२४

सनत्कुमार उवाच
अथोवाच महादेवो देवान् ब्रह्मपुरोगमान् ।
ऋषीणां चैव प्रैत्यक्षं तीर्थमाहात्म्यमुत्तमम् ॥ २४।१ ॥
एतत् सान्निहितं प्रोक्तं सरः पुण्यतमं महत् ।
मयोपसेवितं यस्मात् तस्मान्मुक्तिप्रदायकम् ॥ २४।२ ॥
इह ये पुरुषाः केचिद् ब्राह्मणाः क्षत्रिया विशः ।
लिङ्गस्य दर्शनादेव पश्यन्ति परमं पदम् ॥ २४।३ ॥
अहन्यहनि तीर्थानि आसमुद्रसरांसि च ।
स्थाणुतीर्थं समेष्यन्ति मध्यं प्राप्ते दिवाकरे ॥ २४।४ ॥
स्तोत्रेणानेन च नरो यो मां स्तोष्यति भक्तितः ।
तस्याहं सुलभो नित्यं भविष्यामि न संशयः ॥ २४।५ ॥
इत्युक्त्वा भगवान् रुद्रो ह्यन्तर्धानं गतः प्रभुः ।
देवाश्च ऋषयः सर्वे स्वानि स्थानानि भेहिरे ॥ २४।६ ॥
ततो निरन्तरं स्वर्गं मानुषैर्मिश्रितं कृतम् ।
स्थाणुलिङ्गस्य माहात्म्य दर्शनात्स्वर्गमाप्नुयात् ॥ २४।७ ॥
ततो देवाः सर्व एव ब्रह्माणं शरणं ययुः ।
तानुवाच तदा ब्रह्मा किमर्थमिह चागताः ॥ २४।८ ॥
ततो देवाः सर्व एव इदं वचनमब्रुवन् ।
मानुषेभ्यो भयं तीव्रं रक्षास्माकं पितामह ॥ २४।९ ॥
तानुवाच तदा ब्रह्मा सुरांस्त्रिदशनायकः ।
पांशुना पूर्यतां शीघ्रं सरः शक्रे हितं कुरु ॥ २४।१० ॥
ततो ववर्ष भगवान् पांशुना पाकशासनः ।
सप्ताहं पूरयामास सरो देवैस्तदा वृतः ॥ २४।११ ॥
तं दृष्ट्वा पांशुवर्षं च देवदेवो महेश्वरः ।
करेण धारयामास लिङ्गं तीर्थवटं तदा ॥ २४।१२ ॥
तस्मात् पुण्यतमं तीर्थमाद्यं यत्रोदकं स्थितम् ।
तस्मिन् स्नातः सर्वतीर्थैः स्नातो भवति मानवः ॥ २४।१३ ॥
यस्तत्र कुरुते श्राद्धं वटलिङ्गस्य चान्तरे ।
तस्य प्रीताश्च पितरो दास्यन्ति भुवि दुर्लभम् ॥ २४।१४ ॥
पूरितं त चचो दृष्ट्वा ऋषयः सर्व एव ते ।
पांशुना सर्वगात्राणि स्पृशन्ति श्रद्धया युताः ॥ २४।१५ ॥
ते ऽपि निर्धूतपापास्ते पांशुना मुनयो गताः ।
पूज्यमानाः सुरगणैः प्रयाता ब्रह्मणः पदम् ॥ २४।१६ ॥
ये तु सिद्धा महात्मानस्ते लिङ्गं पूजयन्ति च ।
व्रजन्ति परमां सिद्धिं पुनरावृत्तिदुर्लभाम् ॥ २४।१७ ॥
एवं ज्ञात्वा तदा ब्रह्मा लिङ्गं शैलमयं तदा ।
आद्यलिङ्गं तदा स्थाप्य तस्योपरि दधार तत् ॥ २४।१८ ॥
ततः कालेन महता तेजसा तस्य रञ्जितम् ।
तस्यापि स्पर्शनात् सिद्धः परं पदमवाप्नुयात् ॥ २४।१९ ॥
ततो देवैः पुनर्ब्रह्मा विज्ञप्तो द्विजसत्तम ।
एते यान्ति परां सिद्धिं लिङ्गस्य दर्शनान्नराः ॥ २४।२० ॥
तच्छ्रुत्वा भगवान् ब्रह्मा देवानां हितकाम्यया ।
उपर्युपरि लिङ्गानि सप्त तत्र चकार ह ॥ २४।२१ ॥
ततो ये मिक्तिकामाश्च सिद्धाः शमपरायणाः ।
सेव्य पांशुं प्रयत्नेन प्रयाताः परमं पदम् ॥ २४।२२ ॥
पांशवो ऽपि कुरुक्षेत्रे वायुना समुदीरिताः ।
महादुष्कृतकर्माणं प्रयान्ति परमं पदम् ॥ २४।२३ ॥
अज्ञानाज्ज्ञानतो वापि स्त्रियो वा पुरुषस्य वा ।
नश्यते दुष्कृतं सर्वं स्थाणुतीर्थप्रभावतः ॥ २४।२४ ॥
लिङ्गस्य दर्शनान्मुक्तिः स्पर्शनाच्च वटस्य च ।
तत्सन्निधौ जले स्नात्वा प्राप्नोत्यभिमतं फलम् ॥ २४।२५ ॥
पितृणां तर्पणं यस्तु जले तस्मिन् करिष्यति ।
बिन्दो बिन्दौ तु तोयस्य अनन्तफलभाग्भवेत् ॥ २४।२६ ॥
यस्तु कृष्णतिलैः सार्द्ध लिङ्गस्य पश्चिमे स्थितः ।
तर्पयेच्छ्रद्धया युक्तः स प्रीणाति युगत्रयम् ॥ २४।२७ ॥
यावन्मन्वन्तरं प्रोक्तं यावल्लिङ्गस्य संस्थितिः ।
तापत्प्रीताश्च पितरः पिबन्ति जलमुत्तमम् ॥ २४।२८ ॥
कृते युगे सान्निहत्यं त्रेतायां वायुसञ्ज्ञितम् ।
कलिद्वापरयोर्मध्ये कूपं रुद्रह्रदं स्मृतम् ॥ २४।२९ ॥
चैत्रस्य कृष्णपक्षे च चतुर्दश्यां नरोत्तमः ।
स्नात्वा रुद्रह्रदे तीर्थे परं पदमवाप्नुयात् ॥ २४।३० ॥
यस्तु वटे स्थितो रात्रिं ध्यायते परमेश्वरम् ।
स्थाणोर्वटप्रसादेन मनसा चिन्तितं फलम् ॥ २४।३१ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्विंशो ऽध्यायः