००२

Skandapurāṇa Adhyāya 2

E-text generated on February 22, 2017 from the original TeX files of: Adriaensen, R., H.T. Bakker and H. Isaacson, eds. The Skandapurāṇa. Vol. I. Adhyāyas 1-25. Critically Edited with Prolegomena and English Synopsis. Groningen: Egbert Forsten, 1998.

SP0020010: सनत्कुमार उवाच।
SP0020011: प्रपद्ये देवमीशानं सर्वज्ञमपराजितम्।
SP0020012: महादेवं महात्मानं विश्वस्य जगतः पतिम्॥ १॥
SP0020021: शक्तिरप्रतिघा यस्य ऐश्वर्यं चैव सर्वशः।
SP0020022: स्वामित्वं च विभुत्वं च स्वकृतानि प्रचक्षते॥ २॥
SP0020031: तस्मै देवाय सोमाय प्रणम्य प्रयतः शुचिः।
SP0020032: पुराणाख्यानजिज्ञासोर्वक्ष्ये स्कन्दोद्भवं शुभम्॥ ३॥
SP0020041: देहावतारो देवस्य रुद्रस्य परमात्मनः।
SP0020042: प्राजापत्याभिषेकश्च हरणं शिरसस्तथा॥ ४॥
SP0020051: दर्शनं षट्कुलीयानां चक्रस्य च विसर्जनम्।
SP0020052: नैमिशस्योद्भवश्चैव सत्त्रस्य च समापनम्॥ ५॥
SP0020061: ब्रह्मणश्चागमस्तत्र तपसश्चरणं तथा।
SP0020062: शर्वस्य दर्शनं चैव देव्याश्चैव समुद्भवः॥ ६॥
SP0020071: सत्या विवादश्च तथा दक्षशापस्तथैव च।
SP0020072: मेनायां च यथोत्पत्तिर्यथा देव्याः स्वयंवरम्॥ ७॥
SP0020081: देवानां वरदानं च वसिष्ठस्य च धीमतः।
SP0020082: पराशरस्य चोत्पत्तिर्व्यासस्य च महात्मनः॥ ८॥
SP0020091: वसिष्ठकौशिकाभ्यां च वैरोद्भवसमापनम्।
SP0020092: वाराणस्याश्च शून्यत्वं क्षेत्रमाहात्म्यवर्णनम्॥ ९॥
SP0020101: रुद्रस्य चात्र सांनिध्यं नन्दिनश्चाप्यनुग्रहः।
SP0020102: गणानां दर्शनं चैव कथनं चाप्यशेषतः॥ १०॥
SP0020111: कालीव्याहरणं चैव तपश्चरणमेव च।
SP0020112: सोमनन्दिसमाख्यानं वरदानं तथैव च॥ ११॥
SP0020121: गौरीत्वं पुत्रलम्भश्च देव्या उत्पत्तिरेव च।
SP0020122: कौशिक्या भूतमातृत्वं सिंहाश्च रथिनस्तथा॥ १२॥
SP0020131: गौर्याश्च निलयो विन्ध्ये विन्ध्यसूर्यसमागमः।
SP0020132: अगस्त्यस्य च माहात्म्यं वधः सुन्दनिसुन्दयोः॥ १३॥
SP0020141: निसुम्भसुम्भनिर्याणं महिषस्य वधस्तथा।
SP0020142: अभिषेकश्च कौशिक्या वरदानमथापि च॥ १४॥
SP0020151: अन्धकस्य तथोत्पत्तिः पृथिव्याश्चैव बन्धनम्।
SP0020152: हिरण्याक्षवधश्चैव हिरण्यकशिपोस्तथा॥ १५॥
SP0020161: बलिसंयमनं चैव देव्याः समय एव च।
SP0020162: देवानां गमनं चैव अग्नेर्दूतत्वमेव च॥ १६॥
SP0020171: देवानां वरदानं च शुक्रस्य च विसर्जनम्।
SP0020172: सुतस्य च तथोत्पत्तिर्देव्याश्चान्धकदर्शनम्॥ १७॥
SP0020181: शैलादिदैत्यसंमर्दो देव्याश्च शतरूपता।
SP0020182: आर्यावरप्रदानं च शैलादिस्तव एव च॥ १८॥
SP0020191: देवस्यागमनं चैव वृत्तस्य कथनं तथा।
SP0020192: पतिव्रतायाश्चाख्यानं गुरुशुश्रूषणस्य च॥ १९॥
SP0020201: आख्यानं पञ्चचूडायास्तेजसश्चाप्यधृष्यता।
SP0020202: दूतस्यागमनं चैव संवादो ऽथ विसर्जनम्॥ २०॥
SP0020211: अन्धकासुरसंवादो मन्दरागमनं तथा।
SP0020212: गणानामागमश्चैव संख्यानश्रवणं तथा॥ २१॥
SP0020221: निग्रहश्चान्धकस्याथ युद्धेन महता तथा।
SP0020222: शरीरार्धप्रदानं च अशोकसुतसंग्रहः॥ २२॥
SP0020231: भस्मसोमोद्भवश्चैव श्मशानवसतिस्तथा।
SP0020232: रुद्रस्य नीलकण्ठत्वं तथायतनवर्णनम्॥ २३॥
SP0020241: उत्पत्तिर्यक्षराजस्य कुबेरस्य च धीमतः।
SP0020242: निग्रहो भुजगेन्द्राणां शिखरस्य च पातनम्॥ २४॥
SP0020251: त्रैलोक्यस्य सशक्रस्य वशीकरणमेव च।
SP0020252: देवसेनाप्रदानं च सेनापत्याभिषेचनम्॥ २५॥
SP0020261: नारदस्यागमश्चैव तारकप्रेषितस्य ह।
SP0020262: वधश्च तारकस्योग्रो यात्रा भद्रवटस्य च॥ २६॥
SP0020271: महिषस्य वधश्चैव क्रौञ्चस्य च निबर्हणम्।
SP0020272: शक्तेरुद्धरणं चैव तारकस्य वधः शुभः॥ २७॥
SP0020281: देवासुरभयोत्पत्तिस्त्रैपुरं युद्धमेव च।
SP0020282: प्रह्लादविग्रहश्चैव कृतघ्नाख्यानमेव च।
SP0020283: महाभाग्यं ब्राह्मणानां विस्तरेण प्रकीर्त्यते॥ २८॥
SP0020291: एतज्ज्ञात्वा यथावद्धि कुमारानुचरो भवेत्।
SP0020292: बलवान्मतिसम्पन्नः पुत्रं चाप्नोति संमतम्॥ २९॥
SP0029999: इति स्कन्दपुराणे द्वितीयो ऽध्यायः॥