Skandapurāṇa Adhyāya 27
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005.
SP0270010: सनत्कुमार उवाच।
SP0270011: अथ तस्मिन्सुखासीनौ शैलजावृषभध्वजौ।
SP0270012: आसने काञ्चने दिव्ये नानारत्नोपशोभिते॥ १॥
SP0270021: अथाचलसुता देवी सुखासीना विभावरी।
SP0270022: सर्वलोकपतिं प्राह गिरीन्द्रतनया पतिम्। । २। ।
SP0270031: भगवन्देवतारिघ्न चन्द्रावयवभूषण।
SP0270032: कथयैतन्मम विभो यत्त्वां पृच्छामि मानद। । ३। ।
SP0270041: किं फलं तव देवेश लभन्ते भक्तवत्सल।
SP0270042: भक्ता ये फलमुद्दिश्य कुर्वते तव किंचन। । ४। ।
SP0270050: सनत्कुमार उवाच।
SP0270051: स एवमुमया प्रोक्तः शूलपाणिर्वृषध्वजः|
SP0270052: अवोचत्सर्वमव्यग्रो देवदेवः शुभाशुभम्|| ५||
SP0270060: व्यास उवाच|
SP0270061: किं तत्स भगवान्देवः प्रीयमाणो महातपाः|
SP0270062: प्रणयात्स तदा देव्या पृष्टो ऽकथयदव्ययः|| ६||
SP0270070: सनत्कुमार उवाच|
SP0270071: मयाप्येतत्पुरा व्यास पृष्टो नन्दीश्वरः प्रभुः|
SP0270072: यथोक्तवान्मयि ब्रह्मंस्तथा तत्कथयामि ते|| ७||
SP0270081: गणेशानं महाभागं सूर्यायुतसमप्रभम्|
SP0270082: अपृच्छमहमव्यग्रो नन्दीश्वरं महाद्युतिम्|| ८||
SP0270091: ईशेन यत्पुरा देव्याः कथितं गणसत्तम|
SP0270092: तन्मे ब्रूहि यथातत्त्वं परं कौतूहलं हि मे|| ९||
SP0270100: नन्दीश्वर उवाच|
SP0270101: श्रूयतामभिधास्यामि पृच्छतस्ते महामुने|
SP0270102: देवदेवेन पार्वत्या यत्पुरा कथितं हितम्|| १०||
SP0270110: देव उवाच|
SP0270111: श्रूयतामभिधास्यामि यन्मां पृच्छसि सुव्रते|
SP0270112: हिताय देवि भक्तानां पृष्टस्ते कथयामि ते|| ११||
SP0270121: प्रासादं यस्तु मे देवि शुभ्रं कुर्यादनिन्दिते|
SP0270122: विदधाम्यर्जुनं तस्य गृहं शिवपुरे ऽक्षयम्|| १२||
SP0270131: विधानेन यथोक्तेन लिङ्गं मे स्थापयेच्च यः|
SP0270132: चरते स मया सार्धं नित्यमष्टगुणान्वितः|| १३||
SP0270141: काञ्चनं तुटिमात्रं वा यो दद्याद्बहु वा मम|
SP0270142: तस्य हैमवते शृङ्गे ददानि गृहमुत्तमम्|| १४||
SP0270151: यो मे गास्तु हिरण्यं वा दद्यादविमनाः प्रिये|
SP0270152: लोकान्ददान्यहं तस्मै सर्वकामसमन्वितान्|| १५||
SP0270161: वृषभं यः प्रयच्छेत श्वेतं नीलमथापि वा|
SP0270162: स कुलानामुभयतस्तारयेदेकविंशतिम्|| १६||
SP0270171: गोचर्मद्वयसां वापि यो मे दद्याद्वसुन्धराम्|
SP0270172: स मे पुरं समासाद्य गणेशैः सह मोदते|| १७||
SP0270181: यो मे पुण्यफलं दद्यादात्मना पूर्वमार्जितम्|
SP0270182: सो ऽनन्तफलमाप्नोति मोदते च त्रिविष्टपे|| १८||
SP0270191: यो ऽनुयानं चतुर्दश्यां कृष्णस्य कुरुते मम|
SP0270192: रथेन वृषयुक्तेन मम लोके स मोदते|| १९||
SP0270201: †महिमानो†पचारैश्च यो मां जप्यैश्च पूजयेत्|
SP0270202: ददानि ब्रह्मणो लोके वासं तस्य सुपूजितम्|| २०||
SP0270211: मनसा चिन्तयेद्यश्च पूजयेयमहं हरम्|
SP0270212: अशक्तो नास्ति च द्रव्यं यस्य नित्यं सुमध्यमे|| २१||
SP0270221: स तया श्रद्धया पूतो विमुक्तः सर्वपातकैः|
SP0270222: मम लोकमवाप्नोति भिन्ने देहे न संशयः|| २२||
SP0270231: स्नात्वा यः पूर्वसंध्यायां सदा मामुपगच्छति|
SP0270232: स मित्रं यक्षराजस्य यक्षो भवति वीर्यवान्|| २३||
SP0270241: संमार्जनं पञ्चशतं सहस्रमुपलेपनम्|
SP0270242: गन्धाश्च दशसाहस्रा आनन्त्यं चार्चनं स्मृतम्|| २४||
SP0270251: अभ्यङ्गो ऽष्टशतं चैव स्नपनं त्रिशतं भवेत्|
SP0270252: गन्धोदकं पञ्चशतं पञ्चगव्यं तथैव च|| २५||
SP0270261: क्षीरं पञ्चगुणं देवि तस्माद्भूयश्च कापिलम्|
SP0270262: तस्माच्च सर्पिषा स्नानं भूयः पञ्चगुणं तथा|| २६||
SP0270271: क्षमामि देवि चास्येह अपराधान्बहूनपि|
SP0270272: भस्माभिषेकमानन्त्यं गुह्यं चैतन्ममेप्सितम्|| २७||
SP0270281: अगरुं दशसाहस्रं षट्सहस्रं तु चन्दनम्|
SP0270282: चतुर्दशसहस्राणि धूपः कालागरुः स्मृतः|| २८||
SP0270291: अक्षतास्तण्डुलयवाः शालयो द्विशताः स्मृताः|
SP0270292: आनन्त्यो गुग्गुलुश्चैव सहाज्येन सुधूपितः|| २९||
SP0270301: द्वे सहस्रे पलानां तु महिषाक्षस्य यो दहेत्|
SP0270302: देवि संवत्सरं पूर्णं स मे नन्दिसमो भवेत्|| ३०||
SP0270311: दक्षिणायां तु यो मूर्तौ पायसं सघृतं शुभे|
SP0270312: निवेदयेद्वर्षमेकं स च नन्दिसमो भवेत्|| ३१||
SP0270321: चरवो दशसाहस्रा यावकश्च चतुर्गुणः|
SP0270322: शेषाश्च चरवः सर्वे यावकार्धेन संमिताः|| ३२||
SP0270331: घृतपात्रमसंख्येयमिह प्रेत्य च शाश्वतम्|
SP0270332: प्रीणाति च पितॄन्सर्वान्विमाने चैव मोदते|
SP0270333: छत्त्रं दद्याच्च यः सो ऽपि दीप्यते तेजसा दिवि|| ३३||
SP0270341: उभे पक्षे त्रयोदश्यामष्टम्यां चोपवासिकः|
SP0270342: उपतिष्ठेत मां भक्त्या सोपहारमनिन्दिते|
SP0270343: ददान्यस्य स्वकं लोकं तुष्टो ऽहं देवि शाश्वतम्|| ३४||
SP0270351: रक्तपीतकवासोभिः पुष्पैश्च विविधैरपि|
SP0270352: पूजितो ऽहं सदा भक्त्या पुत्रत्वे कल्पयामि तम्|| ३५||
SP0270361: एकरात्रं च यो मर्त्यो दीपं धारयति स्थितः|
SP0270362: सर्वयज्ञफलं तस्य ददानि श्रियमेव च|| ३६||
SP0270371: मयैव मोहिताः सर्वे लोकाः सजडपण्डिताः|
SP0270372: न मां पश्यन्ति रागान्धास्तमसा बहुलीकृताः|| ३७||
SP0270381: ध्यानिनो नित्ययुक्ता ये सत्यधर्मपरायणाः|
SP0270382: एकाग्रमनसो दान्तास्ते मां पश्यन्ति नित्यदा|| ३८||
SP0270391: ये मे भक्ताः सदा चैव सांख्ययोगविशारदाः|
SP0270392: सर्वं पश्यन्ति च मयि मां च सर्वत्र योगतः|| ३९||
SP0270401: त्रींल् लोकान्समतिक्रम्य ब्रह्मलोकं तथैव च|
SP0270402: गच्छन्ति मम ते लोकं तमो भित्त्वा सुदुर्भिदम्|| ४०||
SP0270411: न शक्यो ऽस्मि तपोयुक्तैर्द्रष्टुं मुनिगणैरपि|
SP0270412: ध्यानिनो नित्ययुक्ताश्च देवि पश्यन्ति मां बुधाः|| ४१||
SP0270421: यानि लोकेषु तीर्थानि देवतायतनानि च|
SP0270422: पादयोस्तानि सुश्रोणि सदा संनिहितानि मे|| ४२||
SP0270431: मय्यर्पितमना नित्यं तथा मद्भावभावितः|
SP0270432: ममैव स प्रभावेन सर्वपापैः प्रमुच्यते|| ४३||
SP0270441: सर्वथा वर्तमानो ऽपि देवि यो मां सदा स्मरेत्|
SP0270442: कल्मषेण न युज्येत नरः कर्ता कदाचन|| ४४||
SP0270451: सर्वावस्थो ऽपि पापात्मा ज्ञाननिष्ठेन चेतसा|
SP0270452: यो ऽभ्यर्चयति मां नित्यं स ममात्मसमो भवेत्|| ४५||
SP0270461: षडङ्गेन च योगेन यो मामर्चयते सदा|
SP0270462: प्रविशेत स मां क्षिप्रमत्र नास्ति विचारणा|| ४६||
SP0270471: यो ऽप्यसज्जनरतो वियोनिजः पातकैरपि समन्वितः सदा|
SP0270472: सो ऽपि मद्गतमना मदर्पणो याति देवि गतिमप्रतर्किताम्|| ४७||
SP0279999: इति स्कन्दपुराणे सप्तविंशतितमो ऽध्यायः||