०१८

Skandapurāṇa Adhyāya 18

E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.

SP0180010: सनत्कुमार उवाच।
SP0180011: ततः स राजा स्वं राज्यमुत्सृज्य सह भार्यया।
SP0180012: वनं विवेश तत्राभूत्पुरुषादो महाबलः॥ १॥
SP0180021: सो ऽभक्षयत तत्राग्रे शक्तिमेव महामुनिम्।
SP0180022: ततो भ्रातृशतं तस्य वसिष्ठस्यैव पश्यतः॥ २॥
SP0180031: ततः पुत्रवधं घोरं दृष्ट्वा ब्रह्मसुतः प्रभुः।
SP0180032: नोत्ससर्ज तदा क्रोधं वसिष्ठः कौशिकं प्रति।
SP0180033: पुत्रशोकेन महता भृशमेवान्वकीर्यत॥ ३॥
SP0180041: स बद्ध्वा महतीं कण्ठे शिलां ब्रह्मसुतः प्रभुः।
SP0180042: नद्यामात्मानमुत्सृज्य शतधा साद्रवद्भयात्।
SP0180043: शतद्रूरिति तां प्राहुर्मुनयः संशितव्रताः॥ ४॥
SP0180051: पुनः पाशैर्दृढैर्बद्ध्वा अन्यस्यामसृजद्वशी।
SP0180052: तस्यां विपाशः संवृत्तो विपाशा साभवत्ततः॥ ५॥
SP0180061: ततो ऽटवीं समासाद्य निराहारो जितेन्द्रियः।
SP0180062: वायुभक्षस्तदा तस्थौ स्वं देहं परितापयन्॥ ६॥
SP0180071: अथ शुश्राव वेदानां ध्वनिमेकस्य सुस्वरम्।
SP0180072: अधीयानस्य तत्राशु ध्यानमेवान्वपद्यत॥ ७॥
SP0180081: अथैनं चारुसर्वाङ्गी पीनोन्नतपयोधरा।
SP0180082: उपतस्थे ऽग्रतः पत्नी शक्तेर्दीनाननेक्षणा॥ ८॥
SP0180091: तामुवाच कुतस्त्वं वै कस्यैष श्रूयते ध्वनिः।
SP0180092: सोवाच दीनया वाचा रुदती श्वशुरं तदा॥ ९॥
SP0180100: अदृश्यन्त्युवाच।
SP0180101: यदैव सुतदुःखेन निर्गतो ऽस्याश्रमाद्गुरो।
SP0180102: तदाप्रभृत्येवादृश्या भगवन्तमनुव्रता॥ १०॥
SP0180111: अधीयानस्य चैवायं ध्वनिः पुत्रस्य ते विभो।
SP0180112: उदरस्थस्य ते सूनोर्मा दुःखे त्वं मनः कृथाः॥ ११॥
SP0180120: सनत्कुमार उवाच।
SP0180121: इदानीमस्ति मे वत्से जीविताशेति सो ऽब्रवीत्।
SP0180122: क्षान्तिं धृतिं च संस्थित्य प्रययावाश्रमं मुनिः॥ १२॥
SP0180131: तदाश्रमपदं गच्छन्पथि राजानमैक्षत।
SP0180132: वसारुधिरदिग्धाङ्गं सौदासं रक्तलोचनम्॥ १३॥
SP0180141: अभिद्रवन्तं वेगेन मन्त्रैरस्तम्भयन्मुनिः।
SP0180142: ततो ऽस्य निर्गतः कायाद्रक्षः परमदारुणः॥ १४॥
SP0180151: उवाच चैनं दुष्टात्मन्दहेयं त्वां सबान्धवम्।
SP0180152: दग्धेन च त्वया किं मे गच्छ मुक्तो ऽसि दुर्मते॥ १५॥
SP0180161: ततः स मुक्तो दीनात्मा राक्षसः क्रूरकर्मकृत्।
SP0180162: प्रणम्य शिरसा भीतो जगाम कुशिकान्तिकम्॥ १६॥
SP0180171: गते निशाचरे राजा प्रणम्य शिरसा मुनिम्।
SP0180172: प्रसादयामास तदा स चोवाचेदमर्थवत्॥ १७॥
SP0180181: न दोषस्तव राजेन्द्र रक्षसाधिष्ठितस्य वै।
SP0180182: कृतान्तेन हताः पुत्रा निमित्तं तत्र राक्षसः॥ १८॥
SP0180191: प्रशाधि राज्यं राजेन्द्र पितृपैतामहं विभो।
SP0180192: ब्रूहि किं वा प्रियं ते ऽद्य करोमि नरपुंगव॥ १९॥
SP0180200: राजोवाच।
SP0180201: इच्छामि भगवन्पुत्रं त्वयोत्पादितमच्युत।
SP0180202: देव्यामस्यां महासत्त्वं तत्कुरुष्व मम प्रियम्॥ २०॥
SP0180210: सनत्कुमार उवाच।
SP0180211: एवमस्त्वित्यथोक्त्वासौ तस्यां पत्न्यां महाव्रतः।
SP0180212: पुत्रं च शोणकं नाम जनयामास निर्वृतः॥ २१। ।
SP0180221: तं शोणकं ततो राज्ये स्वं पुत्रमभिषिच्य सः।
SP0180222: जगाम वनमेवाशु सभार्यस्तपसि स्थितः। । २२। ।
SP0180231: वसिष्ठस्यापि कालेन शक्तेः पुत्रः प्रतापवान्।
SP0180232: अदृश्यन्त्यां समभवत्पुत्रो नाम्ना पराशरः। । २३। ।
SP0180241: वसिष्ठं तु तदा धीमांस्तातमेवाभ्यमन्यत।
SP0180242: तात तातेति च मुहुर्व्याजहार पितुर्गुरुम्। । २४। ।
SP0180251: ततः कदाचिद्विज्ञाय भक्षितं रक्षसा शुचिम्।
SP0180252: पितरं तपसा मन्त्रैरीजे रक्षःक्रतौ तदा। । २५। ।
SP0180261: तत्र कोटीः स पञ्चाशद्रक्षसां क्रूरकर्मणाम्।
SP0180262: जुहावाग्नौ महातेजास्ततो ब्रह्माभ्यगाद्द्रुतम्। | २६|| SP0180271: सुतमभ्येत्य सम्पूज्य वसिष्ठसहितः प्रभुः| SP0180272: ऋषिभिर्दैवतैश्चैव इदमाह पराशरम्|| २७|| SP0180280: ब्रह्मोवाच| SP0180281: †देवतास्ते पतन्ति स्म यज्ञैर्मन्त्रपुरस्कृतैः| SP0180282: अष्टमं स्थानमेतद्धि देवानामाद्यमीदृशम्†|| २८|| SP0180290: पराशर उवाच| SP0180291: सह देवैरहं सर्वांल् लोकान्धक्ष्यामि पावकैः| SP0180292: दग्ध्वान्यान्प्रथयिष्यामि तत्र लोकान्न संशयः|| २९|| SP0180300: सनत्कुमार उवाच| SP0180301: तस्यैवं गर्वितं वाक्यं श्रुत्वा देवः पितामहः| SP0180302: उवाच श्लक्ष्णया वाचा सान्त्वयंस्तमिदं वचः|| ३०|| SP0180310: पितामह उवाच| SP0180311: कृतमेतन्न संदेहो यथा ब्रूषे महामते| SP0180312: क्षन्तव्यं सर्वमेतत्तु अस्मत्प्रियचिकीर्षया|| ३१|| SP0180321: यैस्ते पिता महाभाग भक्षितः सह सोदरैः| SP0180322: त एवाग्नौ च होतव्या विश्वामित्रस्य पश्यतः| SP0180323: अन्येषां स्वस्ति सर्वत्र देवानां सह राक्षसैः|| ३२|| SP0180331: †तस्य संकल्पसंतप्तो मन्युमूलमुदाहरत्| SP0180332: वसिष्ठस्य महाभाग त्वं निवारय पुत्रक†|| ३३|| SP0180341: देवाः प्राञ्जलयः सर्वे प्रणेमुस्ते महामुनिम्| SP0180342: ऋषयश्चैव ते सर्वे वाग्भिस्तुष्टुविरे तदा|| ३४|| SP0180351: ततस्तेषां महातेजा वचांसि प्रत्यपूजयत्| SP0180352: विश्वामित्रस्य मिषत इदं प्रोवाच सुस्वरम्|| ३५|| SP0180361: य एषां ब्राह्मणो वापि क्षत्रियो वा दुरात्मवान्| SP0180362: रक्षसां पक्षमास्थाय प्रतीकारं करिष्यति|| ३६|| SP0180371: तमप्यत्रापि संक्रुद्धस्तपोयोगबलान्वितः| SP0180372: विहत्य तपसो योगाद्धोष्ये दीप्ते विभावसौ|| ३७|| SP0180380: सनत्कुमार उवाच| SP0180381: ततो देवाः सगन्धर्वाः पितामहपुरःसराः| SP0180382: प्रभावं तस्य तं ज्ञात्वा पराशरमपूजयन्|| ३८|| SP0180391: हुतेषु च ततस्तेषु राक्षसेषु दुरात्मसु| SP0180392: संजहार ततः सत्त्रं ब्रह्मणो ऽनुमते तदा|| ३९|| SP0180400: सनत्कुमार उवाच| SP0180401: य इमं श्राद्धकाले वा दैवे कर्मणि वा द्विजान्| SP0180402: श्रावयीत शुचिर्भूत्वा न तं हिंसन्ति राक्षसाः|| ४०|| SP0180411: पराशरस्येदमदीनसम्भवं विशुद्धवाक्कर्मविधानसम्भवम्| SP0180412: निशाम्य विप्रः कुलसिद्धिसम्भवं न राक्षसं गच्छति योनिसम्भवम्|| ४१|| SP0189999: इति स्कन्दपुराणे ऽष्टादशमो ऽध्यायः||