Skandapurāṇa Adhyāya 25
E-text generated on February 22, 2017 from the original TeX files of: Bakker, Hans T., and Harunaga Isaacson, eds. The Skandapurāṇa. Vol. IIA. Adhyāyas 26-31.14. The Vārāṇasī Cycle. Critical Edition with an Introduction, English Synopsis & Philological and Historical Commentary. Groningen: Egbert Forsten, 2005.
SP0250010: सनत्कुमार उवाच।
SP0250011: ततस्तत्रागतान्देवान्देवताधिपतिर्भवः।
SP0250012: मरुतः प्राह सम्पूज्य कन्यार्थं सदसत्पतिः॥ १॥
SP0250021: मरुतो ये महावेगा महासत्त्वा महौजसः।
SP0250022: आमन्त्र्य नाम्ना तानीशः सशक्रः सपितामहः॥ २॥
SP0250031: युष्माकं सुयशा कन्या सुभगा दिव्यरूपिणी।
SP0250032: दातुमर्हथ तां सुभ्रूं स्नुषां मह्यं महाबलाः॥ ३॥
SP0250040: मरुत ऊचुः।
SP0250041: त्वमस्माकं च तस्याश्च सर्वस्य जगतस्तथा।
SP0250042: प्रभविष्णुस्त्रिलोकेश न तु याचितुमर्हसि॥ ४॥
SP0250051: त्वयैव देया ग्राह्या च त्वं नो गतिरनुत्तमा।
SP0250052: मा नः परानिवेशान याचनेन विभावय। । ५। ।
SP0250061: पिता नः कश्यपः श्रीमान्मरीचिश्च पितामहः।
SP0250062: पितामहपिता ब्रह्मा तस्यापि त्वं पितामहः।
SP0250063: स त्वं पितामहो ऽस्माकं न परान्कर्तुमर्हसि। । ६। ।
SP0250071: स एवमुक्तो देवेशो मरुद्भिर्देवसत्तमैः।
SP0250072: सुयशां मरुतां कन्यामानयामास तत्क्षणात्। । ७। ।
SP0250081: स्वयं होतास्य तत्रासीद्ब्रह्मा लोकपितामहः।
SP0250082: कश्यपश्च तथोद्गाता अत्रिः साम स्वयं जगौ।
SP0250083: अथर्वाङ्गिरसौ देवौ ब्रह्मत्वमपि चक्रतुः। । ८। |
SP0250091: नारदः पर्वतश्चैव चित्रसेनश्च गायनः|
SP0250092: विश्वावसू रुचिश्चैव हाहा हूहू तथैव च|| ९||
SP0250101: तथा शालिशिरा यश्च विश्रुतो गण्डमण्डकः|
SP0250102: ईतिश्चैवेन्द्रवाहश्च यज्ञवाहो ऽथ दक्षिणः|
SP0250103: एते चान्ये च गन्धर्वा जगुर्मधुरकण्ठिनः|| १०||
SP0250111: उर्वशी चैव रम्भा च घृताची पूर्वचित्त्यपि|
SP0250112: तिलोत्तमा च विश्वाची अन्याश्चाप्सरसः शुभाः|
SP0250113: अनृत्यन्त महाभागा नृत्तं सुरमनोहरम्|| ११||
SP0250120: सनत्कुमार उवाच|
SP0250121: स एवमभवद्व्यास विवाहस्तस्य धीमतः|
SP0250122: नन्दिनो गणमुख्यस्य अनौपम्यो ह्यनिन्दितः|| १२||
SP0250131: ततः स तु कृतोद्वाहो नन्दी गत्वा महामनाः|
SP0250132: पादान्ववन्दे देवस्य देव्या ब्रह्मण एव च|
SP0250133: शिलादस्य च लोकेशः श्रिया परमया युतः|| १३||
SP0250140: देव उवाच|
SP0250141: वरं वृणीष्व पुत्र त्वं स्नुषा चेयं तव प्रिया|
SP0250142: वरं ददामि ते वत्स अनया सहमीप्सितम्|| १४||
SP0250150: नन्द्युवाच|
SP0250151: भगवन्यदि तुष्टो ऽसि त्वयि भक्तिर्दृढास्तु मे|
SP0250152: सदा च तुष्टो भव मे साम्बः सह गणेश्वरैः|| १५||
SP0250161: पितरं चैव मे देव उत्पादकमिमं प्रभो|
SP0250162: अनुग्रहेण युक्तेन योक्तुमर्हसि कामद|| १६||
SP0250170: देव उवाच|
SP0250171: सदाहं तव नन्दीश सुतुष्टः सगणेश्वरः|
SP0250172: पार्वत्या सहितो धीमन्निदं च शृणु मे वचः|| १७||
SP0250181: सदेष्टश्च वरिष्ठश्च परमैश्वर्यसंयुतः|
SP0250182: महायोगी महेष्वासो महाबलपराक्रमः|| १८||
SP0250191: अजय्यश्चैव जेता च पूज्येज्यश्च सदा भव|
SP0250192: अहं यत्र भवांस्तत्र यत्र त्वं तत्र चाप्यहम्|| १९||
SP0250201: अयं च ते पिता विप्रः परमैश्वर्यसंयुतः|
SP0250202: भविष्यति गणाध्यक्षो महागणपतिर्मम|| २०||
SP0250211: पर्वतं चास्य वैभ्राजं कामगं सर्वकाञ्चनम्|
SP0250212: उपेतं भवनैर्दिव्यैः प्रयच्छामि जनावृतम्|
SP0250213: तेनायं सर्वलोकेषु चरिष्यति यथेप्सितम्|| २१||
SP0250221: स्थानं श्रीपर्वते चास्य भविष्यति सुपूजितम्|
SP0250222: भृगौ तस्मिंश्च यः प्राणांस्त्यक्ष्यते वै सुधार्मिकः|
SP0250223: स कामचारी वैभ्राजे गणपो ऽस्य भविष्यति|| २२||
SP0250230: सनत्कुमार उवाच|
SP0250231: ततो देवी महाभागा शैलादेरददद्वरम्|
SP0250232: सो ऽब्रवीत्त्वयि भक्तिर्मे सदैवानपगा भवेत्|| २३||
SP0250241: ततो मरुत्सुता चैव उभाभ्यामपि चोदिता|
SP0250242: वरं वृणु यथेष्टं वै ताविदं प्रत्युवाच ह|| २४||
SP0250251: युवयोरस्तु भक्तिर्मे तथा भर्तरि चैव हि|
SP0250252: नित्यं चानपगा स्यान्मे धर्मे च मतिरुत्तमा|
SP0250253: एतदिच्छामि देवेशौ वरं वरसहस्रदौ|| २५||
SP0250260: सनत्कुमार उवाच|
SP0250261: ततस्तावेवमेतत्ते भवितेति शुचिस्मिते|
SP0250262: ऊचतुर्मुदितौ देवौ स्नुषां तां वरवर्णिनीम्|| २६||
SP0250271: गणाश्चास्य ततो ऽभ्येत्य सर्वे देवप्रियेप्सया|
SP0250272: वरं ददुर्महासत्त्वाः स वव्रे काञ्चनप्रभः|| २७||
SP0250281: युष्मासु मम भक्तिश्च ऐश्वर्यं चापि संमतम्|
SP0250282: वश्याश्च यूयं सर्वे मे प्रियो युष्माकमेव च|| २८||
SP0250290: गणा ऊचुः|
SP0250291: भवान्मन्तानुमन्ता च गतिरागतिरेव च|
SP0250292: अस्माकमीशः सर्वेषां देवानामपि चेश्वरः|| २९||
SP0250301: कुष्माण्डानां वरिष्ठश्च रुद्राणां त्वं महाबलः|
SP0250302: ईतीनां द्वारपालश्च प्रमथानां तथैव च|| ३०||
SP0250311: महाबलो महायोगी सेनानीस्त्वं हि नो मतः|
SP0250312: त्वं भूतो भूतनेता च नायको ऽथ विनायकः|| ३१||
SP0250321: ग्रहाणामधिपश्चैव उग्रदण्डधरस्तथा|
SP0250322: त्वमग्रयोधी शत्रुघ्नस्त्वं वीरस्त्वं दिवस्पतिः|| ३२||
SP0250331: महानुभावस्त्वं चैव क्षीरोदनिलयश्च ह|
SP0250332: जप्येश्वरनिकेतश्च जप्येश्वरविभावितः|| ३३||
SP0250341: भावनः सर्वभूतानां वरदो वरदार्चितः|
SP0250342: अस्माकं वरदश्चैव भव भूतेश्वर प्रभो|| ३४||
SP0250350: सनत्कुमार उवाच|
SP0250351: स एवं गणपैः सर्वैः स्तुतो नन्दीश्वरो विभुः|
SP0250352: उवाच प्रणतः सर्वान्ब्रूत किं करवाणि वः|| ३५||
SP0250361: त एवमुक्ता गणपाः सर्व एव महाबलाः|
SP0250362: ऊचुस्तं दिव्यभावज्ञा देवदेवस्य संनिधौ|| ३६||
SP0250371: त्वमस्माकं गणाध्यक्षः कृतो देवेन शम्भुना|
SP0250372: अस्माभिश्चाभिषिक्तस्त्वं नायको धर्मदायकः|| ३७||
SP0250381: स त्वं शिवश्च सौम्यश्च गुणवानगुणेष्वपि|
SP0250382: क्षमाशौचदमोपेतो भव नः प्रियकृत्सदा|| ३८||
SP0250390: सनत्कुमार उवाच|
SP0250391: एवमुक्तस्तदा सर्वान्प्रणम्य बहुमानतः|
SP0250392: शिरस्यञ्जलिमाधाय गणपानस्तुवत्तदा|| ३९||
SP0250400: नन्द्युवाच|
SP0250401: नमो वः सर्वभूतेभ्यो नमो योगिभ्य एव च|
SP0250402: नमश्चाप्यनिकेतेभ्यो योगीशेभ्यो नमस्तथा|| ४०||
SP0250411: नमः कामचरेभ्यश्च नम उग्रेभ्य एव च|
SP0250412: मृत्युभ्यश्च यमेभ्यश्च कालेभ्यश्च नमो नमः|| ४१||
SP0250421: नमः काञ्चनमालेभ्यः सर्वधर्मिभ्य एव च|
SP0250422: नमो वो वधकेभ्यश्च अवध्येभ्यस्तथैव च|| ४२||
SP0250431: नमः परमयोगिभ्यो जटिभ्यश्च नमो नमः|
SP0250432: नमो वो ऽदृश्यरूपेभ्यो विकृतेभ्यस्तथैव च|| ४३||
SP0250441: नमो वल्कलवासेभ्यः कृत्तिवासेभ्य एव च|
SP0250442: नमः श्वेताम्बरस्रग्भ्यश्चित्रस्रग्भ्यो नमो नमः|| ४४||
SP0250451: धावद्भ्यश्च द्रवद्भ्यश्च प्रस्थितेभ्यो नमो नमः|
SP0250452: नमो मुनिभ्यो गायद्भ्यो जपद्भ्यश्च नमो नमः|| ४५||
SP0250461: नमः शरभरूपेभ्यः शतरूपेभ्य एव च|
SP0250462: नमः पर्वतवासेभ्यो व्याघ्ररूपेभ्य एव च|| ४६||
SP0250471: नमो मार्जाररूपेभ्यः काककोकेभ्य एव च|
SP0250472: नमो दैवतरूपेभ्यः पवनेभ्यस्तथैव च|| ४७||
SP0250481: नमो ऽग्निभ्यस्तथाद्भ्यश्च वरुणेभ्यस्तथैव च|
SP0250482: नमो धनेशरूपेभ्यः सर्वरूपिभ्य एव च|| ४८||
SP0250491: नमश्चोदरवक्त्रेभ्यः सर्ववक्त्रेभ्य एव च|
SP0250492: नमो वामनरूपेभ्यो वामरूपेभ्य एव च|| ४९||
SP0250501: देवासुरमनुष्याणामाप्यायिभ्यो नमो नमः|
SP0250502: नमो वः सर्वभूतानां नमो वः सर्वतः शुभाः|| ५०||
SP0250511: ग्रहेभ्यश्च नमो वो ऽस्तु मोक्षेभ्यश्च नमस्तथा|
SP0250512: शुभेभ्यश्च नमो वो ऽस्तु अशुभेभ्यस्तथैव च|
SP0250513: मम सौम्याः शिवाश्चैव भवन्तु गणनायकाः|| ५१||
SP0250521: इति स्तुता गणपतयो महाबलाः शुभैर्वचोभिः सुरशत्रुनाशनाः|
SP0250522: दिशन्तु मे सुखमतुलं सुखप्रदा बलं च वीर्यं स्थिरतां च संयुगे|| ५२||
SP0250531: तपो ऽक्षयं स्थानमथातुलां गतिं यशस्तथाग्र्यं बहु धर्मनित्यताम्|
SP0250532: दिशन्तु सर्वं मनसेप्सितं च मे सुरेश्वराः पुष्टिमनुत्तमां तथा|| ५३||
SP0250540: सनत्कुमार उवाच|
SP0250541: इमौ नन्दिगणेन्द्राणां स्तवौ यो ऽध्येति नित्यशः|
SP0250542: सो ऽश्वमेधावभृथवत्सर्वपापैः प्रमुच्यते|| ५४||
SP0250551: सन्ध्यायामपरस्यां तु जपन्पापं दिवाकृतम्|
SP0250552: पूर्वस्यां संत्यजेद्वापि सर्वरात्रिकृतं जपन्|| ५५||
SP0250560: सनत्कुमार उवाच|
SP0250561: ततस्ते गणपाः सर्वे संस्तुतास्तेन धीमता|
SP0250562: निसृष्टाश्च तदा जग्मुः प्रणिपत्य वृषध्वजम्|| ५६||
SP0250571: देवाश्च सर्वलोकाश्च ततो देवः स्वयं प्रभुः|
SP0250572: सृष्ट्वा नन्दीश्वरगृहं प्रदाय च महामनाः|
SP0250573: ईप्सितं सह देव्या वै जगाम स्थानमव्ययम्|| ५७||
SP0250581: य इमं नन्दिनो जन्म वरदानं तथैव च|
SP0250582: अभिषेकं विवाहं च पठेद्वा श्रावयीत वा|
SP0250583: ब्राह्मणः स मृतो याति नन्दीश्वरसलोकताम्|| ५८||
SP0250591: यो नियतस्तु पठेत्प्रयतात्मा सर्वमिमं प्रणतो भवभक्त्या|
SP0250592: सो ऽपि गतः परलोकविचारी नन्दिसमो ऽनुचरो हि मम स्यात्|| ५९||
SP0259999: इति स्कन्दपुराणे पञ्चविंशतिमो ऽध्यायः||