२६

मार्कण्डेय उवाच
स्थाणुतीर्थप्रभावं तु श्रोतुमिच्छाम्यहं मुने ।
केन सिद्धिरथ प्राप्ता सर्वपापभयापहा ॥ २६।१ ॥
सनत्कुमार उवाच।
शृणु सर्वमशेषेण स्थाणुमाहात्म्यमुत्तमम् ।
यच्छ्रुत्वा सर्वपापेभ्यो मुक्तो भवति मानवः ॥ २६।२ ॥
एकार्णवे जगत्यस्मिन् नष्टे स्थावरजङ्गमे ।
विष्णोर्नाभिसमुद्भूतं पद्ममव्यक्तजन्मनः ।
तस्मिन् ब्रह्म समुद्भूतं सर्वलोकपितामहः ॥ २६।३ ॥
तस्मान्मरीचिरभवन्मरीचेः कश्यपः सुतः ।
कश्यपादभवद् भास्वांस्तमान्मनुरजायत ॥ २६।४ ॥
मनोस्तु क्षुवतः पुत्र उत्पन्नो मुखसम्भवः ।
पृथिव्यां चतुरन्तायां राजासीद् धर्मरक्षिता ॥ २६।५ ॥
तस्य पत्नी बभूवाथ भया नाम भयावहा ।
मृत्योः सकाशादुत्पन्ना कालस्य दुहिता तदा ॥ २६।६ ॥
तस्यां समभवद् वेनो दुरात्मा वेदनिन्दकः ।
स दृष्ट्वा पुत्रवदनं क्रुद्धो राजा वनं ययौ ॥ २६।७ ॥
तत्र कृत्वा तपो घोरं धर्मेणावृत्य रोदसी ।
प्राप्तवान् ब्रह्मसदनं पुरनावृत्तिदुर्वभम् ॥ २६।८ ॥
वेनो राजा समभवत् समस्ते क्षितिमण्डले ।
स मातामहदोषेण तेन कालात्मजात्मजः ॥ २६।९ ॥
घोषयामस नगरे दुरात्मा वेदनिन्दकः ।
न दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥ २६।१० ॥
अहमेको ऽत्र वै वन्द्यः पूज्यो ऽहं भवतां सदा ।
मया हि पालिता यूयं निवसध्वं यथासुखम् ॥ २६।११ ॥
तन्मत्तो ऽन्यो न देवो ऽस्ति युष्माकं यः परायणम् ।
एतच्छ्रत्वा तु वचनमृषयः सर्व एव ते ॥ २६।१२ ॥
परस्परं समागम्य राजानं वाक्यमब्रवन् ।
श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ॥ २६।१३ ॥
यज्ञैर्विना नो प्रीयन्ते देवाः स्वर्गनिवासिनः ।
अप्रीता न प्रयच्छन्ति वृष्टिं सस्यस्य वृद्धये ॥ २६।१४ ॥
तस्माद् यज्ञैश्च देवैश्च धार्यते सचराचरम् ।
एतच्छ्रुत्वा क्रोधदृष्टिर्वेनः प्राह पुनः पुनः ॥ २६।१५ ॥
न यष्टव्यं न दातव्यमित्याह क्रोधमूर्च्छितः ।
ततः क्रोधसमाविष्टा ऋषयः सर्व एव ते ॥ २६।१६ ॥
निजघ्नुर्मन्त्रपूतैस्ते कुशैर्वज्रसमन्वितैः ।
ततस्त्वराजके लोके तमसा संवृते तदा ॥ २६।१७ ॥
दस्युभिः पीड्यमानास्तान् ऋषींस्ते शरणं ययुः ।
ततस्ते ऋषयः सर्वे ममन्थुस्तस्य वै करम् ॥ २६।१८ ॥
सव्यं तस्मात् समुत्तस्थौ पुरुषो ह्रस्वदर्शनः ।
तमूचुरृषयः सर्वे निषीदतु भवानिति ॥ २६।१९ ॥
तस्मान्निषादा उत्पन्ना वेनकल्मषसम्भवाः ।
ततस्ते ऋषयः सर्वे मन्मथुर्दक्षिणं करम् ॥ २६।२० ॥
मथ्यमाने करे तस्मिन् उत्पन्नः पुरुषो ऽपरः ।
बृहत्सालप्रतीकाशो दिव्यलक्षणलक्षितः ॥ २६।२१ ॥
धनुर्बाणाङ्कितकरश्चश्चक्रध्वसमन्वितः ।
तमुत्पन्नं तदा दृष्ट्वा सर्वे देवाः सवासवाः ॥ २६।२२ ॥
अभ्यषिञ्चन् पृथिव्यां तं राजानं भूमिपालकम् ।
ततः स रञ्जयामास धर्मेण पृथिवीं तदा ॥ २६।२३ ॥
पित्राःऽपरञ्जिता तस्य तेन सा परिपालिता ।
तत्र राजेतिशब्दो ऽस्य पृथिव्या रञ्जनादभूत् ॥ २६।२४ ॥
स राज्यं पाप्य तेभ्यस्तु चिन्तयामास पार्थिवः ।
पिता मम अधर्मिष्ठो यज्ञव्युच्छित्तिकारकः ॥ २६।२५ ॥
कथं तस्य क्रिया कार्या परलोकसुखावहा ।
इत्येवं चिन्तयानस्य नारदो ऽभ्याजगाम ह ॥ २६।२६ ॥
तस्मै स चासनं दत्त्वा प्रणिपत्य च पृष्टवान् ।
भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ॥ २६।२७ ॥
पिता मम दुराचारो देवब्राह्मणनिन्दकः ।
स्वकर्मरहितो विप्र परलोकमवाप्तवान् ॥ २६।२८ ॥
ततो ऽब्रवीन्नारदस्तं ज्ञात्वा दिव्येन चक्षुषा ।
म्लेच्छमघ्ये समुत्पन्नं क्षयकुष्ठसमन्वितम् ॥ २६।२९ ॥
तच्छ्रुत्वा वचनं तस्य नारदस्य महात्मनः ।
चिन्तयामास दुखार्तः कथं कार्यं मया भवेत् ॥ २६।३० ॥
इत्येवं चिन्तयानस्य मतिर्जाता महात्मनः ।
पुत्रः स कथ्यते लोके यः पितॄंस्त्रायते भयात् ॥ २६।३१ ॥
एवं सञ्चिन्त्य स तदा नारदं पृष्टवान् मुनिम् ।
तारणं मत्पितुस्तस्य मया कार्यं कथं मुने ॥ २६।३२ ॥
नारद उवाच
गच्छ त्वं तस्य तं देहं तीर्थेषु कुरु निर्मलम् ।
यत्र स्थाणोर्महत्तीर्थं सरः सन्निहितं प्रति ॥ २६।३३ ॥
एतच्छ्रत्वा तु वचनं नारदस्य महात्मनः ।
सचिवे राज्यमाधाय राजा स तु जगाम ह ॥ २६।३४ ॥
स गत्वा चोत्तरां भूमिं म्लेच्छमध्ये ददर्श ह ।
कुष्ठरोगेण महाता क्षयेण च समन्वितम् ॥ २६।३५ ॥
ततः शोकेन महता सन्तप्तो वाक्यमब्रवीत् ।
ह म्लेच्छा नौमि पुरुषं स्वगृहं च नयाम्यहम् ॥ २६।३६ ॥
तत्राहमेनं निरुजं करिष्ये यदि मन्यथ ।
तथेति सर्वे ते म्लेच्छाः पुरुषं तं दयापरम् ॥ २६।३७ ॥
ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत्कुरु ।
तत आनीय पुरुषान् शिविकावाहनोचितान् ॥ २६।३८ ॥
दत्त्वा शुल्कं च द्विगुणं सुखेन नयत द्विजम् ।
ततः श्रुत्वा तु वचनं तस्य राज्ञो दयावतः ।
२६।३९ गृहीत्वा शिविकां क्षिप्रं कुरुक्षेत्रेण यान्ति ते ।
तत्र नीत्वा स्थाणुतीर्थे अवतार्य च ते गताः ॥ २६।४० ॥
ततः स राजा मध्याह्ने तं स्नापयति वै तदा ।
ततो वायुरन्तरिक्षे इदं वचनमब्रवीत् ॥ २६।४१ ॥
मा तात साहसं कार्षिस्तीर्थ रक्ष प्रयत्नतः ।
अयं पापेन घोरेम अतीव परिवेष्टितः ॥ २६।४२ ॥
वेदनिन्दा महत्पापं यस्यान्तो नैव लभ्यते ।
सो ऽयं स्नानान्महत्तीर्थं नाशयिष्यति तत्क्षणात् ॥ २६।४३ ॥
एतद् वोयर्बचः श्रुत्वादुःखेन महतान्वितः ।
उवाच शोकसन्तप्तस्तस्य दुःखेन दुःखितः ।
एष घोरेण पापेन अतीव परिवेष्टितः ॥ २६।४४ ॥
प्रायश्चित्तं करिष्ये ऽहं यद्वदिष्यन्ति देवताः ।
ततस्ता देवताः सर्वा इदं वचनमब्रुवन् ॥ २६।४५ ॥
स्नात्वा स्नात्वा च तीर्थेषु अभिषिञ्चस्व वारिणा ।
ओजसा चुलुकं यावत् प्रतिकूले सरस्वतीम् ॥ २६।४६ ॥
स्नात्वा मुक्तिमवाप्नोति पुरुषः श्रद्धयान्वितः ।
एष स्वपोषणपरो देवदूषणतत्परः ॥ २६।४७ ॥
ब्राह्मणैश्च परित्यक्तो नैष शुद्ध्यति कर्हिचित् ।
तस्मादेनं समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ॥ २६।४८ ॥
अभिषिञ्चस्व तोयेन ततः पूतो भविष्यति ।
इत्येतद्वचनं श्रुत्वा कृत्वा तस्याश्रमं ततः ॥ २६।४९ ॥
तीर्थयात्रां ययौ राजा उद्दिश्य जनकं स्वकम् ।
स तेषु प्लावनं कुर्वस्तीर्थेषु च दिने दिने ॥ २६।५० ॥
अभ्यषिढ्चत् स्वपितरं तीर्थतोयेन नित्यशः ।
एतस्मिन्नेव काले तु सारमेयो जगाम ह ॥ २६।५१ ॥
स्थाणोर्मठे कौलपतिर्देवद्रव्यस्य रक्षिता ।
परिग्रहस्य द्रव्यस्य परिपालयिता सदा ॥ २६।५२ ॥
प्रियश्च सर्वसोकेषु देवकार्यपरायणः ।
तस्यैवं वर्तमानस्य धर्ममार्गे स्थितस्य च ॥ २६।५३ ॥
कालेन चलिता बुद्धिर्देवद्रव्यस्य नाशेने ।
तेनाधर्मेण युक्तस्य परलोकगतस्य च । ।
२६।५४ दृष्ट्वा यमो ऽब्रवीद् वाक्यं श्वयोनिं व३ज मा चिरम् ।
तद्वाक्यानन्तरं जातः श्व वै सौगन्धिके वने ॥ २६।५५ ॥
ततः कालेन महता श्वयूथपरिवारितः ।
परिभूतः सरमया दुःखेन महता वृतः ॥ २६।५६ ॥
त्यक्त्वा द्वैतवनं पुण्यं सान्निहत्यं ययौ सरः ।
तस्मिन् प्रविष्टमात्रस्तु स्थाणोरेव प्रसादतः ॥ २६।५७ ॥
अतीव तृषया युक्तः सरस्वत्यां ममञ्ज ह ।
तत्र सम्प्लुतदेहस्तु विमुक्तः सर्वाकिल्बिषैः ॥ २६।५८ ॥
आहारलोभेन तदा प्रविवेश कुटीरकम् ।
प्रविशन्तं तदा दृष्ट्वा श्वानं भयसमन्वितः ॥ २६।५९ ॥
स तं पस्पर्श शनकैः स्थाणुतीर्थे ममञ्ज ह ।
पततः पूर्वतीर्थेषु विप्रुषैः परिषिञ्चतः ॥ २६।६० ॥
शुनो ऽस्य गात्रसम्भूतैरब्बिन्दुभिः स सिञ्चितः ।
विरक्तदृष्टिश्च शुनः क्षेपेण च ततः परम् ॥ २६।६१ ॥
स्थाणुतीर्थस्य माहात्म्यात् स पुत्रेण च तारितः ।
नियतस्तत्क्षणाञ्जातो स्तुतिं कर्तुं प्रचक्रमे ॥ २६।६२ ॥
वेन उवाच
प्रपद्ये देवमीशानं त्वामजं चन्द्रभूषणम् ।
महादेवं महात्मानं विश्वस्य जगतः पतिम् ॥ २६।६३ ॥
नमस्ते देवदेवेश सर्वशत्रुनिषूदन ।
देवेश बलिविष्टम्भदेवदैत्यैश्च पूजित ॥ २६।६४ ॥
विरूपाक्ष सहस्राक्ष त्र्यक्ष यक्षेश्वरप्रिय ।
सर्वतः पाणिपादान्त सर्वतो ऽक्षिशिरोमुख ॥ २६।६५ ॥
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठसि ।
शङ्कुकर्ण महाकर्म कुम्भकर्णार्णवालय ॥ २६।६६ ॥
गजेन्द्रकर्ण गोकर्ण पाणिकर्ण नमो ऽस्तु ते ।
शतजिह्व शतावर्त शतोदर शतानन ॥ २६।६७ ॥
गायन्ति त्वां गायत्रिणो ह्यर्चयन्त्यर्क्कमर्चिणः ।
ब्रह्माणं त्वा शतक्रतो उद्वंशमिव मेनिरे ॥ २६।६८ ॥
मूर्तौ हि ते महामूर्ते समुद्राम्बुधरास्तथा ।
देवताः सर्व एवात्र गोष्ठे गाव इवासते ॥ २६।६९ ॥
शरीरे तव पश्यामि सोममग्निं जलेश्वरम् ।
नारायणं तथा सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ २६।७० ॥
भगवान् कारणं कार्यं क्रियाकारणमेव तत् ।
प्रभवः प्रलयश्चैव सदसच्चापि दैवतम् ॥ २६।७१ ॥
नमो भवाय शर्वाय वरदायोग्ररूपिणे ।
अन्धकासुरहन्त्रे च पशूनां पतये नमः ॥ २६।७२ ॥
त्रिजटाय त्रिशीर्षाय त्रिशुलासक्कपाणये ।
त्र्यम्बकाय त्रिनेत्राय त्रिपुरघ्र नमो ऽस्तु ते ॥ २६।७३ ॥
नमो मुण्डाय चण्डाय अण्डायोत्पत्तिहेतवे ।
डिण्डिमासक्तहस्ताय डिण्डिमुण्डाय ते नमः ॥ २६।७४ ॥
नमोर्ध्वकेशदंष्ट्राय शुष्काय विकृताय च ।
धूम्रलोहितकृष्णाय नीलग्रीवाय ते नमः ॥ २६।७५ ॥
नमो ऽस्त्वप्रतिरूपाय विरुपाय शिवाय च ।
सूर्यमालाय सूर्याय स्वरूपध्वजमालिने ॥ २६।७६ ॥
नमो मानातिमानाय नमः पटुतराय ते ।
नमो गणेन्द्रनाथाय वृषस्कन्धाय धन्विने ॥ २६।७७ ॥
सङ्क्रन्दनाय चण्डाय पर्णधारपुटाय च ।
नमो हिरण्यवर्णाय नमः कनकवर्चसे ॥ २६।७८ ॥
नमः स्तुताय स्तुत्याय स्तुतिस्थाय नमो ऽस्तु ते ।
सर्वाय सर्वभक्षाय सर्वभूतशरीरिणे ॥ २६।७९ ॥
नमो होत्रे च हन्त्रे च सितोदग्रपताकिने ।
नमो नम्याय नम्राय नमः कटकटाय च ॥ २६।८० ॥
नमो ऽस्तु कृशनाशाय शयितायोत्थिताय च ।
स्थिताय धावमानाय मुण्डाय कुटिलाय च ॥ २६।८१ ॥
नमो नर्तनशीलाय लयवादित्रशालिने ।
नाट्योपहारलुब्धाय मुखवादित्रशालिने ॥ २६।८२ ॥
नमो ज्योष्ठाय श्रेष्ठाय बलतिबलघातिने ।
कालनाशाय कालाय संसारक्षयरूपिणे ॥ २६।८३ ॥
हिमवद्दुहितुः कान्त भैरवाय नमो ऽस्तु ते ।
उग्राय च नमो नित्यं नमो ऽस्तु दशबाहवे ॥ २६।८४ ॥
चितिभस्मप्रियायैव कपालासक्तपाणये ।
विभीषणाय भीष्माय भीमव्रतधराय च ॥ २६।८५ ॥
नमो विकृतवक्त्राय नमः पूतोग्रदृष्टये ।
पक्वाममांसलुब्धाय तम्बिवीणाप्रियाय च ॥ २६।८६ ॥
नमो वृषाङ्कवृक्षाय गोवृषाभिरुते नमः ।
कटङ्कटाय भीमाय नमः परपराय च ॥ २६।८७ ॥
नमः सर्ववरिष्ठाय वराय वरदायिने ।
नमो विरक्तरक्ताय भावनायाक्षमालिने ॥ २६।८८ ॥
विभेदभेदभिन्नाय छायायै तपनाय च ।
अघोरघोररूपाय घोरघोरतराय च ॥ २६।८९ ॥
नमः शिवाय शान्ताय नमः शान्ततमाय च ।
बहुनेत्रकपालाय एकमूर्ते नमो ऽस्तु ते ॥ २६।९० ॥
नमः क्षुद्राय लुब्धाय यज्ञभागप्रियाय च ।
पञ्चालाय सिताङ्गाय नमो यमनियामिने ॥ २६।९१ ॥
नमश्चित्रोरुघण्टाय घण्टाघण्टनिघण्टिने ।
सहस्रशतघण्टाय घण्टामालविभूषिणे ॥ २६।९२ ॥
प्रणसङ्घट्टगर्वाय नमः किलिकिलिप्रिये ।
हुंहुङ्काराय पाराय हुंहुङ्कारप्रियाय च ॥२६।९३ ॥
नमः समसमे नित्यं गृहवृक्षनिकेतिने ।
गर्भमांसशृगालाय तारकाय तराय च ॥ २६।९४ ॥
नमो यज्ञाय यजिने हुताय प्रहुताय च ।
यज्ञवाहाय हव्याय तप्याय तपनाय च ॥ २६।९५ ॥
नमस्तु पयसे तुभ्यं तुण्डानां पतये नमः ।
अन्नदायान्नपतये नमो नानान्नभोजिने ॥ २६।९६ ॥
नमः सहस्रशीर्षाय सहस्रचरणाय च ।
सहस्रोद्यतशूलाय सहस्राभरणाय च ॥ २६।९७ ॥
बालनुचरगोप्त्रे च बाललीलाविलासिने ।
नमो बालाय वृद्धाय क्षुब्धाय क्षोभणाय च ॥ २६।९८ ॥
गङ्गालुलितकेशाय मुञ्जकेशाय वै नमः ।
नमः षट्कर्मतुष्टाय त्रिकर्मनिरताय च ॥ २६।९९ ॥
नग्नप्राणाय चण्डाय कृशाय स्फोटनाय च ।
धर्मार्थकाममोक्षाणां कथ्याय कथनाय च ॥ २६।१०० ॥
साङ्ख्याय साङ्ख्यमुख्याय साङ्ख्ययोगमुखाय च ।
नमो विरथरथ्याय चतुष्पथरथाय च ॥ २६।१०१ ॥
कुष्णाजिनोत्तरीयाय व्यालयज्ञोपवीतिने ।
वक्त्रसन्धानकेशाय हरिकेश नमो ऽस्तु ते ।
त्र्यम्बिकाम्बिकनाथायव्यक्तव्यक्ताय वेधसे ॥ २६।१०२ ॥
कामकामदकामघ्न तृप्तातृप्तविचारिणे ।
नमः सर्वद पापघ्न कल्पसङ्ख्याविचारिणे ॥ २६।१०३ ॥
महासत्त्व महाबाहो महाबल नमो ऽस्तु ते ।
महामेघ महाप्रख्य महाकाल महाध्युते ॥ २६।१०४ ॥
मेघावर्त युगावर्त चन्द्रार्कपतये नमः ।
त्वमन्नमन्नभोक्ता च पक्वभुक् पावनोत्तम ॥ २६।१०५ ॥
जरायुजाण्डजाश्चैव स्वेदजोद्भिदजाश्च ये ।
त्वमेव देवदेवेश भूतग्रामश्चतुर्विधः ॥ २६।१०६ ॥
स्रष्टा चराचरस्यास्य पाता हन्ता तथैव च ।
त्वामाहुर्ब्रह्य विद्वांसो ब्रह्म ब्रह्मविदां गतिम् ॥ २६।१०७ ॥
मनसः परमज्योतिस्त्वं वायुर्ज्योतिषामपि ।
हंहवृक्षे मधुकरमाहुस्त्वं ब्रह्मवादिनः ॥ २६।१०८ ॥
यजुर्मयो ऋङ्मयस्त्वामाहुः साममयस्तथा ।
पठ्यसे स्तुतिभिर्नित्यं वेदोपनिषदां गणैः ॥ २६।१०९ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा वर्णावराश्च ये ।
त्वमेव मेघसङ्घाश्च विद्युतो ऽसनिगर्जितम् ॥ २६।११० ॥
संवत्सरस्त्वमृतवो मासो मासार्धमेव च ।
युगा निमेषाः काष्ठाश्च नक्षत्राणि ग्रहाः कलाः ॥ २६।१११ ॥
वृक्षाणां ककुभो ऽसि त्वं गिरीणां हिमवान् गिरिः ।
व्याघ्रो मृगाणां पततां तार्क्ष्यो ऽनन्तश्च भोगिनाम् ॥ २६।११२ ॥
क्षिरोदो ऽस्युदधीनां च यन्त्राणां धनुरेव च ।
वज्रं प्रहरणानां च व्रतानां सत्यमेव च ॥ २६।११३ ॥
त्वमेव द्वेष इच्छा च रागो मोहः क्षमाक्षमे ।
व्यवसायो धृतिर्लोभः कामक्रोधौ जयाजयौ ॥ २६।११४ ॥
त्वं शरी त्वं गदी चापि खट्वाङ्गी च शरासनी ।
छेत्ता मेत्ता प्रहर्तासि मन्ता नेता सनातनः ॥ २६।११५ ॥
दशलक्षणसंयुक्तो धर्मोर्ऽथः काम एव च ।
समुद्राः सरितो गङ्गा पर्वताश्च सरांसि च ॥ २६।११६ ॥
लतावल्ल्यस्तृणौषध्यः पशवो मृगपक्षिणः ।
द्रव्यकर्मगुणारम्भः कालपुष्पफलप्रदः ॥ २६।११७ ॥
आदिश्चन्तश्च वेदानां गायत्री प्रणवस्तथा ।
लोहितो हरितो नीलः कुष्णः पीतः सितस्तथा ॥ २६।११८ ॥
कद्रुश्च कपिलश्चैव कपोतो मेचकस्तथा ।
सवर्णश्चाप्यवर्णाश्च कर्ता हर्ता त्वमेव हि ॥ २६।११९ ॥
त्वमिन्द्रश्च यमश्चैव वरुणो धनदो ऽनिलः ।
उपप्लवश्चित्रभानुः स्वर्भानुरेव च ॥ २६।१२० ॥
शिक्षाहैत्रं त्रिसौपर्णं यजुषां शतरुद्रियम् ।
पवित्रं च पवित्राणां मङ्गलानां च मङ्गलम् ॥ २६।१२१ ॥
तिन्दुको गिरिजो वृक्षे मुद्गं चाखिलजीवनम् ।
प्राणाः सत्त्वं रजश्चैव तमश्च प्रतिपत्पितिः ॥ २६।१२२ ॥
प्राणो ऽपानः मसानश्च उदानो व्यान एव च ।
उन्मेषश्च निमेषश्च क्षुतं जृम्भितमेव च ॥ २६।१२३ ॥
लोहितान्तर्गतो दृष्टिर्महावक्त्रो महोदरः ।
शुचिरोमा हरिश्मश्रुरूर्ध्वकेशश्चलाचलः ॥ २६।१२४ ॥
गीतवादित्रनृत्यज्ञो गीतवादित्रकप्रियः ।
मत्स्यो जालो जलौकाश्च कालः केलिकला कलिः ॥ २६।१२५ ॥
अकालश्च विकालश्च दुष्कालः काल एव च ।
मृत्युश्च मृत्युकर्ता च यक्षो यक्षभयङ्करः ॥ २६।१२६ ॥
संवर्तको ऽन्तकश्चैव संवर्तकबलाहकः ।
घण्टो घण्टी माहघण्टी चिरी माली च मातलिः ॥ २६।१२७ ॥
ब्रह्मकालयमाग्नीनां दण्डी मुण्डी त्रिमुण्डधृक् ।
चतुर्युगश्चतुर्वेदश्चातुर्हेत्रप्रवर्तकः ॥ २६।१२८ ॥
चातुराश्रम्यनेता च चातुर्वर्ण्यकरस्तथा ।
नित्यमक्षप्रियो धूर्तो गणाध्यक्षो गणाधिपः ॥ २६।१२९ ॥
रक्तमाल्याम्बरधरो गिरिको गिरिकप्रियः ।
शिल्पं च शिल्पिनां श्रेष्ठः सर्वशिल्पप्रवर्तकः ॥ २६।१३० ॥
भगनेत्राङ्कुशश्चण्डः पूष्णो दन्तविनाशनः ।
स्वाहा स्वधा वषट्कारो नमस्कारो नमो नमः ॥ २६।१३१ ॥
गूढव्रतो गुह्यतपास्तारकास्तारकामयः ।
धाता विधाता सन्धाता पृथिव्या धरणो ऽपरः ॥ २६।१३२ ॥
ब्रह्म तपश्च सत्यं च व्रतचर्य मथार्जवम् ।
भूतात्मा भूतकृद् भूतिर्भूतभव्यभवोद्भवः ॥ २६।१३३ ॥
भूर्भुवः स्वरृतं चैव ध्रुवो दान्तो महेश्वरः ।
दीक्षितो ऽदीक्षितः कान्तो दुर्दान्तो दान्तसम्भवः ॥ २६।१३४ ॥
चन्द्रावर्तो युगावर्तः संवर्तकप्रवर्तकः ।
बिन्दुः कामो ह्यणुः स्थूलः कर्णिकारस्रजप्रियः ॥ २६।१३५ ॥
नन्दीमुखो भीममुकः सुमुको दुर्मुखस्तथा ।
हिरण्यगर्भः शकुनिर्महोरगपतिर्विराट् । ।
२६।१३६ अधर्महा महादेवो दण्डधारो गणोत्कटः ।
गोनर्दे गोप्रतारश्च गोवृषेश्वरवाहनः ॥ २६।१३७ ॥
त्रैलोक्यगोप्ता गोविन्दो गोमार्गो मार्ग एव च ।
स्थिरः श्रेष्ठश्च स्थाणुश्च विक्रोशः क्रोश एव च ॥ २६।१३८ ॥
दुर्वारणो दुर्विषहो दुःसहो दुरतिक्रमः ।
दुर्द्धर्षो दुष्प्रकाशश्च दुर्दुर्शो दुर्जयो जयः ॥ २६।१३९ ॥
शशाङ्कानलशीतोष्णः क्षुत्तृष्णा च निरामयः ।
आधयो व्याधयश्चैव व्याधिहा व्याधिनाशनः ॥ २६।१४० ॥
समूहश्च समूहस्य हन्ता देवः सनातनः ।
शिखण्डी पुण्डरीकाक्षः पुण्डरीकवनालयः ॥ २६।१४१ ॥
त्र्यम्बको दण्डधारश्च उग्रदंष्ट्रः कुलान्तकः ।
विषापहः सुरश्रेष्ठः सोमपास्त्वं मरुत्पते ।
अमृताशी जगन्नातो देवदेव गणेश्वरः ॥ २६।१४२ ॥
मधुश्च्युतानां मधुपो ब्रह्मवाक् त्वं घृतच्युतः ।
सर्वलोकस्य भोक्ता त्वं सर्वलोकपितामहः ॥ २६।१४३ ॥
हिरण्यरेताः पुरुषस्त्वमेकः त्वं स्त्री पुमांस्त्वं हि नपुंसकं च ।
बालो युवा स्थविरो देवदंष्ट्रा त्वन्नो गिरिर्विश्वकृद् विश्वहर्ता ॥ २६।१४४ ॥
त्वं वै धाता विश्वकृतां वरेण्यस् त्वां पूजयन्ति प्रणताः सदैव ।
चन्द्रादित्यौ चक्षुषी ते भवान् हि त्वमेव चाग्निः प्रपितामहश्च ।
आराध्य त्वां सरखतीं वाग्लभन्ते अहोरात्रे निमिषोन्मेषकर्ता ॥ २६।१४५ ॥
न ब्रह्मा न च गोविन्दः पौराणा ऋषयो न ते ।
माहात्म्यं वेदितुं शक्ता यातातथ्येन शङ्कर ॥ २६।१४६ ॥
पुंसां शतसहस्राणि यत्समावृत्य तिष्ठति ।
महतस्तमसः पारे गोप्ता मन्ता भवान् सदा ॥ २६।१४७ ॥
यं विनिद्रा जितश्वासाः सत्त्वस्थाः संयतेन्द्रियाः ।
ज्योतिः पश्यन्ति युञ्जानास्तस्मै योगात्मने नमः ॥ २६।१४८ ॥
या मूर्तयश्च सूक्ष्मास्ते न शक्या या निदर्शितुम् ।
ताभिर्मां सततं रक्ष पिता पुत्रमिवौरसम् ॥ २६।१४९ ॥
रक्ष मां रक्षणीयो ऽहं तवानघ नमो ऽस्तु ते ।
भक्तानुकम्पी भगवान् भक्तश्चाहं सदा त्वयि ॥ २६।१५० ॥
जटिने दण्डिने नित्यं लम्बोदरशारीरिणे ।
कमण्डलुनिषङ्गाय तस्मै रुद्रात्मने नमः ॥ २६।१५१ ॥
यस्य केशेषु जीमूता नद्याः सर्वाङ्गसन्धिषु ।
कुक्षौ समुद्रश्चत्वारस्तस्मै तोयात्मने नमः ॥ २६।१५२ ॥
सम्भक्ष्य सर्वभूतानि युगान्ते पर्युपस्थिते ।
यः शेते जलमध्यस्थस्तं प्रपद्ये ऽम्बुशायिनम् ॥ २६।१५३ ॥
प्रविश्य वदनं राहोर्यः सोमं पिबते निशि ।
ग्रसत्यर्कं च खर्भानू रक्षितस्तव तेजसा ॥ २६।१५४ ॥
ये चात्र पतिता गर्भा रुद्रगन्धस्य रक्षेण ।
नमस्ते ऽस्तु खधा खाहा प्राप्नुवन्ति तदद्भुते ॥ २६।१५५ ॥
ये ऽङ्गुष्ठमात्राः पुरुषा देहस्थाः सर्वदेहिनाम् ।
रक्षन्तु ते हि मां नित्यं ते मामाप्याययन्तु वै ॥ २६।१५६ ॥
ये नदीषु समुद्रेषु पर्वतेषु गुहासु च ।
वृभमूलेषु गोष्ठेषु कान्तारगहनेषु च ॥ २६।१५७ ॥
चतुष्पथेषु रथ्यासु चत्वरेषु सभासु च ।
हस्त्यश्वरथशालासु जीर्णोद्यानालयेषु च ॥ २६।१५८ ॥
ये च पञ्चसु भूतेषु दिशासु विदिशासु च ।
चन्द्रार्कयोर्मध्यागता ये च चन्द्रार्करश्मिषु ॥ २६।१५९ ॥
रसातलगता ये च ये च तस्मात् परं गताः ।
नमस्तेभ्यो नमस्तेभ्यो नमस्तेभ्यश्च नित्यशः ॥ २६।१६० ॥
येषां न विद्यते सङ्ख्या प्रमाणं रूपमेव च ।
असङ्ख्येयगणा रुद्रा नमस्तेभ्यो ऽस्तु नित्यशः ॥ २६।१६१ ॥
प्रसीद मम भद्रं ते तव भावगतस्य च ।
त्वयि मे हृदयं देव त्वयि बुद्धिर्मतिस्त्वयि ॥ २६।१६२ ॥
स्तुत्वैवं स महादेवं विरराम द्विजोत्त्मः ॥ २६।१६३ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये षड्विंशो ऽध्यायः