०१०

Skandapurāṇa Adhyāya 10

E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.

SP0100010: सनत्कुमार उवाच।
SP0100011: सा देवी त्र्यम्बकप्रोक्ता तताप सुचिरं तपः।
SP0100012: निराहारा कदाचिच्च एकपर्णाशना पुनः।
SP0100013: वाय्वाहारा पुनश्चापि अब्भक्षा भूय एव च॥ १॥
SP0100021: तां तपश्चरणे युक्तां ब्रह्मा ज्ञात्वातिभास्वराम्।
SP0100022: उवाच ब्रूहि तुष्टो ऽस्मि देवि किं करवाणि ते॥ २॥
SP0100031: साब्रवीत् त्र्यम्बकं देवं पतिं प्राप्येन्दुवर्चसम्।
SP0100032: विचरेयं सुखं देव सर्वअंल् लोकान्नमस्तव॥ ३॥
SP0100040: ब्रह्मोवाच।
SP0100041: न हि येन शरीरेण क्रियते परमं तपः।
SP0100042: तेनैव परमेशो ऽसौ पतिः शम्भुरवाप्यते॥ ४॥
SP0100051: तस्माद्धि योगाद्भवती दक्षस्येह प्रजापतेः।
SP0100052: जायस्व दुहिता भूत्वा पतिं रुद्रमवाप्स्यसि॥ ५॥
SP0100061: ततः सा तद्वचः श्रुत्वा योगाद्देवी मनस्विनी।
SP0100062: दक्षस्य दुहिता जज्ञे सती नामातियोगिनी॥ ६॥
SP0100071: तां दक्षस्त्र्यम्बकायैव ददौ भार्यामनिन्दिताम्।
SP0100072: ब्रह्मणो वचनाद्यस्यां मानसानसृजत्सुतान्॥ ७॥
SP0100081: आत्मतुल्यबलान्दीप्ताञ्जरामरणवर्जितान्।
SP0100082: अनेकानि सहस्राणि रुद्राणाममितौजसाम्॥ ८॥
SP0100091: तान्दृष्ट्वा सृज्यमानांश्च ब्रह्मा तं प्रत्यषेधयत्।
SP0100092: मा स्राक्षीर्देवदेवेश प्रजा मृत्युविवर्जिताः॥ ९॥
SP0100101: अन्याः सृजस्व भद्रं ते प्रजा मृत्युसमन्विताः।
SP0100102: तेन चोक्तं स्थितो ऽस्मीति स्थाणुस्तेन ततः स्मृतः॥ १०॥
SP0100110: देव उवाच।
SP0100111: न स्रक्ष्ये मृत्युसंयुक्ताः प्रजा ब्रह्मन्कथंचन।
SP0100112: स्थितो ऽस्मि वचनात्ते ऽद्य वक्तव्यो नास्मि ते पुनः॥ ११॥
SP0100121: ये त्विमे मानसाः सृष्टा महात्मानो महाबलाः।
SP0100122: चरिष्यन्ति मया सार्धं सर्व एते हि याज्ञिकाः॥ १२॥
SP0100130: सनत्कुमार उवाच।
SP0100131: अथ काले गते व्यास स दक्षः शापकारणात्।
SP0100132: अन्यानाहूय जामातॄन्सदारानर्चयद्गृहे॥ १३॥
SP0100141: सतीं सह त्र्यम्बकेन नाजुहाव रुषान्वितः।
SP0100142: सती ज्ञात्वा तु तत्सर्वं गत्वा पितरमब्रवीत्॥ १४॥
SP0100151: अहं ज्येष्ठा वरिष्ठा च जामात्रा सह सुव्रत।
SP0100152: मां हित्वा नार्हसे ह्येताः सह भर्तृभिरर्चितुम्॥ १५॥
SP0100161: क्रोधेनाथ समाविष्टः स क्रोधोपहतेन्द्रियः।
SP0100162: निरीक्ष्य प्राब्रवीद्दक्षश्चक्षुषा निर्दहन्निव॥ १६॥
SP0100171: मामेताः सति सस्नेहाः पूजयन्ति सभर्तृकाः।
SP0100172: न त्वं तथा पूजयसे सह भर्त्रा महाव्रते॥ १७॥
SP0100181: गृहांश्च मे सपत्नीकाः प्रविशन्ति तपोधनाः।
SP0100182: श्रेष्ठांस्तस्मात्सदा मन्ये ततस्तानर्चयाम्यहम्॥ १८॥
SP0100191: तस्माद्यत्ते करोम्यद्य शुभं वा यदि वाशुभम्।
SP0100192: पूजां गृहाण तां पुत्रि गच्छ वा यत्र रोचते॥ १९॥
SP0100200: सनत्कुमार उवाच।
SP0100201: ततः सा क्रोधदीप्तास्या न जग्राहातिकोपिता।
SP0100202: पूजामसंमतां हीनामिदं चोवाच तं शुभा॥ २०॥
SP0100211: यस्मादसंमतामेतां पूजां त्वं कुरुषे मयि।
SP0100212: श्लाघ्यां चैवाप्यदुष्टां च श्रेष्ठां मां गर्हसे पितः॥ २१॥
SP0100221: तस्मादिमं स्वकं देहं त्यजाम्येषा तवात्मजा।
SP0100222: असत्कृतायाः किं मे ऽद्य जीवितेनाशुभेन ह॥ २२॥
SP0100230: सनत्कुमार उवाच।
SP0100231: ततः कृत्वा नमस्कारं मनसा त्र्यम्बकाय ह।
SP0100232: उवाचेदं सुसंरब्धा वचनं वचनारणिः॥ २३॥
SP0100241: यत्राहमुपपद्येयं पुनर्देहे स्वयेच्छया।
SP0100242: एवं तत्राप्यसंमूढा सम्भूता धार्मिका सती।
SP0100243: गच्छेयं धर्मपत्नीत्वं त्र्यम्बकस्यैव धीमतः॥ २४॥
SP0100251: ततः सा धारणां कृत्वा आग्नेयीं सहसा सती।
SP0100252: ददाह वै स्वकं देहं स्वसमुत्थेन वह्निना॥ २५॥
SP0100261: तां ज्ञात्वा त्र्यम्बको देवीं तथाभूतां महायशाः।
SP0100262: उवाच दक्षं संगम्य इदं वचनकोविदः॥ २६॥
SP0100271: यस्मात्ते निन्दितश्चाहं प्रशस्ताश्चेतरे पृथक्।
SP0100272: जामातरः सपत्नीकास्तस्माद्वैवस्वते ऽन्तरे।
SP0100273: उत्पत्स्यन्ते पुनर्यज्ञे तव जामातरस्त्विमे॥ २७॥
SP0100281: त्वं चैव मम शापेन क्षत्रियो भविता नृपः।
SP0100282: प्रचेतसां सुतश्चैव कन्यायां शाखिनां पुनः।
SP0100283: धर्मविघ्नं च ते तत्र करिष्ये क्रूरकर्मणः॥ २८॥
SP0100290: सनत्कुमार उवाच।
SP0100291: तमुवाच तदा दक्षो दूयता हृदयेन वै।
SP0100292: मया यदि सुता स्वा वै प्रोक्ता त्यक्तापि वा पुनः।
SP0100293: किं तवात्र कृतं देव अहं तस्याः प्रभुः सदा॥ २९॥
SP0100301: यस्मात्त्वं मामभ्यशपस्तस्मात्त्वमपि शंकर।
SP0100302: भूर्लोके वत्स्यसे नित्यं न स्वर्लोके कदाचन॥ ३०॥
SP0100311: भागं च तव यज्ञेषु दत्त्वा सर्वे द्विजातयः।
SP0100312: अपः स्प्रक्ष्यन्ति सर्वत्र महादेव महाद्युते॥ ३१॥
SP0100320: सनत्कुमार उवाच।
SP0100321: ततः स देवः प्रहसंस्तमुवाच त्रिलोचनः।
SP0100322: सर्वेषामेव लोकानां मूलं भूर्लोक उच्यते॥ ३२॥
SP0100331: तमहं धारयाम्येको लोकानां हितकाम्यया।
SP0100332: भूर्लोके हि धृते लोकाः सर्वे तिष्ठन्ति शाश्वताः।
SP0100333: तस्मात्तिष्ठाम्यहं नित्यमिहैव न तवाज्ञया॥ ३३॥
SP0100341: भागान्दत्त्वा तथान्येभ्यो दित्सवो मे द्विजातयः।
SP0100342: अपः स्पृशन्ति शुद्ध्यर्थं भागं यच्छन्ति मे ततः।
SP0100343: दत्त्वा स्पृशन्ति भूयश्च धर्मस्यैवाभिवृद्धये॥ ३४॥
SP0100351: यथा हि देवनिर्माल्यं शुचयो धारयन्त्युत।
SP0100352: अशुचिं स्प्रष्टुकामाश्च त्यक्त्वापः संस्पृशन्ति च॥ ३५॥
SP0100361: देवानामेवमन्येषां दित्सवो ब्राह्मणर्षभाः।
SP0100362: भागानपः स्पृशन्ति स्म तत्र का परिदेवना॥ ३६॥
SP0100371: त्वं तु मच्छापनिर्दग्धो विपरीतो नराधमः।
SP0100372: स्वस्यां सुतायां मूढात्मा पुत्रमुत्पादयिष्यसि॥ ३७॥
SP0100380: सनत्कुमार उवाच।
SP0100381: एवं स भगवाञ्छप्त्वा दक्षं देवो जगत्पतिः।
SP0100382: विरराम महातेजा जगाम च यथागतम्॥ ३८॥
SP0100391: चन्द्रदिवाकरवह्निसमाक्षं चन्द्रनिभाननपद्मदलाक्षम्।
SP0100392: गोवृषवाहममेयगुणौघं सततमिहेन्दुवहं प्रणताः स्मः॥ ३९॥
SP0100401: य इमं दक्षशापाङ्कं देव्याश्चैवाशरीरताम्।
SP0100402: शृणुयाद्वाथ विप्रान्वा श्रावयीत यतव्रतः।
SP0100403: सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्॥ ४०॥
SP0109999: इति स्कन्दपुराणे दशमो ऽध्यायः॥