Skandapurāṇa Adhyāya 19
E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.
SP0190010: सनत्कुमार उवाच।
SP0190011: एवं तव पिता व्यास रक्षःसत्त्रं समाहरत्।
SP0190012: समापयित्वा च पुनस्तपस्तेपे च भास्वरम्॥ १॥
SP0190021: तमागत्य वसिष्ठस्तु तपसा भास्करद्युतिम्।
SP0190022: उवाच प्रीतिसम्पन्नमिदमर्थवदव्ययः॥ २॥
SP0190030: वसिष्ठ उवाच।
SP0190031: पितरः पुत्रकामा वै तपः कृत्वातिदुश्चरम्।
SP0190032: पुत्रमुत्पादयन्ति स्म तपोज्ञानसमन्वितम्॥ ३॥
SP0190041: अयं नः संततिं चैव ज्ञानवांस्तपसान्वितः।
SP0190042: करिष्यति गतिं चैव इति वेदविदो विदुः॥ ४॥
SP0190051: स त्वं तपोन्वितश्चैव ज्ञानवान्यशसान्वितः।
SP0190052: पुत्रः पुत्रवतां श्रेष्ठो विहीनः प्रजया विभो॥ ५॥
SP0190061: तस्मात्पितॄणामानृण्यं गच्छ व्रतवतां वर।
SP0190062: सुतमुत्पादय क्षिप्रमधिकं सममेव वा॥ ६॥
SP0190070: सनत्कुमार उवाच।
SP0190071: स एवमुक्तस्तेजस्वी वसिष्ठेनामितात्मना।
SP0190072: मैनाकं पर्वतं प्राप्य तपस्तेपे सुदुश्चरम्॥ ७॥
SP0190081: तस्य कालेन महता तपसा भावितस्य तु।
SP0190082: उमापतिर्वरं प्रादात्स च वव्रे सुतं शुभम्॥ ८॥
SP0190091: स लब्धवर आगम्य ययाचे पुत्रकारणात्।
SP0190092: क्षेत्रं सुपरिशुद्धं च स्वपुत्रो यत्र सम्भवेत्॥ ९॥
SP0190101: सम्भ्रमन्दाशराजस्य दुहितृत्वमुपागताम्।
SP0190102: पितृकन्यां ततः कालीमपश्यद्दिव्यरूपिणीम्॥ १०॥
SP0190111: मत्सीगर्भसमुत्पन्नां वसोर्बीजाशनात्पुरा।
SP0190112: अद्रिकामप्सरःश्रेष्ठां ब्रह्मतेजोमयीं शुभाम्॥ ११॥
SP0190121: तस्यां स जनयामास वरं दत्त्वा महातपाः।
SP0190122: भवन्तं तपसां योनिं श्रौतस्मार्तप्रवर्तकम्॥ १२॥
SP0190131: तव पुत्रो ऽभवच्चापि शुको योगविदां वरः।
SP0190132: तस्य पुत्राश्च चत्वारः कन्या चैका सुमध्यमा॥ १३॥
SP0190140: व्यास उवाच।
SP0190141: कथं वैरं समभवद्विश्वामित्रवसिष्ठयोः।
SP0190142: कथं चापगतं भूय एतदिच्छामि वेदितुम्॥ १४॥
SP0190150: सनत्कुमार उवाच।
SP0190151: पराशरे तु गर्भस्थे विप्रत्वं गाधिजे गते।
SP0190152: सरस्वत्यां कुरुक्षेत्रे द्वयोरप्याश्रमौ तयोः॥ १५॥
SP0190161: तत्र वैरमनुस्मृत्य विश्वामित्रेण धीमता।
SP0190162: मिषतस्तु वसिष्ठस्य हतं पुत्रशतं रुषा॥ १६॥
SP0190171: मुनिरप्याह तत्रासौ विश्वामित्रः प्रतापवान्।
SP0190172: सरस्वतीमथैकान्ते वसिष्ठं मे महापगे।
SP0190173: स्रोतसा महताक्षिप्य स्नायमानमिहानय॥ १७॥
SP0190181: सैवमुक्ता तु तं गत्वा वसिष्ठं प्राह दुःखिता।
SP0190182: यदुक्तवांस्तु गाधेयः स चोवाच महानदीम्॥ १८॥
SP0190191: एवं कुरु महाभागे मां नयस्व यथेप्सितम्।
SP0190192: मा ते क्रूरः स गाधेयः शापं दद्यात्सुदुस्तरम्॥ १९॥
SP0190200: सनत्कुमार उवाच।
SP0190201: गाधेयस्य ततः सा तु जुह्वतो ऽग्निं दिवाकरे।
SP0190202: मध्यं प्राप्ते ऽनयद्वेगाद्वसिष्ठं स्रोतसा शुभा॥ २०॥
SP0190211: तं दृष्ट्वापहृतं व्यास स्रोतसा मुनिसत्तमम्।
SP0190212: उवाच च्छद्मना यस्माद्वेगेनापहृतस्त्वया।
SP0190213: तस्मात्त्वं कर्मणानेन सासृक्तोया भविष्यसि। । २१। ।
SP0190221: विश्वामित्रेण सा शप्ता नदी लोकसुखप्रदा।
SP0190222: अवहद्रुधिरं चैव मांसमेदस्तथैव च। । २२। ।
SP0190231: अथ तीर्थप्रसङ्गेन मुनिभिः समुपागतैः।
SP0190232: अनुग्रहः कृतस्तस्या येन स्वच्छजलाभवत्। । २३। ।
SP0190241: महतस्तपसः शक्त्या कालेन महता तदा।
SP0190242: वसिष्ठस्य च तां क्षान्तिं ज्ञात्वा स ऋषिपुंगवः। । २४||
SP0190251: विश्वामित्रो महातेजा वसिष्ठे वैरमत्यजत्|
SP0190252: एवं तौ वैरमन्योन्यं जहतुर्मुनिसत्तमौ|| २५||
SP0190260: सनत्कुमार उवाच|
SP0190261: य इमं शृणुयान्नित्यं ब्राह्मणाञ्छ्रावयीत वा|
SP0190262: स दुस्तराणि दुर्गाणि तरत्यश्रान्तपौरुषः|| २६||
SP0190271: ह्रीपौरुषौदार्यविहारसत्त्वैः समन्वितः सोज्ज्वलचारुवेषः|
SP0190272: भवेच्च सर्वामरराजतुल्यस्त्रिपिष्टपे क्रीडति चेच्छया स्वयम्|| २७||
SP0190281: एवं तदभवद्व्यास विश्वामित्रवसिष्ठयोः|
SP0190282: वैरं समाप्तं लोकानां हितार्थं पुनरेव च|| २८||
SP0199999: इति स्कन्दपुराणे ऊनविंशतितमो ऽध्यायः||