चाम्बुभोजनः|| ७१||
SP0340721: महादेवपरो भूत्वा चतुर्थं वै जितेन्द्रियः|
SP0340722: तस्थौ सहस्रं वर्षाणामनिलाशन एव सः|| ७२||
SP0340731: यदा चतुर्थं तत्पूर्णं सहस्रं शरदां मुने|
SP0340732: तुष्टस्तदा ददौ शर्वः शक्ररूपेण दर्शनम्|| ७३||
SP0340740: शक्र उवाच|
SP0340741: उपमन्यो महाभाग तपस्ते बहु संचितम्|
SP0340742: तुष्टो ऽस्मि ते वरं ब्रूहि यद्यदिच्छसि पुत्रक|| ७४||
SP0340750: उपमन्युरुवाच|
SP0340751: स्वागतं देवराजस्य त्रैलोक्याधिपतेरिह|
SP0340752: अद्य निष्कल्मषं मन्ये तपश्चीर्णं मया महत्|
SP0340753: यो ऽहं त्रैलोक्यदेवेशमिन्द्रं पश्यामि दिक्पतिम्|| ७५||
SP0340761: इदं पाद्यमिदं चार्घ्यमिदमासनविष्टरम्|
SP0340762: अयं च मधुपर्कस्ते गृह्यतां सदसत्पते|| ७६||
SP0340771: किं करोमि तदाख्याहि प्रार्थयस्व महाबल|
SP0340772: कृतमेव हि तद्विद्धि यदि स्यात्सुकरं मया|| ७७||
SP0340780: शक्र उवाच|
SP0340781: भवतो मे पिता विप्र सखाभूत्परमः पुरा|
SP0340782: तेन स्नेहेन दृष्ट्वाहं भवन्तं तपसि स्थितम्|
SP0340783: क्लिश्यमानमिहायातो ब्रूहि किं ते ददाम्यहम्|| ७८||
SP0340790: उपमन्युरुवाच|
SP0340791: देवराज्यमपि त्वत्तो नाहं कांक्षे सुरोत्तम|
SP0340792: महादेवमहं भक्तस्तस्मादिच्छाम्यहं वरम्|| ७९||
SP0340800: शक्र उवाच|
SP0340801: महादेवं न पश्यन्ति सुरापि सदसत्पतिम्|
SP0340802: न तं द्रक्ष्यसि विप्रेन्द्र ब्रूहि यत्ते मनोगतम्|| ८०||
SP0340811: अहं पितुस्ते स्नेहेन इहायातो महाव्रत|
SP0340812: धर्मतो हि सुतो मे त्वं ब्रूहि तस्माद्वरं वरम्|| ८१||
SP0340820: उपमन्युरुवाच|
SP0340821: कृतं स्वजनकृत्यं ते पूजितो ऽस्मि त्वया प्रभो|
SP0340822: गच्छ नाहमृते रुद्राद्वरं याचे नमस्तव|| ८२||
SP0340830: सनत्कुमार उवाच|
SP0340831: एवमुक्तः स तेजस्वी शक्ररूपी महेश्वरः|
SP0340832: उवाच तप्स्यसे पश्चात्किं ते रुद्रः करिष्यति|| ८३||
SP0340841: गच्छामि स्वस्ति ते चास्तु निर्विघ्नस्ते भवत्वयम्|
SP0340842: रुद्रं प्रति समारम्भः स्मरेथास्त्वं हि मां विभो|| ८४||
SP0340851: गते तस्मिंस्तदा हीन्द्रे रुद्रः स्वं रूपमास्थितः|
SP0340852: तस्यादर्शयदव्यग्र इदं चोवाच सुस्वरम्|| ८५||
SP0340860: रुद्र उवाच|
SP0340861: उपमन्यो महाभाग पश्य मां विगतज्वरः|
SP0340862: ब्रूहि निश्चिन्त्य मनसा वरं यावद्ददामि ते|| ८६||
SP0340870: सनत्कुमार उवाच|
SP0340871: ततः स दृष्ट्वा देवेशं शिरसाभिप्रणम्य च|
SP0340872: उवाच प्रणतो वाक्यं मनसा संप्रधारयन्|| ८७||
SP0340881: भगवन्यदि तुष्टो ऽसि सदासुरगणार्चित|
SP0340882: यद्ब्रवीमि तदीशान मह्यं यच्छ नमो ऽस्तु ते|| ८८||
SP0340891: द्रव्यं किंचिदनाश्रित्य मानुषं दिव्यमेव वा|
SP0340892: क्षीरोदनं समश्नीयामयाचितमुपस्थितम्|| ८९||
SP0340900: देव उवाच|
SP0340901: अनाश्रित्येह नैवास्ति कस्यचिद्द्विजसत्तम|
SP0340902: तृणमप्याश्रयं कृत्वा तस्माद्वद महामुने|| ९०||
SP0340910: उपमन्युरुवाच|
SP0340911: नैवाहमाश्रये किंचित्प्रसादाद्भगवंस्तव|
SP0340912: तदर्थश्चायमारम्भस्तत्प्रयच्छ यथार्थितम्|| ९१||
SP0340920: देव उवाच|
SP0340921: मुने किंचिदनाश्रित्य नास्ति क्षीरोदनं तव|
SP0340922: इत्युक्त्वा तं महादेवस्तत्रैवान्तरधीयत|| ९२||
SP0340931: अन्तर्धानं ततो गत्वा जिज्ञासार्थं पिनाकधृक्|
SP0340932: ब्रह्मणो रूपमास्थाय भूय एनं ततो ऽब्रवीत्|| ९३||
SP0340940: ब्रह्मोवाच|
SP0340941: उपमन्यो महाप्रज्ञ सुचीर्णं ते तपः शुभम्|
SP0340942: तुष्टो ऽस्मि ते ब्रूहि वरं प्रयच्छामि तवानघ|| ९४||
SP0340950: उपमन्युरुवाच|
SP0340951: भगवन्सर्वलोकेश नमस्ते सर्वसृक्प्रभो|
SP0340952: सुचीर्णं मे तपो देव यस्त्वां पश्यामि लोकप|| ९५||
SP0340961: महेश्वरमहं भक्तस्तदाशीस्तत्परायणः|
SP0340962: तस्माद्वरं वृणे देव त्वत्तो नाहमसंशयम्|| ९६||
SP0340970: ब्रह्मोवाच|
SP0340971: रुद्रस्ते नाददद्विप्र क्षीरोदनमदुर्लभम्|
SP0340972: स ते ऽन्यत्कुत एवेह दास्यते वरमुत्तमम्|| ९७||
SP0340981: प्राजापत्यं सुरत्वं वा अमरत्वमथापि वा|
SP0340982: इन्द्रत्वमथ सोमत्वं विष्णुत्वं वा ददामि ते|
SP0340983: लोकपालो भवानस्तु सर्वलोकाभिपूजितः|| ९८||
SP0340991: ब्रूहि किं ते ददान्यद्य विसृजस्व महेश्वरम्|
SP0340992: नासौ दाता तवेशानस्तृणमप्येकमक्षतम्|| ९९||
SP0341000: उपमन्युरुवाच|
SP0341001: न गृहीतं प्रभो तेन मम किंचिन्महात्मना|
SP0341002: ईश्वरः सर्वभूतानां न स्वामी तस्य कश्चन|| १००||
SP0341011: इच्छया कुरुते देवः सर्वकार्याणि कार्यिणाम्|
SP0341012: ददाति यदि लाभो मे न ददाति तथापि च|| १०१||
SP0341021: बहुना किं प्रलप्तेन तेन दत्तमहं वृणे|
SP0341022: नरकं वा पशुत्वं वा किं पुनर्यदतो ऽन्यथा|| १०२||
SP0341031: त्वत्तो नेच्छामि विष्णुत्वं न शक्रत्वं पितामह|
SP0341032: गच्छ सर्वसुरेशान मा वृथा क्लेशमाचर|| १०३||
SP0341040: सनत्कुमार उवाच|
SP0341041: स एवमुक्तो देवेशस्तेन ब्रह्मर्षिणा तदा|
SP0341042: तस्य तत्र पुनर्वाक्यं वरार्थमवदत्प्रभुः|| १०४||
SP0341051: उपमन्युरपीशाने मनः संधाय निश्चलम्|
SP0341052: तूष्णीं बभूव देवो ऽपि तत्रैवान्तरधीयत|| १०५||
SP0341061: तस्य तां भावनां ज्ञात्वा पिनाकी स त्रिलोचनः|
SP0341062: स्वमेव रूपमास्थाय दर्शयामास तत्क्षणात्|| १०६||
SP0341071: त्र्यक्षो जटी विशालाक्षः कुण्डली दीप्तलोचनः|
SP0341072: ज्वालामालाधरः श्रीमान्भुजगाबद्धमेखलः|| १०७||
SP0341081: सर्पयज्ञोपवीती च व्याघ्रचर्माम्बरच्छदः|
SP0341082: कृष्णाजिनोत्तरीयश्च कमण्डलुधरस्तथा|| १०८||
SP0341091: दण्डी शूली महाहासो गणपैर्बहुभिर्वृतः|
SP0341092: उवाच पुत्र पुत्रेति तुष्टो ऽस्मि तपसा तव|| १०९||
SP0341101: अमरो जरया त्यक्तः सर्वदुःखविवर्जितः|
SP0341102: कामरूपधरः श्रीमान्मत्प्रसादाद्भविष्यसि|| ११०||
SP0341111: द्वीपं चेमं गृहाण त्वं मया सृष्टं हि कामगम्|
SP0341112: क्षीरोदेन समुद्रेण सर्वतः परिवारितम्|| १११||
SP0341121: महायोगबलो भूत्वा सर्वज्ञः प्रियदर्शनः|
SP0341122: भुङ्क्ष्व क्षीरोदनं वत्स बन्धुभिः सहितः सदा|| ११२||
SP0341131: सप्त पूर्वाणि सर्वाणि कुलानि तव तापस|
SP0341132: इदं चैव कुलं सर्वमनुगृह्णामि सुव्रत|| ११३||
SP0341141: सर्वे भवन्तु विप्रर्षे य इमे तव बान्धवाः|
SP0341142: मत्प्रसादान्महासत्त्वा नित्यं क्षीरोदवासिनः|| ११४||
SP0341150: सनत्कुमार उवाच|
SP0341151: स तु तं वरमादाय प्रणम्य शिरसा भवम्|
SP0341152: शिरस्यञ्जलिमाधाय अस्तौषीत्प्रयतात्मवान्|| ११५||
SP0341160: उपमन्युरुवाच|
SP0341161: नमः सर्वामरेशाय विश्वेशाय नमो नमः|
SP0341162: नमः सर्वार्तिहर्त्रे च नमः शोकहराय च|| ११६||
SP0341171: नमः पवनवेगाय नमः पवनरूपिणे|
SP0341172: नमः काञ्चनमालाय पद्ममालाय वै नमः|| ११७||
SP0341181: नमः सुररिपुघ्नाय चण्डवेगाय वै नमः|
SP0341182: नमः पितृसुरेशाय महिषघ्नाय वै नमः|| ११८||
SP0341191: स्त्रीरूपाय नमस्तुभ्यं सर्वरूपधराय च|
SP0341192: नमः स्कन्दविशाखाय विश्वक्स्रष्ट्रे नमो नमः|| ११९||
SP0341201: नमो विश्वाय पाशाय नमो ऽचिन्त्याय चैव ह|
SP0341202: त्वं नो गतिश्च श्रेयश्च त्वमेव हृदयं सदा|| १२०||
SP0341210: सनत्कुमार उवाच|
SP0341211: ततस्तं मूर्ध्न्युपाघ्राय समाश्वास्य विसृज्य च|
SP0341212: जगाम भगवान्व्यास सुकेशं प्रति स प्रभुः|| १२१||
SP0341221: उपमन्युं ज्वलितानलप्रकाशं शतमन्युं तपसा जिगीषमाणम्|
SP0341222: स चकारावनतं हरोग्रमन्युं वरदानेन तदा व्यपेतमन्युम्|| १२२||
SP0349999: स्कन्दपुराणे चतुस्त्रिंशत्तमो ऽध्यायः||