२७

सनत्कुमार उवचा ।
अथैनमब्रवीद् देवस्त्रैलोक्याधिपतिर्भवः ।
आश्वासनकरं चास्य वाक्यविद् वाक्यमुत्तमम् ॥ २७।१ ॥
अहो तुष्टो ऽस्मि ते राजन् स्तवेनानेन सुव्रत ।
बहुनात्र किमुक्तेन मत्समीपे वसिष्यसि ॥ २७।२ ॥
उषित्वा सुचिरं कालं मम गात्रोद्भवः पुनः ।
असुरो ह्यन्धको नाम भविष्यसि सुरान्तकृत् ॥ २७।३ ॥
हिरण्याक्षगृहे जन्म प्राप्य वृद्धिं गमिष्यसि ।
पूर्वाधर्मेण घोरेण वेदनिन्दाकृतेन च ॥ २७।४ ॥
साभिलाषो जगन्मातुर्भविष्यसि यदा तदा ।
देहं शुलेन हत्वाहं पावयिष्यामि समार्बुदम् ॥ २७।५ ॥
तत्राप्यकल्मषो भूत्वा स्तुत्वा मां भक्तितः पुनः ।
ख्यातोगणाधिपो भूत्वा नाम्ना भृङ्गिरिटिः स्मृतः ॥ २७।६ ॥
मत्सन्निधाने स्थित्वा त्वं ततः सिद्धिं गमिष्यसि ।
वेनप्रोक्तं स्तवमिमं कीर्तयेद् यः शृणोति च ॥ २७।७ ॥
नाशुभं प्राप्नुयात् किञ्चिद् दीर्घमायुरवाप्नुयात् ।
यथा सर्वेषु देवेषु विशिष्टो भगवाञ्शिवः ॥ २७।८ ॥
तथा स्तवो वरिष्ठो ऽयं स्तवानां वेननिर्मितः ।
यशोराज्यसुखैश्वर्यधनमानाय कीर्तितः ॥ २७।९ ॥
श्रोतव्यो भक्तिमास्थाय विद्याकामैश्च यत्नतः ।
व्याधितो दुःखितो दीनश्चौरराजभयान्वितः ॥ २७।१० ॥
राजकार्यविमुक्तो वा मुच्यते महतो भयात् ।
अनेनैव तु देहेन गणानां श्रेष्ठतां व्रजेत् ॥ २७।११ ॥
तेजसा यशसा चैव युक्तो भवति निर्मलः ।
न राक्षसाः पिशाचा वा न भूता न विनायकाः ॥ २७।१२ ॥
विघ्नं कुर्युर्गृहे तत्र यत्रायं पठ्यते स्तवः ।
श्रुणुयाद् या स्तवं नारी अनुज्ञां प्राप्य भर्तृतः ॥ २७।१३ ॥
मातृपक्षे पितुः पक्षे पूज्या भवति देववत् ।
श्रुणुयाद् यः स्तवं दिव्यं कीर्तयेद् वा समाहितः ॥ २७।१४ ॥
तस्य सर्वाणि कार्याण सिद्धिं गच्छन्ति नित्यशः ।
मनसा चिन्तितं यच्च यच्च वाचानुकीर्तितम् ॥ २७।१५ ॥
सर्वं सम्पद्यते तस्य स्तवनस्यानुकीर्तनात् ।
मनसा कर्मणा वाचा कृतमेनो विनश्यति ।
वरं वरय भद्रं ते यत्त्वया मनसेप्सितम् ॥ २७।१६ ॥
वेन उवाच
अस्य लिङ्गस्य माहात्म्यात् तथा लिङ्गस्य दर्शनात् ।
मुक्तो ऽहं पातकैः सर्वैस्तव दर्शनतः किल ॥ २७।१७ ॥
यदि तुष्टो ऽसि मे देव यदि देयो वरो मम ।
देवस्वभक्षणाञ्जातं श्वयोनौ तव सेवकम् ॥ २७।१८ ॥
एतस्यापि प्रसादं त्वं कर्तुमर्हसि शङ्कर ।
एतस्यापि भयान्मध्ये सरसो ऽहं निमञ्जितः ॥ २७।१९ ॥
देवैर्निवारितः पूर्वं तीर्थे ऽस्मिन् स्नानकारणात् ।
अयं कृतोपकारश्च एतदर्थे वृणोम्यहम् ॥ २७।२० ॥
तस्यैतद् वचनं श्रुत्वा तुष्टः प्रोवाच शङ्करः ।
एषो ऽपि पापिनिर्मुक्तो भविष्यति न संशयः ॥ २७।२१ ॥
प्रसादान्मे महाबाहो शिवलोकं गमिष्यति ।
तथा स्तवमिमं श्रुत्वा मुच्यते सर्वपातकैः ॥ २७।२२ ॥
कुरुक्षेत्रस्य माहात्म्यं सरसो ऽस्य महीपते ।
मम लिङ्गस्य चोत्पत्तिं श्रुत्वा पापैः प्रमुच्यते ॥ २७।२३ ॥
सनत्कुमार उवाच
इत्येवमुक्त्वा भगवान् सर्वलोकनमस्कृतः ।
पश्यतां सर्वलोकानां तत्रैवान्तरधीयत ॥ २७।२४ ॥
स च श्वा तत्क्षणादेव स्मृत्वा जन्म पुरातनम् ।
दिव्यमूर्तिधरो भूत्वा तं राजानमुपस्थितः ॥ २७।२५ ॥
कृत्वा स्नानं ततो वैन्यः पितृदर्शनलालसः ।
स्थाणतीर्थे कुटीं शून्यां दृष्ट्वा शोकसमन्वितः ॥ २७।२६ ॥
दृष्ट्वा वेनो ऽब्रवीद् वाक्यं हर्षेण महतान्वितः ।
सत्पुत्रेण त्वया वत्स त्रातो ऽहं नरकार्मवात् ॥ २७।२७ ॥
त्वयाभिषिञ्चितो नित्यं तीर्थस्थपुलिने स्थितः ।
अस्य साधोः प्रसादेन स्थाणोर्देवस्य दर्शनात् ॥ २७।२८ ॥
मुक्तापापश्च स्वर्लोकं यास्ये यत्र शिवः स्थितः ।
इत्येवमुक्त्वा राजानं प्रतिष्ठाप्य महेश्वरम् ॥ २७।२९ ॥
स्थाणुतीर्थे ययौ सिद्धिं तेन पुत्रेण तारितः ।
स च श्वा परमां सिद्धिं स्थाणुतीर्थप्रभावतः ॥ २७।३० ॥
विमुक्तः कलुषैः सर्वैर्जगाम भवमन्दिरम् ।
राजा पितृऋणैर्मुक्तः परिपाल्य वसुन्धराम् ॥ २७।३१ ॥
पुत्रानुत्पाद्य धर्मेण कृत्वा यज्ञं निरर्गलम् ।
दत्त्वाकामांश्चविप्रेभ्यो भुक्त्वा भोगान् पृथग्विधान् ॥ २७।३२ ॥
सुहृदो ऽथ ऋणैर्मुक्त्वा कामैः सन्तर्प्य च स्त्रियः ।
अभिषिच्य सुतं राज्ये कुरुक्षेत्रं ययौ नृपः ॥ २७।३३ ॥
तत्र तप्त्वा तपो घोरं पूजयित्वा च शङ्करम् ।
आत्मेच्छया तनुं त्यक्त्वा प्रयातः परमं पदम् ॥ २७।३४ ॥
एतत्प्रभावं तीर्थस्य स्थाणोर्यः शृणुयान्नरः ।
सर्वपापविनिर्मुक्तः प्रयाति परमां गतिम् ॥ २७।३५ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तविंशो ऽध्यायः