२५

सनत्कुमार उवाच
स्थाणोर्वटस्योत्तरतः सुक्रतीर्थं प्रकीर्तितम् ।
स्थाणोर्वटस्य पूर्वेण सोमतीर्थं द्विजोत्तम ॥ २५।१ ॥
स्थाणोर्वटं दक्षिणतो दक्षतीर्थमुदाहृतम् ।
स्थाणोर्वटात् पश्चिमतः स्कन्दतीर्थं प्रतिष्ठितम् ॥ २५।२ ॥
एतानि पुण्यतीर्तानि मध्ये स्थाणुरिति स्मृतः ।
तस्य दर्शनमात्रेण प्राप्नोति परमं पदम् ॥ २५।३ ॥
अष्टम्यां च चतुर्दश्यां यस्त्वेतानि परिक्रमेत् ।
पदे पदे यज्ञफलं स प्राप्नोति न शंशयः ॥ २५।४ ॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तदा ।
मरुद्भिर्वह्निभिश्चैव सेवितानि प्रयत्नतः ॥ २५।५ ॥
अन्ये ये प्राणिनः केचित् प्रविष्टाः स्थाणुमुत्तमम् ।
सर्वपापविनिर्मुक्ताः प्रयान्ति परमां गतिम् ॥ २५।६ ॥
अस्ति तत्सन्निधौ लिङ्गं देवदेवस्य शूलिनः ।
उमा च लिङ्गरूपेण हरपार्श्वं न मुञ्चति ॥ २५।७ ॥
तस्य दर्शनमात्रेण सिद्धिं प्राप्नोति मानवः ।
वटस्य उत्तरे पार्श्वे तक्षकेण महात्मना ॥ २५।८ ॥
प्रतिष्ठितं महालिङ्गं सर्वकामप्रदायकम् ।
वटस्य पूर्वदिग्भागे विश्वकर्मकृतं महत् ॥ २५।९ ॥
लिङ्गं प्रत्यङ्मुखं दृष्ट्वा सिद्धिमाप्नोति मानवः ।
तत्रैव लिङ्गरूपेण स्थिता देवी सरस्वती ॥ २५।१० ॥
प्रणम्य तां प्रयत्नेन बुद्धिं मेधां च विन्दति ।
वटपार्श्वे स्थितं लिङ्गं ब्रह्मणा तत् प्रतिष्ठितम् ॥ २५।११ ॥
दृष्ट्वा वटेश्वरं देवं प्रयाति परमं पदम् ।
ततः स्थाणुवटं दृष्ट्वा कृत्वा चापि प्रदक्षिणम् ॥ २५।१२ ॥
प्रदिक्षिणीकृता तेन सप्तद्वीपा वसुन्धरा ।
स्थाणोः पश्चिमदिग्बागे नकुलीशो गणः स्मृतः ॥ २५।१३ ॥
तमभ्यर्च्य प्रयत्नेन सर्वपापैः प्रमुच्यते ।
तस्य दक्षिणदिग्भागे तीर्थं रुद्रकरं स्मृतम् ॥ २५।१४ ॥
तस्मिन् स्नातः सर्वतीर्थे स्नातो भवति मानवः ।
तस्य चोत्तरदिग्भागे रावणेन महात्मना ॥ २५।१५ ॥
प्रतिष्ठितं महालिङ्गं गोकर्णं नाम नामतः ।
आषाढमासे या कृष्णा भविष्यति चतुर्दशी ।
तस्यां योर्ऽचति गोकर्णं तस्य पुण्यफलं शृणु ॥ २५।१६ ॥
कामतो ऽकामतो वापि यत् पापं तेन सञ्चितम् ।
तस्माद् विमुच्यते पापात् पूजयित्वा हरं शुचिः ॥ २५।१७ ॥
कौमारब्रह्मचर्येण यत्पुण्यं प्राप्यते नरैः ।
तत्पुण्यं सकलं तस्य अष्टम्यां योर्ऽचयेच्छिवम् ॥ २५।१८ ॥
यदीच्छेत् परमं रूपं सौभाग्यं धनसम्पदः ।
कुमारेश्वरमाहात्म्यात् सिद्ध्यते नात्र संशयः । ।
२५।१९ तस्य चोत्तरदिग्बागे लिङ्गं पूज्य विभीषणः ।
अजरश्चामरश्चैव कल्पयित्वा बभूव ह ॥ २५।२० ॥
आषाढस्य तु मासस्य शुक्ला या चाष्टमी भवेत् ।
तस्यां पूज्य सोपवासो ह्यमृतत्वमवाप्नुयात् ॥ २५।२१ ॥
खरेण पूजितं लिङ्गं तस्मिन् स्थाने द्विजोत्तम ।
तं पूजयित्वा यत्नेन सर्वकामानवाप्नुयात् ॥ २५।२२ ॥
दूषणस्त्रिशिराश्चैव तत्र पूज्य महेश्वरम् ।
यथाभिलषितान् कामानापतुस्तौ मुदान्वितौ ॥ २५।२३ ॥
चैत्रमासे सिते पक्षे यो नरस्तत्र पूजयेत् ।
तस्य तौ वरदौ देवौ प्रयच्छेते ऽभिवाञ्छितम् ॥ २५।२४ ॥
स्थाणोर्वटस्य पूर्वोण हस्तिपादेश्वरः शिवः ।
तं दृष्ट्वा मुच्यते पापैरन्यजन्मनि सम्भवैः ॥ २५।२५ ॥
तस्य दक्षिणतो लिङ्गं हारीतस्य ऋषेः स्थितम् ।
यत् प्रणण्य प्रयत्नेन सिद्धिं प्राप्नोति मानवः ॥ २५।२६ ॥
तस्य दक्षिणपार्श्वे तु वापीतस्य महात्मनः ।
लिह्गं त्रैलोक्यविख्यातं सर्वपापहरं शिवम् ॥ २५।२७ ॥
कङ्गालरूपिणा चापि रुद्रेण सुमहात्मना ।
प्रतिष्ठितं महालिङ्गं सर्वपापप्रणशनम् ॥ २५।२८ ॥
भुक्तिदं मुक्तिदं प्रोक्तं सर्वकिल्बिषनाशनम् ।
लिङ्गस्य दर्शनाच्चैव अग्निष्टोमफलं लभेत् ॥ २५।२९ ॥
तस्य पश्चिमदिग्भागे लिङ्गं सिद्धप्रतिष्ठितम् ।
सिद्धेश्वरं तु विख्यातं सर्वसिद्धिप्रदायकम् ॥ २५।३० ॥
तस्य दक्षिणदिग्बागे मृकण्डेन महात्मना ।
तत्र प्रतिष्ठितं लिङ्गं दर्शनात् सिद्धिदायकम् ॥ २५।३१ ॥
तस्य पूर्वे च दिग्भागे आदित्येन महात्मना ।
प्रतिष्ठितं लिङ्गवरं सर्वकिल्बिषनाशनम् ॥ २५।३२ ॥
चित्राङ्गदस्तु गन्धर्वो रम्भा चाप्सरसां वरा ।
परस्परं सानुरागौ स्थाणुदर्शनकाङ्क्षिणौ ॥ २५।३३ ॥
दृष्ट्वा स्थाणुं पूजयित्वा सानुरागौ परस्परम् ।
आराध्य वरदं देवं प्रतिष्ठाप्य महेश्वरम् ॥ २५।३४ ॥
चित्राङ्गदेश्वरं दृष्ट्वा तथा रम्भेश्वरं द्विज ।
सुभगो दर्शनीयश्च कुले जन्म समाप्नुयात् ॥ २५।३५ ॥
तस्य दभिणतो लिङ्गं वज्रिणा स्थापितं पुरा ।
तस्य प्रसादात् प्राप्नोति मनसा चिन्तितं फलम् ॥ २५।३६ ॥
पराशरेण मुनिना ततैवाराध्य शङ्करम् ।
प्राप्तं कवित्वं परमं दर्शनाच्छङ्करस्य च ॥ २५।३७ ॥
वेदव्यासेन मुनिना आराध्य परमेश्वरम् ।
सर्वज्ञत्वं ब्रह्मज्ञानं प्राप्तं देवप्रसादतः ॥ २५।३८ ॥
स्थाणोः पश्चिमदिग्भागे वायुना जगदायुना ।
प्रतिष्ठितं महालिङ्गं दर्शनात् पापनाशनम् ॥ २५।३९ ॥
तस्यापि दक्षिणे भागे लिङ्गं हिमवतेश्वरम् ।
प्रतिष्ठितं पुण्यकृतां दर्शनात् सिद्धिकारकम् ॥ २५।४० ॥
तस्यापि पश्चिमे भागे कार्तवीर्येण स्थापितम् ।
लिङ्गं पापहरं सद्यो कार्तनात् पुण्यमाप्नुयात् ॥ २५।४१ ॥
तस्याप्युत्तरदिग्भागो सुपार्श्वे स्थापितं पुनः ।
आराध्य हनुमांश्चाप सिद्धिं देवप्रसादतः ॥ २५।४२ ॥
तस्यैव पूर्वदिग्भागे विष्णुना प्रभविष्णुना ।
आराध्य वरदं देवं चक्रं लब्धं सुदर्शनम् ॥ २५।४३ ॥
तस्यापि पूर्वादिघ्भागे मित्रेण वरुणेन च ।
प्रतिष्ठितौ लिङ्गवरौ सर्वकामप्रदायकौ ॥ २५।४४ ॥
एतानि मुनिभिः साध्यैरादित्यैर्वसुभिस्तथा ।
सेवितानि प्रयत्नेन सर्वपापहराणि वै ॥ २५।४५ ॥
खर्णलिङ्गस्य पश्चात्तु ऋषिभिस्तत्त्वदर्शिभिः ।
प्रतिष्ठितानि लिङ्गानि येषां सङ्ख्या न विद्यते ॥ २५।४६ ॥
तथा ह्युत्तरतस्तस्य यावदोघवती नदी ।
सहस्रमेकं लिङ्गानां देवपश्चिमतः स्थितम् ॥ २५।४७ ॥
तस्यापि पूर्वदिग्भागे बालखिल्यैर्महात्मभिः ।
प्रतिष्ठिता रुद्रकोटिर्यावत्सन्निहितं सरः ॥ २५।४८ ॥
दक्षिणेन तु देवस्य गन्धर्वैर्यक्षकिन्नरैः ।
प्रतिष्ठितानि लिङ्गानि येषां सङ्ख्या न विद्यते ॥ २५।४९ ॥
तिस्रः कोट्योर्ऽधकोटी च लिङ्गानां वायुरब्रवीत् ।
असङ्ख्याताः सहस्राणि ये रुद्राः स्थाणुमाश्रिताः ॥ २५।५० ॥
एतज्ज्ञात्वा श्रद्दधानः स्थाणुलिङ्गं समाश्रयेत् ।
यस्य प्रसादात् प्राप्नोति मनसा चिन्तितं फलम् ॥ २५।५१ ॥
अकामो वा सकामो वा प्रविष्टः स्थाणुमन्दिरम् ।
विमुक्तः पातकैर्घोरैः प्राप्नोति परमं पदम् ॥ २५।५२ ॥
चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः ।
शुक्रार्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ॥ २५।५३ ॥
प्रतिष्ठितं स्थाणुलिङ्गं ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसङ्घैश्च पूजितं शाश्वतीः समाः ॥ २५।५४ ॥
तस्मिन् काले निराहारा मानवाः श्रद्धयान्विताः ।
पूजयन्ति शिवं ये वै ते यान्ति परमं पदम् ॥ २५।५५ ॥
तदारूढमिदं ज्ञात्वा ये कुर्वन्ति प्रदक्षिणम् ।
प्रदक्षिणीकृता तैस्तु सप्तद्वीपा वसुन्धरा ॥ २५।५६ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये पञ्चविशो ऽध्यायः