Skandapurāṇa Adhyāya 4
E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.
SP0040010: सनत्कुमार उवाच।
SP0040011: प्राजापत्यं ततो लब्ध्वा प्रजाः स्रष्टुं प्रचक्रमे।
SP0040012: प्रजास्ताः सृज्यमानाश्च न विवर्धन्ति तस्य ह॥ १॥
SP0040021: स कुर्वाणस्तथा सृष्टिं शक्तिहीनः पितामहः।
SP0040022: सृष्ट्यर्थं भूय एवाथ तपश्चर्तुं प्रचक्रमे॥ २॥
SP0040031: सृष्टिहेतोस्तपस्तस्य ज्ञात्वा त्रिभुवनेश्वरः।
SP0040032: तेजसा जगदाविश्य आजगाम तदन्तिकम्।
SP0040033: स्रष्टा तस्य जगन्नाथो ऽदर्शयत्स्वतनौ जगत्॥ ३॥
SP0040041: स्वयमागत्य देवेशो महाभूतपतिर्हरः।
SP0040042: व्याप्येव हि जगत्कृत्स्नं परमेण स्वतेजसा।
SP0040043: शम्भुः प्राह वरं वत्स याचस्वेति पितामहम्॥ ४॥
SP0040051: तं ब्रह्मा लोकसृष्ट्यर्थं पुत्रस्त्वं मनसाब्रवीत्।
SP0040052: स ज्ञात्वा तस्य संकल्पं ब्रह्मणः परमेश्वरः।
SP0040053: मूढो ऽयमिति संचिन्त्य प्रोवाच वरदः स्वयम्॥ ५॥
SP0040061: आगतं पितरं मा त्वं यस्मात्पुत्रं समीहसे।
SP0040062: मन्मूर्तिस्तनयस्तस्माद्भविष्यति ममाज्ञया॥ ६॥
SP0040071: स च ते पुत्रतां यात्वा मदीयो गणनायकः।
SP0040072: रुद्रो विग्रहवान्भूत्वा मूढ त्वां विनयिष्यति॥ ७॥
SP0040081: सर्वविद्याधिपत्यं च योगानां चैव सर्वशः।
SP0040082: बलस्याधिपतित्वं च अस्त्राणां च प्रयोक्तृता॥ ८॥
SP0040091: मया दत्तानि तस्याशु उपस्थास्यन्ति सर्वशः।
SP0040092: धनुः पिनाकं शूलं च खड्गं परशुरेव च॥ ९॥
SP0040101: कमण्डलुस्तथा दण्डः अस्त्रं पाशुपतं तथा।
SP0040102: संवर्तकाशनिश्चैव चक्रं च प्रतिसर्गिकम्।
SP0040103: एवं सर्वर्द्धिसम्पन्नः सुतस्ते स भविष्यति॥ १०॥
SP0040111: एवमुक्त्वा गते तस्मिन्नन्तर्धानं महात्मनि।
SP0040112: ब्रह्मा चक्रे तदा चेष्टिं पुत्रकामः प्रजापतिः॥ ११॥
SP0040121: स जुह्वञ्छ्रमसंयुक्तः प्रतिघातसमन्वितः।
SP0040122: समिद्युक्तेन हस्तेन ललाटं प्रममार्ज ह॥ १२॥
SP0040131: समित्संयोगजस्तस्य स्वेदबिन्दुर्ललाटजः।
SP0040132: पपात ज्वलने तस्मिन्द्विगुणं तस्य तेजसा॥ १३॥
SP0040141: तद्धि माहेश्वरं तेजः संधितं ब्रह्मणि स्रुतम्।
SP0040142: प्रेरितं देवदेवेन निपपात हविर्भुजि॥ १४॥
SP0040151: क्षणे तस्मिन्महेशेन स्मृत्वा तं वरमुत्तमम्।
SP0040152: प्रेषितो गणपो रुद्रः सद्य एवाभवत्तदा॥ १५॥
SP0040161: तच्च संस्वेदजं तेजः पूर्वं ज्वलनयोजितम्।
SP0040162: भूत्वा लोहितमाश्वेव पुनर्नीलमभूत्तदा॥ १६॥
SP0040171: नीललोहित इत्येव तेनासावभवत्प्रभुः।
SP0040172: त्र्यक्षो दशभुजः श्रीमान्ब्रह्माणं छादयन्निव॥ १७॥
SP0040181: शर्वाद्यैर्नामभिर्ब्रह्मा तनूभिश्च जलादिभिः।
SP0040182: स्तुत्वा तं सर्वगं देवं नीललोहितमव्ययम्॥ १८॥
SP0040191: ज्ञात्वा सर्वसृजं पश्चान्महाभूतप्रतिष्ठितम्।
SP0040192: असृजद्विविधास्त्वन्याः प्रजाः स जगति प्रभुः॥ १९॥
SP0040201: सो ऽपि योगं समास्थाय ऐश्वर्येण समन्वितः।
SP0040202: लोकान्सर्वान्समाविश्य धारयामास सर्वदा॥ २०॥
SP0040211: ब्रह्मणो ऽपि ततः पुत्रा दक्षधर्मादयः शुभाः।
SP0040212: असृजन्त प्रजाः सर्वा देवमानुषसंकुलाः॥ २१॥
SP0040221: अथ कालेन महता कल्पे ऽतीते पुनः पुनः।
SP0040222: प्रजा धारयतो योगादस्मिन्कल्प उपस्थिते॥ २२॥
SP0040231: प्रतिष्ठितायां वार्त्तायां प्रवृत्ते वृष्टिसर्जने।
SP0040232: प्रजासु च विवृद्धासु प्रयागे यजतश्च ह॥ २३॥
SP0040241: ब्रह्मणः षट्कुलीयास्ते ऋषयः संशितव्रताः।
SP0040242: मरीचयो ऽत्रयश्चैव वसिष्ठाः क्रतवस्तथा॥ २४॥
SP0040251: भृगवो ऽङ्गिरसश्चैव तपसा दग्धकिल्बिषाः।
SP0040252: ऊचुर्ब्रह्माणमभ्येत्य सहिताः कर्मणो ऽन्तरे॥ २५॥
SP0040261: भगवन्नन्धकारेण महता स्मः समावृताः।
SP0040262: खिन्ना विवदमानाश्च न च पश्याम यत्परम्॥ २६॥
SP0040271: एतं नः संशयं देव चिरं हृदि समास्थितम्।
SP0040272: त्वं हि वेत्थ यथातत्त्वं कारणं परमं हि नः॥ २७॥
SP0040281: किं परं सर्वभूतानां बलीयश्चापि सर्वतः।
SP0040282: केन चाधिष्ठितं विश्वं को नित्यः कश्च शाश्वतः॥ २८॥
SP0040291: कः स्रष्टा सर्वभूतानां प्रकृतेश्च प्रवर्तकः।
SP0040292: को ऽस्मान्सर्वेषु कार्येषु प्रयुनक्ति महामनाः॥ २९॥
SP0040301: कस्य भूतानि वश्यानि कः सर्वविनियोजकः।
SP0040302: कथं पश्येम तं चैव एतन्नः शंस सर्वशः॥ ३०॥
SP0040311: एवमुक्तस्ततो ब्रह्मा सर्वेषामेव संनिधौ।
SP0040312: देवानां च ऋषीणां च गन्धर्वोरगरक्षसाम्॥ ३१॥
SP0040321: यक्षाणामसुराणां च ये च कुत्र प्रवर्तकाः।
SP0040322: पक्षिणां सपिशाचानां ये चान्ये तत्समीपगाः।
SP0040323: उत्थाय प्राञ्जलिः प्राह रुद्रेति त्रिः प्लुतं वचः॥ ३२॥
SP0040331: स चापि तपसा शक्यो द्रष्टुं नान्येन केनचित्।
SP0040332: स स्रष्टा सर्वभूतानां बलवांस्तन्मयं जगत्।
SP0040333: तस्य वश्यानि भूतानि तेनेदं धार्यते जगत्॥ ३३॥
SP0040341: ततस्ते सर्वलोकेशा नमश्चक्रुर्महात्मने॥ ३४॥
SP0040350: ऋषय ऊचुः।
SP0040351: किं तन्महत्तपो देव येन दृश्येत स प्रभुः।
SP0040352: तन्नो वदस्व देवेश वरदं चाभिधत्स्व नः॥ ३५॥
SP0040360: पितामह उवाच।
SP0040361: सत्त्रं महत्समासध्वं वाङ्मनोदोषवर्जिताः।
SP0040362: देशं च वः प्रवक्ष्यामि यस्मिन्देशे चरिष्यथ॥ ३६॥
SP0040371: ततो मनोमयं चक्रं स सृष्ट्वा तानुवाच ह।
SP0040372: क्षिप्तमेतन्मया चक्रमनुव्रजत मा चिरम्॥ ३७॥
SP0040381: यत्रास्य नेमिः शीर्येत स देशस्तपसः शुभः।
SP0040382: ततो मुमोच तच्चक्रं ते च तत्समनुव्रजन्॥ ३८॥
SP0040391: तस्य वै व्रजतः क्षिप्रं यत्र नेमिरशीर्यत।
SP0040392: नैमिशं तत्स्मृतं नाम्ना पुण्यं सर्वत्र पूजितम्॥ ३९॥
SP0040401: तत्पूजितं देवमनुष्यसिद्धै रक्षोभिरुग्रैरुरगैश्च दिव्यैः।
SP0040402: यक्षैः सगन्धर्वपिशाचसंघैः सर्वाप्सरोभिश्च दितेः सुतैश्च॥ ४०॥
SP0040411: विप्रैश्च दान्तैः शमयोगयुक्तैस्तीर्थैश्च सर्वैरपि चावनीध्रैः।
SP0040412: गन्धर्वविद्याधरचारणैश्च साध्यैश्च विश्वैः पितृभिः स्तुतं च॥ ४१॥
SP0049999: इति स्कन्दपुराणे चतुर्थो ऽध्यायः॥