००७

Skandapurāṇa Adhyāya 7

E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.

SP0070010: वायुरुवाच।
SP0070011: ब्रह्मलोकं समासाद्य भगवान्सर्वलोकपः।
SP0070012: भैक्ष्यं भैक्ष्यमिति प्रोच्य द्वारे समवतिष्ठत॥ १॥
SP0070021: तं दृष्ट्वा विकृतं ब्रह्मा कपालकरभूषणम्।
SP0070022: ज्ञात्वा योगेन महता तुष्टाव भुवनेश्वरम्॥ २॥
SP0070031: तस्य तुष्टस्तदा देवो वरदो ऽस्मीत्यभाषत।
SP0070032: वृणीष्व वरमव्यग्रो यस्ते मनसि वर्तते॥ ३॥
SP0070040: ब्रह्मोवाच।
SP0070041: इच्छामि देवदेवेश त्वया चिह्नमिदं कृतम्।
SP0070042: येन चिह्नेन लोको ऽयं चिह्नितः स्याज्जगत्पते॥ ४॥
SP0070051: तस्य तद्वचनं श्रुत्वा भगवान्वदतां वरः।
SP0070052: सर्वश्रुतिमयं ब्रह्म ओमिति व्याजहार ह॥ ५॥
SP0070061: शम्भोर्व्याहारमात्रेण वागियं दिव्यरूपिणी।
SP0070062: निःसृता वदनाद्देवी प्रह्वा समवतिष्ठत॥ ६॥
SP0070071: तामुवाच तदा देवो वाचा संजीवयन्निव।
SP0070072: यस्मात्त्वमक्षरो भूत्वा मम वाचो विनिःसृता।
SP0070073: सर्वविद्याधिदेवी त्वं तस्माद्देवि भविष्यसि॥ ७॥
SP0070081: यस्माद्ब्रह्मसरश्चेदं मुखं मम समाश्रिता।
SP0070082: तस्मात्सरस्वतीत्येव लोके ख्यातिं गमिष्यसि॥ ८॥
SP0070091: इमं लोकं वराम्भोभिः पावयित्वा च सुप्रभे।
SP0070092: सर्वांल् लोकांस्तारयित्री पुनस्त्वं नात्र संशयः॥ ९॥
SP0070101: यज्ञभागं च देवास्ते दास्यन्ति सपितामहाः।
SP0070102: पुण्या च सर्वसरितां भविष्यसि न संशयः॥ १०॥
SP0070111: ततः सा समनुज्ञाता शंकरेण विभाविनी।
SP0070112: चक्रे ब्रह्मसरः पुण्यं ब्रह्मलोके ऽतिपावनम्॥ ११॥
SP0070121: तोयामृतसुसम्पूर्णं स्वर्णपद्मोपशोभितम्।
SP0070122: नानापक्षिगणाकीर्णं मीनसंक्षोभितोदकम्।
SP0070123: ततो विनिःसृता भूयः सेमं लोकमपावयत्॥ १२॥
SP0070131: तं गृहीत्वा महादेवः कपालममितौजसम्।
SP0070132: इमं लोकमनुप्राप्य देशे श्रेष्ठे ऽवतिष्ठत॥ १३॥
SP0070141: तत्र तच्च महद्दिव्यं कपालं देवताधिपः।
SP0070142: स्थापयामास दीप्तार्चिर्गणानामग्रतः प्रभुः॥ १४॥
SP0070151: तत्स्थापितमथो दृष्ट्वा गणाः सर्वे महात्मनः।
SP0070152: अनदन्सुमहानादं नादयन्तो दिशो दश।
SP0070153: क्षुब्धार्णवाशनिप्रख्यं नभो येन व्यशीर्यत॥ १५॥
SP0070161: तेन शब्देन घोरेण असुरो देवकण्टकः।
SP0070162: हालाहल इति ख्यातस्तं देशं सो ऽभ्यगच्छत॥ १६॥
SP0070171: अमृष्यमाणः क्रोधान्धो दुरात्मा यज्ञनाशकः।
SP0070172: ब्रह्मदत्तवरश्चैव अवध्यः सर्वजन्तुभिः।
SP0070173: महिषश्छन्नरूपाणामसुराणां शतैर्वृतः॥ १७॥
SP0070181: तमापतन्तं सक्रोधं महिषं देवकण्टकम्।
SP0070182: सम्प्रेक्ष्याह गणाध्यक्षो गणान्सर्वान्पिनाकिनः॥ १८॥
SP0070191: दैत्यो ऽयं गणपा दुष्टस्त्रैलोक्यसुरकण्टकः।
SP0070192: आयाति त्वरितो यूयं तस्मादेनं निहन्यथ॥ १९॥
SP0070201: ततस्ते गणपाः सर्वे समायान्तं सुरद्विषम्।
SP0070202: भित्त्वा शूलेन संक्रुद्धा विगतासुं च चक्रिरे॥ २०॥
SP0070211: हते तस्मिंस्तदा देवो दिशः सर्वा अवैक्षत।
SP0070212: ताभ्यः पिशाचा वृत्तास्याः पिशाच्यश्च महाबलाः।
SP0070213: अभ्यगच्छन्त देवेशं ताभ्यस्तं विनिवेदयत्॥ २१॥
SP0070221: स ताभिरुपयुक्तश्च विनियुक्तश्च सर्वशः।
SP0070222: तमेव चाप्यथावासं देवादिष्टं प्रपेदिरे॥ २२॥
SP0070231: भक्षयन्ति स्म महिषं मित्वा मित्वा यतस्तु ताः।
SP0070232: कपालमातरः प्रोक्तास्तस्माद्देवेन धीमता॥ २३॥
SP0070241: कपालं स्थापितं यस्मात्तस्मिन्देशे पिनाकिना।
SP0070242: महाकपालं तत्तस्मात्त्रिषु लोकेषु गद्यते॥ २४॥
SP0070251: स्थापितस्य कपालस्य यथोक्तमभवत्तदा।
SP0070252: ख्यातं शिवतडागं तत्सर्वपापप्रमोचनम्॥ २५॥
SP0070261: आगत्याथ ततो ब्रह्मा देवतानां गणैर्वृतः।
SP0070262: कपर्दिनमुपामन्त्र्य तं देशं सो ऽन्वगृह्णत॥ २६॥
SP0070271: अर्धयोजनविस्तीर्णं क्षेत्रमेतत्समन्ततः।
SP0070272: भविष्यति न संदेहः सिद्धक्षेत्रं महात्मनः॥ २७॥
SP0070281: श्मेति हि प्रोच्यते पापं क्षयं शानं विदुर्बुधाः।
SP0070282: ध्यानेन नियमैश्चैव श्मशानं तेन संज्ञितम्।
SP0070283: गुह्यं देवातिदेवस्य परं प्रियमनुत्तमम्॥ २८॥
SP0070291: एवं तत्र नरः पापं सर्वमेव प्रहास्यति।
SP0070292: त्रिरात्रोपोषितश्चैव अर्चयित्वा वृषध्वजम्।
SP0070293: राजसूयाश्वमेधाभ्यां फलं यत्तदवाप्स्यति॥ २९॥
SP0070301: यश्च प्राणान्प्रियांस्तत्र परित्यक्ष्यति मानवः।
SP0070302: स गुह्यगणदेवानां समतां समवाप्स्यति॥ ३०॥
SP0070310: वायुरुवाच।
SP0070311: ततः स तत्र संस्थाप्य देवस्यार्चाद्वयं शुभम्।
SP0070312: शूलेश्वरं महाकायं रुद्रस्यायतनं शुभम्॥ ३१॥
SP0070321: तत्राभिगमनादेव कृत्वा पापस्य संक्षयम्।
SP0070322: रुद्रलोकमवाप्नोति स प्राहैवं पितामहः॥ ३२॥
SP0070331: यत्र चापि शिरस्तस्य चिच्छेद भुवनेश्वरः।
SP0070332: कश्मीरः सो ऽभवन्नाम्ना देशः पुण्यतमः सदा॥ ३३॥
SP0070341: ततो देवः सह गणै रूपं विकृतमास्थितः।
SP0070342: पश्यतां सर्वदेवानामन्तर्धानमगात्प्रभुः॥ ३४॥
SP0070351: गते च देवनाथे ऽथ कपालस्थानमव्ययम्।
SP0070352: सर्वतीर्थाभिषेकस्य फलेन समयोजयत्॥ ३५॥
SP0070361: तदद्यापि महद्दिव्यं सरस्तत्र प्रदृश्यते।
SP0070362: महाकपालं विप्रेन्द्राः स्वर्गास्तत्राक्षयाः स्मृताः॥ ३६॥
SP0070371: इदं शुभं दिव्यमधर्मनाशनं महाफलं सेन्द्रसुरासुरार्चितम्।
SP0070372: महाकपालं प्रकृतोपदर्शनं सुरेशलोकादिविगाहने हितम्॥ ३७॥
SP0070381: तपोधनैः सिद्धगणैश्च संस्तुतं दिविष्ठतुल्यद्विजराजमण्डले।
SP0070382: पठेन्नरो यः शृणुयाच्च सर्वदा त्रिपिष्टपं गच्छति सो ऽभिनन्दितः॥ ३८॥
SP0079999: इति स्कन्दपुराणे सप्तमो ऽध्यायः॥