Skandapurāṇa Adhyāya 26
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005.
SP0260010: सनत्कुमार उवाच।
SP0260011: एवं नन्दीश्वरो व्यास उत्पन्नो ऽनुचरश्च ह।
SP0260012: अभवद्देवदेवस्य सेनापत्ये ऽभिषेचितः॥ १॥
SP0260020: व्यास उवाच।
SP0260021: देव्या सहाथ भगवानासीनस्तत्र कामदः।
SP0260022: अकरोत्किं महादेव एतदिच्छामि वेदितुम्॥ २। ।
SP0260030: सनत्कुमार उवाच।
SP0260031: भगवान्हिमवच्छृङ्गे शर्वो देव्याः प्रियेप्सया।
SP0260032: गणेशैर्विविधाकारैर्हासं संजनयन्मुहुः। । ३। ।
SP0260041: देवीं बालेन्दुतिलको रामयच्च रराम च।
SP0260042: महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः। । ४। ।
SP0260051: अथ देव्याससादैका मातरं परमेश्वरी।
SP0260052: आसीनां काञ्चने शुभ्रे आसने परमार्चिते। । ५। ।
SP0260061: अथ दृष्ट्वा सतीं देवीमागतां तु सुरूपिणीम्।
SP0260062: आसनेन महार्हेण सम्पादयदनिन्दिताम्|| ६||
SP0260071: आसीनां तां च सोवाच मेना हिमवतः प्रिया|
SP0260072: चिरस्यागमनं ह्यद्य तव पुत्रि शुभेक्षणे|
SP0260073: दरिद्रक्रीडनैस्त्वं हि भर्त्रा क्रीडसि संगता|| ७||
SP0260081: ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः|
SP0260082: उमे त एवं क्रीडन्ति यथा तव पतिः शुभे|| ८||
SP0260090: सनत्कुमार उवाच|
SP0260091: सैवमुक्ता तु मात्राथ नातिहृष्टमनाभवत्|
SP0260092: महत्याक्षमया युक्ता न किंचित्तामुवाच ह|| ९||
SP0260101: विसृष्टा सा तदा मात्रा गत्वा देवमुवाच ह|
SP0260102: भगवन्देवदेवेश नेह वत्स्यामि भूधरे|
SP0260103: अन्यं वृणु ममावासं भुवनेश महाद्युते|| १०||
SP0260110: देव उवाच|
SP0260111: सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि|
SP0260112: अन्यत्र रोचितवती नावासं देवि कर्हिचित्|| ११||
SP0260121: इदानीं स्वयमेव त्वं वासमन्यत्र शोभने|
SP0260122: कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते|| १२||
SP0260130: देव्युवाच|
SP0260131: गृहं गताहं देवेश पितुरद्य महात्मनः|
SP0260132: दृष्ट्वा च मे तत्र माता विजने लोकभावनी|| १३||
SP0260141: आसनादिभिरभ्यर्च्य सा मामेवमभाषत|
SP0260142: उमे तव सदा भर्ता दरिद्रक्रीडनैः शुभे|
SP0260143: क्रीडते न हि देवानां क्रीडा भवति तादृशी|| १४||
SP0260151: यत्किल त्वं महादेव गणेशैर्विविधैः शुभैः|
SP0260152: रमसे तदनिष्टं हि मम मातुर्वृषध्वज|| १५||
SP0260160: सनत्कुमार उवाच|
SP0260161: ततो देवः प्रहस्याह देवीं हासयितुं प्रभुः|
SP0260162: एवमेतन्न संदेहः कस्मान्मन्युरभूत्तव|| १६||
SP0260171: कृत्तिवासा ह्यवासा वा श्मशाननिलयश्च ह|
SP0260172: अनिकेतो ह्यरण्येषु पर्वतानां गुहासु च|
SP0260173: विचरामि गणैर्नग्नैर्वृतो ऽम्भोजविलोचने|| १७||
SP0260181: मा क्रुधो देवि मातुस्त्वं तथ्यं मातावदत्तव|
SP0260182: न हि मातृसमो बन्धुर्जन्तूनामस्ति शोभने|| १८||
SP0260190: देव्युवाच|
SP0260191: न मे ऽस्ति बन्धुभिः किंचित्कृत्यं सुरवरेश्वर|
SP0260192: तथा कुरु महादेव यथान्यत्र वसामहे|| १९||
SP0260200: सनत्कुमार उवाच|
SP0260201: स एवमुक्तो देवेशो देव्या देवेश्वरः प्रभुः|
SP0260202: पार्श्वस्थं गणपं प्राह निकुम्भं नाम विश्रुतम्|| २०||
SP0260211: गणेश्वर निकुम्भ त्वं गत्वा वाराणसीं शुभाम्|
SP0260212: शून्यां कुरु महाबाहो उपायेनैव मा बलात्|| २१||
SP0260221: तत्र राजा निवसति दिवोदासः प्रतापवान्|
SP0260222: धार्मिको मम भक्तश्च महायोगी महाबलः|| २२||
SP0260231: स त्वं तथा गतः कुर्या यथास्मै नापराध्यसे|
SP0260232: तस्यैव चापराधेन शून्यां वाराणसीं कुरु|| २३||
SP0260240: सनत्कुमार उवाच|
SP0260241: स एवमुक्तस्तेजस्वी निकुम्भो गणसत्तमः|
SP0260242: उवाच देवं प्रणतः प्राञ्जलिर्हृषिताननः|| २४||
SP0260251: तथा करिष्ये देवेश यथा स हि नराधिपः|
SP0260252: भविष्यत्यपराधीश त्वं च तुष्टो भविष्यसि|
SP0260253: शून्या वाराणसी चैव भविष्यति न संशयः|| २५||
SP0260260: सनत्कुमार उवाच|
SP0260261: एवमुक्त्वा निकुम्भो ऽसौ प्रणम्य शिरसा हरम्|
SP0260262: जगाम पुण्यां लोकेषु पुरीं वाराणसीं प्रभुः|| २६||
SP0260271: तत्रासौ दर्शनं स्वप्ने नापिताय ददौ गणः|
SP0260272: मण्डूकाक्षाय रूपं च स्वं तस्यादर्शयत्तदा|| २७||
SP0260280: निकुम्भ उवाच|
SP0260281: मण्डूकाक्ष निकुम्भो ऽहं गणपः शोकनाशनः|
SP0260282: तवानुग्रहकृत्प्राप्तो यद्ब्रवीमि कुरुष्व तत्|| २८||
SP0260291: दिवोदासगृहद्वारि कुरुष्व त्वं ममालयम्|
SP0260292: स्थापयस्व च तत्रार्चां मद्रूपसदृशीं शुभाम्|| २९||
SP0260301: वित्तं च ते प्रदास्यामि पुत्रान्सौभाग्यमेव च|
SP0260302: प्रियत्वं चैव सर्वत्र गतिं चानुत्तमां पुनः|| ३०||
SP0260310: सनत्कुमार उवाच|
SP0260311: एवमुक्तो निकुम्भेन नापितो नृपतिं तदा|
SP0260312: गत्वावदद्दिवोदासमिन्द्रवैवस्वतोपमम्|| ३१||
SP0260320: नापित उवाच|
SP0260321: स्वामिंस्तव गृहद्वारि करिष्ये गणपालयम्|
SP0260322: स्थापयिष्ये गणेशं च तन्मे ऽनुज्ञातुमर्हसि|| ३२||
SP0260331: तथेति सो ऽप्यनुज्ञातश्चक्रे तत्र तदालयम्|
SP0260332: प्रत्यस्थापयदर्चां च यादृशीं दृष्टवानसौ|| ३३||
SP0260341: तस्य पूजां च महतीं प्रावर्तयत शोभनाम्|
SP0260342: गणेशस्य महासत्त्वः स च तां प्रत्यगृह्णत|| ३४||
SP0260351: स तस्मै कर्मणा तेन वित्तं यद्यत्समीहितम्|
SP0260352: पशूंश्चैव हि पुत्रांश्च सौभाग्यं चाददत्प्रभुः|| ३५||
SP0260361: तस्य तां वृद्धिमतुलां नापितस्याभिवीक्ष्य तु|
SP0260362: आरिराधयिषुर्लोकस्तस्य पूजां चकार ह|| ३६||
SP0260371: चक्रुर्यात्रास्तथा केचिदुपवासांस्तथापरे|
SP0260372: होमं जप्यं तथैवान्ये पूजां चान्ये वरार्थिनः|
SP0260373: उपहारांस्तथैवान्ये गीतनृत्तं तथापरे|| ३७||
SP0260381: तेभ्यस्तथाभ्युपेतेभ्यो निकुम्भः स महायशाः|
SP0260382: ददौ सर्वानभिप्रायान्ये ये तेषामभीप्सिताः|| ३८||
SP0260391: एवं तं कामदं ज्ञात्वा दिवोदासो नृपस्तदा|
SP0260392: उवाच महिषीं व्यास कदाचित्पुत्रलिप्सया|| ३९||
SP0260401: देवि सर्वानभिप्रायाञ्जनेभ्यो ऽयं प्रयच्छति|
SP0260402: गणेश्वरं त्वमप्येनमपत्यार्थं प्रसादय|| ४०||
SP0260411: सैवमुक्ता तदा गत्वा गणेशं प्राप्य शोभना|
SP0260412: उवाच भगवन्देव अनपत्याहमीश्वर|| ४१||
SP0260421: उपवासं करिष्यामि तव देवाभिराधने|
SP0260422: तावन्न भोक्ष्ये यावन्मे वरो ऽदत्तस्त्वया प्रभो|| ४२||
SP0260431: जाते च पुत्रे दास्यामि शतानां दशतीर्दश|
SP0260432: त्वामुद्दिश्य द्विजातिभ्यो गोधेनूनां गणेश्वर|| ४३||
SP0260441: तथा घटसहस्रेण दध्नश्चैव घृतस्य च|
SP0260442: क्षीरस्य पञ्चगव्यस्य करिष्ये स्नपनं च ते|| ४४||
SP0260451: ब्राह्मणानां सहस्राणां शतं चापि सुपूजितम्|
SP0260452: पुरस्ताद्भोजयिष्ये ते पुत्रे जाते न संशयः|| ४५||
SP0260461: बहून्दास्यति राजा च ग्रामान्दास्यस्तथैव च|
SP0260462: सदा सत्त्रं च पूजां च करिष्यति तव प्रभो|| ४६||
SP0260470: सनत्कुमार उवाच|
SP0260471: सा तमुक्त्वा तथा व्यास तस्थौ नियममास्थिता|
SP0260472: सोपवासा तदा पूजां महतीं तस्य कुर्वती|| ४७||
SP0260481: तां तथा तिष्ठतीं देवः प्रोवाच स गणेश्वरः|
SP0260482: उत्तिष्ठ नास्ति ते पुत्रो मा खेदं त्वं वृथा कृथाः|| ४८||
SP0260491: एवं तेन गणेशेन निकुम्भेन महात्मना|
SP0260492: असकृत्प्रोच्यमाना सा नियमाद्विरराम ह|| ४९||
SP0260501: ततो नराधिपं देवी प्रोवाच विमना तदा|
SP0260502: आर्यपुत्र न मे पुत्रं गणपो ऽसौ प्रयच्छति|
SP0260503: ब्रवीति नास्ति ते पुत्रो मा वृथा नियमं कृथाः|| ५०||
SP0260510: सनत्कुमार उवाच|
SP0260511: एवं महिष्या स प्रोक्तः स्वयमेव नराधिपः|
SP0260512: सदा सनियमस्तस्थौ गणेशस्याग्रतो नृपः|| ५१||
SP0260521: तमप्युवाच नृपतिं निकुम्भो नियमस्थितम्|
SP0260522: मा स्था वृथेह नृपते न ते पुत्रं ददाम्यहम्|| ५२||
SP0260531: एवमुक्तः स राजेन्द्रो निकुम्भेन महाबलः|
SP0260532: क्रोधरक्तेक्षणः प्राह तमुत्थाय गणेश्वरम्|| ५३||
SP0260540: राजोवाच|
SP0260541: गणो वा त्वं पिशाचो वा भूतो वा राक्षसो ऽपि वा|
SP0260542: कृतघ्नस्त्वं न संदेहो न त्वं पूजामिहार्हसि|| ५४||
SP0260551: मम चैव गृहद्वारि पौरैश्चैव समर्चितः|
SP0260552: विषये मम वासी च न च पुत्रं प्रयच्छसि|| ५५||
SP0260561: पूजार्हो न भवांस्तस्मान्मत्तो दण्डं त्वमर्हसि|
SP0260562: नृशंसश्चावलिप्तश्च निष्ठुरो मत्सरान्वितः|| ५६||
SP0260571: ततो ऽस्य भेदयामास निलयं गजयूथपैः|
SP0260572: स्थण्डिलं च बभञ्जाशु ददाहार्चां च सुप्रभाम्|| ५७||
SP0260581: निकुम्भो ऽपि कृतार्थः सन्नाकाशे संस्थितः प्रभुः|
SP0260582: उवाच तं दिवोदासं प्रदहन्निव तेजसा|| ५८||
SP0260591: यथेष्टं सम्प्रयच्छन्ति देवा वरमभीप्सितम्|
SP0260592: न दत्तो यद्यसौ कोपः कस्तत्र भवतो ऽभवत्|| ५९||
SP0260601: यस्मान्ममालयो भग्नस्त्वया निरपकारिणः|
SP0260602: तस्माद्वर्षसहस्रं ते पुरी शून्या भविष्यति|| ६०||
SP0260610: सनत्कुमार उवाच|
SP0260611: स एवमुक्त्वा राजानं निकुम्भः परमात्मवान्|
SP0260612: देवेशाय निवेद्यैवं तस्थौ पार्श्वगतः प्रभोः|| ६१||
SP0260621: राजापि तस्य वाक्येन तथ्येनार्थेन चैव हि|
SP0260622: व्रीडां परां समासाद्य गृहानभ्यागमत्तदा|| ६२||
SP0260631: अथ सा तेन शापेन पुरी वाराणसी तदा|
SP0260632: शून्या समभवत्क्षिप्रं विशुद्धा मृगसेविता|| ६३||
SP0260641: तां तु शून्यां स विज्ञाय देव्या सह पिनाकधृक्|
SP0260642: सगणो नन्दिना सार्धमाजगाम महाद्युतिः|| ६४||
SP0260651: स तत्र मानसं दिव्यं विमानं सूर्यवर्चसम्|
SP0260652: अनौपम्यगुणं देवो मनसैवाभिनिर्मिमे|| ६५||
SP0260661: न मे प्रभवति प्रज्ञा कृत्स्नशस्तन्निरूपणे|
SP0260662: एतावच्छक्यते वक्तुमनौपम्यगुणं हि तत्|| ६६||
SP0260671: देवोद्यानानि रम्याणि नन्दनाद्यानि यानि तु|
SP0260672: तेभ्यः श्रेष्ठतमं श्रीमदुद्यानमसृजत्प्रभुः|| ६७||
SP0260681: तस्मिन्विमाने गिरिराजपुत्री सर्वर्द्धियुक्ते वचसामगम्ये|
SP0260682: रेमे नवेन्दीवरफुल्लनेत्रा देवी न सस्मार वचश्च मातुः|| ६८||
SP0269999: इति स्कन्दपुराणे षड्विंशो ऽध्यायः||