Skandapurāṇa Adhyāya 31
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., Peter C. Bisschop and Yuko Yokochi, eds. The Skandapurāṇa. Vol. IIB. Adhyāyas 31-52. The Vāhana and Naraka Cycles. Critical Edition with an Introduction & Annotated English Synopsis, in cooperation with Nina Mirnig and Judit Törzsök. Leiden/Boston: Brill, 2014.
SP0310010: सनत्कुमार उवाच।
SP0310011: एतस्मिन्नन्तरे देवो देवीं प्राह गिरीन्द्रजाम्।
SP0310012: प्रयाम दातुं यक्षाय वरं भक्ताय भाविनि|| १||
SP0310021: भक्तो मम वरारोहे तपसा हतकिल्बिषः|
SP0310022: अर्हो वरमसौ लब्धमस्मत्तो भुवनेश्वरि|| २||
SP0310031: एवमुक्त्वा तदा देवः सह देव्या जगत्पतिः|
SP0310032: जगाम यक्षो यत्रास्ते कृशो धमनिसंततः|| ३||
SP0310041: तं दृष्ट्वा प्रणतं भक्त्या हरिकेशं वृषध्वजः|
SP0310042: दिव्यं चक्षुरदात्तस्मै येनापश्यत्स शंकरम्|| ४||
SP0310050: सनत्कुमार उवाच|
SP0310051: अथ यक्षस्तदा व्यास शनैरुन्मील्य लोचने|
SP0310052: अपश्यत्सगणं देवं वृषं चैव-म्-उपाश्रितम्|| ५||
SP0310060: देव उवाच|
SP0310061: बलं ददानि ते पूर्वं त्रैकाल्यं दर्शनं तथा|
SP0310062: सावर्ण्यं च शरीरस्य पश्य मां विगतज्वरः|| ६||
SP0310070: सनत्कुमार उवाच|
SP0310071: ततः स लब्ध्वा तु वरं शरीरेणाक्षतेन च|
SP0310072: पादयोः प्रणतस्तस्थौ कृत्वा शिरसि चाञ्जलिम्|| ७||
SP0310081: उवाच स तदा यक्षो वरदो ऽस्मीति चोदितः|
SP0310082: भगवन्भक्तिमग्र्यां तु त्वय्यनन्यां विधत्स्व मे|| ८||
SP0310091: अन्नदत्वं च लोकानां गाणपत्यं तथाक्षयम्|
SP0310092: अविमुक्ते च ते स्थाने पश्येयं सर्वदा यथा|
SP0310093: एतदिच्छामि देवेश दत्तं वरमनुत्तमम्|| ९||
SP0310100: देव उवाच|
SP0310101: जरामरणसंत्यक्तः सर्वशोकविवर्जितः|
SP0310102: भविष्यसि गणाध्यक्षो वरदः सर्वपूजितः|| १०||
SP0310111: अजय्यश्चापि सर्वेषां योगैश्वर्यसमन्वितः|
SP0310112: अन्नदश्चापि लोकेभ्यः क्षेत्रपालो भविष्यसि|| ११||
SP0310121: महाबलो महासत्त्वो ब्रह्मण्यो ऽथ मम प्रियः|
SP0310122: त्र्यक्षश्च दण्डपाणिश्च महायोगी तथैव च|| १२||
SP0310131: उद्भ्रमः संभ्रमश्चैव गणौ ते परिचारकौ|
SP0310132: तवाज्ञया करिष्येते लोकस्योद्भ्रमसंभ्रमौ|| १३||
SP0310140: सनत्कुमार उवाच|
SP0310141: एवं स भगवान्व्यास यक्षं कृत्वा गणेश्वरम्|
SP0310142: जगाम धाम देवेशः सह तेन सुरेश्वरः|| १४||
SP0310151: अथ दृष्ट्वा ततो देवीं देवदेवो वृषध्वजः|
SP0310152: तप्यतो मन्दरस्याशु वरदानार्थमब्रवीत्|| १५||
SP0310160: देव उवाच|
SP0310161: देवि फुल्लारविन्दाक्षि गमिष्यामि सुमध्यमे|
SP0310162: मन्दरं पर्वतश्रेष्ठमनुग्रहवरेप्सया|| १६||
SP0310171: सभार्यः ससुतश्चैव स हि मां ससुहृज्जनः|
SP0310172: प्रसन्नस्तपसा श्रेष्ठो मन्दरः पर्वतोत्तमः|| १७||
SP0310181: अद्य वर्षसहस्राणि पञ्च दिव्यानि पार्वति|
SP0310182: तप्यते तपसा श्रेष्ठो मयि सर्वात्मभावितः|| १८||
SP0310190: देव्युवाच|
SP0310191: नय मामपि देवेश मन्दरं चारुकन्दरम्|
SP0310192: न रंस्ये ऽहं विना देव त्वया सर्वजगत्पते|| १९||
SP0310201: ततो देवः प्रहस्यैनामुवाच परमेश्वरः|
SP0310202: अविमुक्तं न मोक्तव्यं कथं त्वं यातुमिच्छसि|| २०||
SP0310210: देव्युवाच|
SP0310211: इह चैव निवत्स्यामि गमिष्यामि च मन्दरम्|
SP0310212: अविमुक्तमिदं स्थानं ततो देव भविष्यति|| २१||
SP0310220: देव उवाच|
SP0310221: एवमेतद्वरारोहे यथा वदसि पार्वति|
SP0310222: ऐश्वर्यात्सर्वगा हि त्वं यथाहं देवि सर्वगः|| २२||
SP0310230: सनत्कुमार उवाच|
SP0310231: ततः स भगवान्देवो वृषमारुह्य सर्वगम्|
SP0310232: सोमः सनन्दिः सगणो मन्दरं प्रययौ हरः|| २३||
SP0310241: स गत्वा भुवनेशानस्तप्यमानं परं तपः|
SP0310242: अपश्यन्मन्दरं तत्र दृष्ट्वा चैनमुवाच ह|| २४||
SP0310251: वरदो ऽस्मि गिरीशाद्य तपसानेन ते भृशम्|
SP0310252: वरं वृणु यथेष्टं त्वं सर्वं तत्प्रददानि ते|| २५||
SP0310260: सनत्कुमार उवाच|
SP0310261: स एवमुक्तः शर्वेण दृष्ट्वा त्रिभुवनेश्वरम्|
SP0310262: सोमं सनन्दिनं चैव प्रणम्य वृषवाहनम्|| २६||
SP0310271: पुनः पुनर्हरं दृष्ट्वा देवीं चैव पुनः पुनः|
SP0310272: पुनः पुनर्गणांश्चैव नन्दिनं च ननाम सः|| २७||
SP0310281: तं तथा व्याकुलं दृष्ट्वा हर्षजास्राविलेक्षणम्|
SP0310282: वरेण च्छन्दयामास भूय एव हरो गिरिम्|| २८||
SP0310290: मन्दर उवाच|
SP0310291: भगवन्यदि तुष्टो ऽसि देवदेव जगत्पते|
SP0310292: मयि ते वासमिच्छामि सोमस्य सगणस्य च|| २९||
SP0310301: इच्छामि देवदेवेश पादस्पर्शेन ते सदा|
SP0310302: पवित्रीकृतमात्मानं सोमेन सगणेन च|| ३०||
SP0310311: नान्यं वरमिहेच्छामि त्वत्तो देव जगद्गुरो|
SP0310312: एष एव वरो मह्यं दीयतां भुवनेश्वर|
SP0310313: एवमस्त्विति तं प्राह मन्दरं वरदस्तदा|| ३१||
SP0310320: भगवानुवाच|
SP0310321: सनन्दी सह देव्या च निवत्स्यामि सदा त्वयि|
SP0310322: त्वं चापि भूभृतां श्रेष्ठो जरामरणवर्जितः|
SP0310323: अभेद्यश्चैव वज्रेण मत्प्रसादाद्भविष्यसि|| ३२||
SP0310331: रम्यश्च सर्वभूतानां हेमरत्नविभूषितः|
SP0310332: अप्सरोगणसंकीर्णः सुरसिद्धनिषेवितः|| ३३||
SP0310340: सनत्कुमार उवाच|
SP0310341: सद्म-म्-एवासृजत्तत्र जम्बूनदमयं महत्|
SP0310342: मनसातिगुणं व्यास न तेनास्ति समं क्वचित्|| ३४||
SP0310351: न तादृग्ब्रह्मणो ऽप्यस्ति किमुतान्यस्य कस्यचित्|
SP0310352: तेजसा वर्ष्मणा कान्त्या वृष नाम्नेति विश्रुतम्|| ३५||
SP0310360: व्यास उवाच|
SP0310361: भगवन्ब्रह्मणः सूनो सर्वयोगेश्वरेश्वर|
SP0310362: न मे तृप्तिस्त्वयाख्याते देवदेवस्य चेष्टिते|| ३६||
SP0310371: अभवज्जलदः पूर्वं वाहनं रुद्रवल्लभम्|
SP0310372: तत्कथं संपरित्यज्य वृषभे मतिमादधे|| ३७||
SP0310380: सनत्कुमार उवाच|
SP0310381: पुरा वेदः सुतो जज्ञे ब्रह्मणः प्रथमो ऽद्भुतः|
SP0310382: द्वितीयश्चैव यज्ञो ऽभूत्तं च लोके ऽभ्ययुञ्जत|| ३८||
SP0310391: स लोकाप्यायनकरः प्रयुक्तो ब्रह्मणा स्वयम्|
SP0310392: प्रजा विवर्धयिषता नावर्धयदशेषतः|| ३९||
SP0310401: आत्मानमथ स ज्ञात्वा नातितेजसमच्युतः|
SP0310402: तताप सुमहद्व्यास तपो यज्ञः सुदुश्चरम्|| ४०||
SP0310411: अथ तुष्टस्तदा देवः शर्वो यज्ञस्य सुव्रत|
SP0310412: उवाच वरदो ऽस्मीति स वव्रे वरदं वरम्|| ४१||
SP0310420: यज्ञ उवाच|
SP0310421: भगवंल् लोकसिद्ध्यर्थं प्रयुक्तो ऽहं स्वयम्भुवा|
SP0310422: न च मे ऽस्ति तथावीर्यं तन्मे यच्छ नमस्तव|| ४२||
SP0310430: देव उवाच|
SP0310431: जीमूतो भव लोकानां तव सिद्धिर्भविष्यति|
SP0310432: ततो ऽमृताभिरद्भिस्त्वं लोकान्संवर्धयिष्यसि|| ४३||
SP0310440: यज्ञ उवाच|
SP0310441: जीमूतत्वं यदि मम लोकसिद्धिकरं शुभम्|
SP0310442: तस्माद्भवन्तं पृष्ठेन वहेयं विद्युतालयः|| ४४||
SP0310451: यथाहं यज्ञभावे ऽपि वहामि त्वां महाप्रभम्|
SP0310452: तथैव जलदत्वे ऽपि वहेयमहमव्ययम्|| ४५||
SP0310460: सनत्कुमार उवाच|
SP0310461: एवमस्त्विति संप्रोच्य वाहनत्वे व्यकल्पयत्|
SP0310462: जीमूतं व्यास भगवान्यज्ञमूर्तिमतिप्रभम्|| ४६||
SP0310471: यदा तु यजतो व्यास दक्षस्य सुमहात्मनः|
SP0310472: शिरश्छिन्नं शरेणाशु यज्ञस्यामिततेजसः|
SP0310473: तदाशिरस्कं तं यज्ञं वाहनत्वादपानुदत्|| ४७||
SP0310480: व्यास उवाच|
SP0310481: कथं यज्ञं स दक्षस्य भगवानाहनच्छुभम्|
SP0310482: कारणं चात्र किं विप्र येन तं हतवान्प्रभुः|| ४८||
SP0310490: सनत्कुमार उवाच|
SP0310491: शापः पूर्वं समाख्यातः कारणं मुनिसत्तम|
SP0310492: इदं च शृणु मे भूयो विस्तरेण पुरातनम्|| ४९||
SP0310501: पुरा हि ब्रह्मणो वक्त्रात्क्षुवतो ऽभिविनिःसृतः|
SP0310502: बद्धगोधाङ्गुलित्रश्च शरी तूणी शरासनी|| ५०||
SP0310511: खड्गी किरीटमाली च कुण्डली कवची तथा|
SP0310512: महोरस्को महोत्साहः पुरुषः काञ्चनप्रभः|| ५१||
SP0310521: क्षुप इत्येव नाम्ना तं ब्रह्मा स्वयमभाषत|
SP0310522: तमिन्द्रो वरयामास राजानं भुवि लोकपम्|| ५२||
SP0310531: सो ऽब्रवीद्यदि मे वज्रमायुधं त्वं प्रयच्छसि|
SP0310532: ततः स्यां भुवि राजाहं नान्यथा रोचते मम|| ५३||
SP0310540: इन्द्र उवाच|
SP0310541: चिन्तितं करमेतत्ते वज्रमेष्यति नान्यथा|
SP0310542: एवं भवतु भद्रं ते भव राजा प्रजाहितः|| ५४||
SP0310550: सनत्कुमार उवाच|
SP0310551: स एवमुक्तस्तेजस्वी राजा भुवि बभूव ह|
SP0310552: च्यावनिश्च दधीचो ऽस्य सखा समभवत्तदा|| ५५||
SP0310561: स तेन सह संगम्य सुखासीनो वरासने|
SP0310562: चक्रे कथा विचित्रार्थाः प्रीयमाणः पुनः पुनः|| ५६||
SP0310571: अथाभवत्तयोर्व्यास रागो जातिकृतः प्रभुः|
SP0310572: क्षत्रं श्रेष्ठं न वा श्रेष्ठं ब्रह्म श्रेष्ठं न वेति च|| ५७||
SP0310581: क्षुपो ऽब्रवीत्क्षत्रमिति दधीचो ब्रह्म वेति च|
SP0310582: अब्रूतां कारणे चोभे न व्यवर्तत कश्चन|| ५८||
SP0310591: अथ तीक्ष्णतया चैव तपोधिकतया तथा|
SP0310592: ब्राह्मणत्वस्य चाग्र्यत्वात्तथा दैवकृतेन च|| ५९||
SP0310601: क्रुद्धो दधीचस्तं व्यास वामहस्तेन मूर्धनि|
SP0310602: आजघान महातेजा वज्रेणाताडयत्स च|| ६०||
SP0310611: वज्रेण स द्विधा छिन्नः शक्रमाह्वयदव्ययः|
SP0310612: सो ऽवदत्त्वं महायोगः शक्तः संधातुमात्मना|| ६१||
SP0310621: स्वदेहं स तथा श्रुत्वा दधीचो योगमायया|
SP0310622: संधयामास शर्वं च शरणं समपद्यत|| ६२||
SP0310631: स सुरेश्वरमाराध्य प्राप्यावध्यत्वमुत्तमम्|
SP0310632: वज्रास्थित्वमभेद्यत्वमजरत्वं च शंकरात्|
SP0310633: सर्वभूतानुकम्पित्वं महायोगित्वमेव च|| ६३||
SP0310641: पुनरागात्क्षुपं द्रष्टुं पुनः सख्यमभूत्तयोः|
SP0310642: रागो जातिकृतो यश्च पूर्ववत्स बभूव ह|| ६४||
SP0310651: वामपादेन चाप्येनं क्षुपं स समताडयत्|
SP0310652: पुनश्च वज्रमादाय स चैनमहनत्तदा|
SP0310653: न चार्तिं न व्यथां तस्य तद्वज्रमकरोन्मुने|| ६५||
SP0310661: अवध्यत्वमथो ज्ञात्वा क्षुपस्तस्य महात्मनः|
SP0310662: नारायणं समासाद्य वरार्थं समराधयत्|| ६६||
SP0310671: वरदो ऽस्मीति तुष्टेन विष्णुना स च चोदितः|
SP0310672: प्रोवाच प्रणतो विष्णुमिदं व्यास महामनाः|| ६७||
SP0310680: क्षुप उवाच|
SP0310681: दधीचो नाम विप्रर्षिरवध्यो ऽक्षय एव च|
SP0310682: सखा मम हृषीकेश स च मामाह नित्यदा|| ६८||
SP0310691: बिभेम्यहं न देवस्य राक्षसस्यासुरस्य वा|
SP0310692: पिशाचस्याथ यक्षस्य वयसो मानुषस्य वा|
SP0310693: बिभेमीति यथा ब्रूयात्तथा त्वं कर्तुमर्हसि|| ६९||
SP0310701: एवमुक्तो नरेशेन स विष्णुर्लोकभावनः|
SP0310702: तथास्त्विति च तं प्रोच्य दधीचस्याश्रमं ययौ|| ७०||
SP0310711: स प्रविश्याश्रमं व्यास दधीचेनाभिपूजितः|
SP0310712: अभिवाद्याञ्जलिं कृत्वा दधीचमिदमब्रवीत्|| ७१||
SP0310721: भगवन्ब्राह्मणश्रेष्ठ पितामहसमद्युते|
SP0310722: वरमेकं वृणे त्वत्तस्तद्भवान्दातुमर्हसि|| ७२||
SP0310731: प्रसादितो ऽहं विप्रेन्द्र क्षुपेण शुभकर्मणा|
SP0310732: वरदो ऽस्मीति चाप्युक्तो वरं वव्रे महामुने|
SP0310733: प्रोक्तं त्वया बिभेमीति ब्रूहि तन्मदनुग्रहात्|| ७३||
SP0310741: अभयं सर्वभूतेभ्यो ब्राह्मणस्य न संशयः|
SP0310742: अवध्यश्चापि सर्वेषां महायोगबलान्वितः|
SP0310743: अभीतस्त्वं तथाप्यद्य मदर्थं वद तत्प्रभो|| ७४||
SP0310751: दधीचस्त्वेवमुक्तो वै विष्णुना मधुरं तदा|
SP0310752: उवाच न बिभेमीति भूयो भूयो जनार्दनम्|
SP0310753: नाहं वक्ष्ये बिभेमीति नोक्तं नाप्युच्यते मया|| ७५||
SP0310760: सनत्कुमार उवाच|
SP0310761: एवमुक्तश्चक्रपाणिश्च्यावनिं क्रोधमूर्छितः|
SP0310762: उवाच चक्रमुद्यम्य भयमस्य विदर्शयन्|| ७६||
SP0310771: एवमेव हि कर्तव्या ये भूत्वा बलवत्तराः|
SP0310772: अस्वामिन इव प्रेम्णा ब्रुवते दुर्बलं जनम्|| ७७||
SP0310781: न चेद्वक्ष्यसि भीतो ऽस्मीत्येतच्चक्रं ततस्तव|
SP0310782: सुनसं मुखमादाय महीं संप्रापयिष्यति|| ७८||
SP0310790: च्यावनिरुवाच|
SP0310791: किं वृथा चक्रमुद्यम्य त्वं विष्णो क्लेशमर्छसि|
SP0310792: नाहं चक्रस्य ते गम्यः प्रसादात् त्र्यम्बकस्य तु|| ७९||
SP0310801: किं तु जिज्ञासया यामि लोकपालशरण्यताम्|
SP0310802: तेषां निष्क्रियतां ज्ञात्वा ततो ध्यास्यामि शंकरम्|| ८०||
SP0310811: एवमुक्त्वा च्यावनिस्तु प्राद्रवद्वरुणं प्रति|
SP0310812: शरणं तं प्रपन्नश्च स ददावभयं प्रभुः|| ८१||
SP0310821: तत्र विष्णोश्च देवस्य वरुणस्य च धीमतः|
SP0310822: युद्धं समभवद्घोरं बहूनब्दान्विभीषणम्|| ८२||
SP0310831: निगृहीते तु वरुणे च्यावनिर्यममभ्यगात्|
SP0310832: स चास्याभयदस्तस्मै विष्णुना निर्जितो युधि|
SP0310833: ततो ऽग्निमभ्यगाद्व्यास सो ऽपि तेनाभिनिर्जितः|| ८३||
SP0310841: ततः स मुष्टिमादाय कुशानां च्यावनिः शुभम्|
SP0310842: स्वमाश्रममुपागम्य तिष्ठ तिष्ठेत्यभाषत|| ८४||
SP0310851: जिज्ञासार्थं लोकपालानहं शरणमेयिवान्|
SP0310852: अबलास्ते च सर्वे ऽपि मय्येव बलमुत्तमम्|| ८५||
SP0310861: अद्य गर्वं च दर्पं च बलं यच्च तवाद्भुतम्|
SP0310862: तत्सर्वं नाशयिष्यामि तिष्ठेदानीं जनार्दन|| ८६||
SP0310871: ततो युद्धं समभवत्तुमुलं लोमहर्षणम्|
SP0310872: नारायणस्य च व्यास च्यावनेश्च महात्मनः|| ८७||
SP0310881: यान्यस्त्राणि शरा ये च नारायणकरच्युताः|
SP0310882: योगेन तान्दधीचो ऽसौ कुशमुष्टौ न्यवेशयत्|| ८८||
SP0310891: ततो विष्णोर्योगबलाद्गात्रेभ्यः संप्रजज्ञिरे|
SP0310892: देवा युयुधिरे सर्वे विष्णुना सह दंशिताः|| ८९||
SP0310901: तानप्यशेषतः सर्वान्सायुधान्सह वाहनैः|
SP0310902: कुशमुष्टौ सुसंक्रुद्धो विष्णुवर्जं न्यवेशयत्|| ९०||
SP0310911: ततः सर्वामरैर्व्यास कुशमुष्टिं प्रवेशितैः|
SP0310912: योगेन तेजसा चैव दधीचेन महात्मना|| ९१||
SP0310921: विष्णुं संविग्नरूपं तु कोपावेशात्प्रमोहितम्|
SP0310922: तत्रागम्य स्वयं ब्रह्मा तदा वचनमब्रवीत्|| ९२||
SP0310931: किं तवानेन गोविन्द वृथा यत्नेन सद्द्विजे|
SP0310932: कृतेनास्य दधीचस्य शर्वाल्लब्धवरस्य तु|| ९३||
SP0310941: किं न वेत्सि यथा ह्येष प्रसादात्परमेश्वरात्|
SP0310942: अवध्यत्वं सुयोगित्वं गुणैश्वर्यत्वमेव च|
SP0310943: वज्रास्थिसारतां चैव लब्धवान्स्वयमीश्वरात्|| ९४||
SP0310951: न चैवं त्वद्विधा देव ब्राह्मणेषु विकुर्वते|
SP0310952: तस्मादाशु निवर्तस्व क्षमयैनं द्विजोत्तमम्|| ९५||
SP0310961: ततो ब्रह्मवचः श्रुत्वा स विष्णुर्लोकभावनः|
SP0310962: योगेन तद्बलं ज्ञात्वा दधीचस्य च शंकरात्|
SP0310963: क्षमयामास विप्रेन्द्रं स्वं चावासमथाभ्यगात्|| ९६||
SP0310971: ब्रह्मापि तमृषिं सान्त्व्य पूजयित्वा च लोकपः|
SP0310972: जगामादर्शनं व्यास सह सर्वामरैस्तदा|| ९७||
SP0310981: दधीचो ऽपि महातेजास्तपस्तेपे स्वके ऽश्रमे|
SP0310982: महादेवप्रसादार्थमुग्रं वाय्वम्बुभोजनः|| ९८||
SP0310991: अथास्य युक्तस्य तदा तपसा भास्करद्युतेः|
SP0310992: तुतोष भगवांस्त्र्यक्षस्तुष्टश्चैवाब्रवीदिदम्|| ९९||
SP0311000: देव उवाच|
SP0311001: च्यावने तपसानेन तव तुष्टो ऽस्मि सुव्रत|
SP0311002: ब्रूहि यत्ते ऽभिलषितं कृतमेव हि तन्मया|| १००||
SP0311010: दधीच उवाच|
SP0311011: भगवन्यदि तुष्टो ऽसि यदि देयो वरश्च मे|
SP0311012: इच्छामि विष्णुना सार्धं सर्वान्देवांस्त्वया जितान्|| १०१||
SP0311020: सनत्कुमार उवाच|
SP0311021: ततः प्रहस्य वरदो दधीचमृषिसत्तमम्|
SP0311022: एवमस्त्विति तं प्राह प्रणतार्तिहरो हरः|| १०२||
SP0311031: तस्मिन्दत्ते तदा तेन त्र्यम्बकेन वरे शुभे|
SP0311032: अमन्यत स्थितं वैरं क्षुपेण सह वै ऋषिः|| १०३||
SP0311041: ध्यायन्तं तं तथा दृष्ट्वा भगवान्गोवृषध्वजः|
SP0311042: उवाच वरमन्यच्च ब्रूहि विप्र ददानि ते|| १०४||
SP0311050: दधीच उवाच|
SP0311051: यस्मात्स्थितमिदं वैरं वरदानात्तव प्रभो|
SP0311052: इह तस्मात्तव स्थानं नाम्नैतेन भवत्वज|| १०५||
SP0311060: देव उवाच|
SP0311061: स्थानेश्वरमिति ख्यातं नाम्नैतत्स्थानमुत्तमम्|
SP0311062: भवितृ क्रोशपर्यन्तं नानापुष्पलताकुलम्|| १०६||
SP0311071: अत्र यो ऽभ्यर्चयेन्मां तु परं नियममास्थितः|
SP0311072: त्रिरात्रोपोषितः सम्यक्स्नात्वा नद्यां तु मानवः|| १०७||
SP0311081: ब्राह्मणं भोजयित्वा च चरुं धर्मेण संयुतः|
SP0311082: सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्|| १०८||
SP0311091: स्थाणुतीर्थं च भवितृ तवैव पापनाशनम्|
SP0311092: अश्वमेधफलं ह्यत्र स्नातः प्राप्नोति पुष्कलम्|| १०९||
SP0311101: अयं चापि वटः श्रीमान्स्थितो ऽहं यत्र साम्प्रतम्|
SP0311102: वरं दातुं मदाख्यातो नाम्ना स्थाणुवटो महान्|
SP0311103: भविष्यति न संदेहः फलं चास्यापि मे शृणु|| ११०||
SP0311111: यो ऽत्र तिष्ठेदहोरात्रं वाग्यतो नियताशनः|
SP0311112: चीर्णं वर्षं भवेत्तेन स्थाणुव्रतमनुत्तमम्|| १११||
SP0311121: सर्वपापविनिर्मुक्तो गणपः स भवेन्मम|
SP0311122: अकम्पनो नाम महान्महायोगबलान्वितः|| ११२||
SP0311131: यश्च प्राणान्नियमवान्यमवानथवा पुनः|
SP0311132: परित्यजेत मनुजस्तस्य पुण्यफलं महत्|| ११३||
SP0311141: सर्वपापविनिर्मुक्तः सर्वबन्धविवर्जितः|
SP0311142: गणेश्वरो नन्दिसमः स मे भवति सर्वगः|| ११४||
SP0311151: स्थानेश्वरे यस्त्विदमेकरात्रं स्थित्वा क्षपेत्सर्वमशेषतो हि|
SP0311152: स सर्वपापप्रविमुक्तचेता गणेश्वरो मे भवितातिभीमः|| ११५||
SP0319999: स्कन्दपुराण एकत्रिंशत्तमो ऽध्यायः||