२२

ऋषय ऊचुः
स्थाणुतीर्थस्य माहात्म्यं वटस्य च महामुने ।
सान्निहत्यसरोत्पत्तिं पूरणं पांशुना ततः ॥ २२।१ ॥
लिङ्गानां दर्शनात् पुण्यं स्पर्शनेन च किं फलम् ।
तथैव सरमाहात्म्यं ब्रूहि सर्वमशेषतः ॥ २२।२ ॥
लोमहर्षण उवाच
शृण्वन्तु मुनयः सर्वे पुराणं वामनं महत् ।
यच्छ्रुत्वा मुक्तिमाप्नोति प्रसादाद् वामनस्य तु ॥ २२।३ ॥
सनत्कुमारमासीनं स्थाणोर्वटसमीपतः ।
ऋषिभिर्बालखिल्याद्यैर्ब्रह्मपुत्रैर्महात्मभिः ॥ २२।४ ॥
मार्कण्डेयो मुनिस्तत्र विनयेनाभिगम्य च ।
पप्रच्छ सरमाहात्म्यं प्रमाणां च स्थितिं तथा ॥ २२।५ ॥
मार्कण्डेय उवाच
ब्रह्मपुत्र महाभाग सर्वेशास्त्रविशारद ।
ब्रूहि मे सरमाहात्म्यं सर्वपापक्षयावहम् ॥ २२।६ ॥
कानि तीर्थानि दृश्यानि गुह्यानि द्विजसत्तम ।
लिङ्गानि ह्यतिपुण्यानि स्थाणोर्यानि समीपतः ॥ २२।७ ॥
येषां दर्शनामात्रेण मुक्तिं प्राप्नोति मानवः ।
वटस्य दर्शनं पुण्यमुत्पत्ति कथयस्व मे ॥ २२।८ ॥
प्रदक्षिणायां यत्पुण्यं तीर्थस्नानेन यत्फलम् ।
गुह्येषु चैव दृष्टेषु यत्पुण्यमभिजायते ॥ २२।९ ॥
देवदेवो यता स्थाणुः सरोमध्ये व्यवस्थितः ।
किमर्थं पांशुना शक्रस्तीर्थं पूरितवान् पुनः ॥ २२।१० ॥
स्थाणुतीर्थस्य माहात्म्यं चक्रतीर्थस्य यत्फलम् ।
सूर्यतीर्थस्य माहात्म्यं सोमतीर्थस्य ब्रूहि मे ॥ २२।११ ॥
सङ्करस्य च कुह्यानि विष्णोः स्तानानि यानि च ।
कथयस्य महाभाग सरस्वत्याः सविस्तरम् ॥ २२।१२ ॥
ब्रूहि देवाधिदेवस्य माहात्म्यं देव तत्त्वतः ।
विरिञ्जस्य प्रसादेन विदितं सर्वमेव च ॥ २२।१३ ॥
लोमहर्षण उवाच।
मार्कण्डेयवचः श्रुत्वा ब्रह्मत्मा स महामुनिः ।
अतिभक्त्या तु तीर्थस्य प्रवणीकृतमानसः ॥ २२।१४ ॥
पर्यङ्कं शिथिलीकृत्वा नमस्कृत्वा महेश्वरम् ।
कथयामास तत्सर्वं यच्छ्रुतं ब्रह्मणः पुरा ॥ २२।१५ ॥
सनत्कुमार उवाच
नमस्कृत्य महादेवमीशानं वरदं शिवम् ।
उत्पत्ति च प्रवक्ष्यामि तीर्थानां ब्रह्मभाषिताम् ॥ २२।१६ ॥
पूर्वमेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।
बृहदण्डमभूदेकं प्रजानां बीजसम्भवम् ॥ २२।१७ ॥
तस्मिन्नण्डे स्थितो ब्रह्मा शयनायोपचक्रमे ।
सहस्रयुगपर्यन्तं सुप्त्वा स प्रत्यबुध्यत ॥ २२।१८ ॥
सुप्तोत्थितस्तदा ब्रह्मा शून्यं लोकमपश्यत ।
सृष्टिं चिन्तयतस्तस्य रजसा मोहितस्य च ॥ २२।१९ ॥
रजः सृष्टिगुणं प्रोक्तं सत्त्वं स्थितिगुणं विदुः ।
उपसंहारकाले च तमोगुमः प्रवर्तते ॥ २२।२० ॥
गुणातीतः स भगवान् व्यापकः पुरुषः स्मृतः ।
तेनदं सकलं व्याप्तं यत्किञ्चिञ्जीवसञ्ज्ञितम् ॥ २२।२१ ॥
स ब्रह्म स च गोविन्द ईश्वरः स सनातनः ।
यस्तं वेद महात्मानं स सर्वं वेद मोक्षवित् ॥ २२।२२ ॥
किं तेषां सकलैस्तीर्थैराश्रमैर्वा प्रयोजनम् ।
येषामनन्तकं चित्तमात्मन्येव व्यवस्थितम् ॥ २२।२३ ॥
आत्मा नदी संयमपुण्यतीर्था सत्योदका शीलमाधियुक्ता ।
तस्यां स्नातः पुण्यकर्मा पुनाति न विरिणा सुद्ध्यति चान्तरात्मा ॥ २२।२४ ॥
एतत्प्रधानं पुरुषस्य कर्म यदात्मसम्बोधसुखे प्रविष्टम् ।
ज्ञेयं तदेव प्रवदन्ति सन्तस्तत्प्राप्य देही विजहाति कामान् ॥ २२।२५ ॥
नैतादृसं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च ।
शीले स्थितिर्दण्डविधानवर्जनमक्रोधनश्चोपरमः क्रियाभ्यः ॥ २२।२६ ॥
एतद् ब्रह्म समासेन मयोक्तं ते द्विजोत्तम ।
यज्ज्ञात्वा ब्रह्म परमं प्राप्स्यसि त्वं न संशयः ॥ २२।२७ ॥
इदानीं शृणु चोत्पत्तिं ब्रह्मणः परमात्मनः ।
इमं चोदाहरन्त्येव श्लोकं नारायणं प्रति ॥ २२।२८ ॥
आपो नारा वै तनव इत्येवं नाम शुश्रुमः ।
तासु शेते स यस्माच्च तेन नारायणः स्मृतः ॥ २२।२९ ॥
विबुद्धः सलिले तस्मिन् विज्ञायान्तर्गतं जगत् ।
अण्डं बिभेद भगवांस्तस्मादोमित्यजायत ॥ २२।३० ॥
ततो भूरभवत् तस्माद् भुव इत्यपरः स्मृतः ।
स्वः शब्दश्च तृतीयो ऽभद् भूर्भुवः स्वेति सञ्ज्ञितः ॥ २२।३१ ॥
तस्मात्तेजः समभवत् तत्सवितुर्वरेण्यं यत् ।
उदकं शोषयामास यत्तेजो ऽण्डविनिःसृतम् ॥ २२।३२ ॥
तेजसा शोषितं शेषं कललत्वमुपागतम् ।
कललाद् बुद्बुदं ज्ञेयं ततः काठिन्यतां गतम् ॥ २२।३३ ॥
काठिन्याद् धरणी ज्ञेय भूतानां धारिणी इह सा ।
यस्मिन् स्तानेस्थितं ह्यण्डं तस्मिन् सन्निहितंसरः ॥ २२।३४ ॥
यदाद्यं निःसृतं तेजस्तस्मादादित्य उच्यते ।
अण्डमध्ये समुत्पन्नो ह्रह्मा लोकपितामहः ॥ २२।३५ ॥
उल्बं तस्याभवन्मेरुर्जरायुः पर्वताः स्मृताः ।
गर्भोदकं समुद्राश्च तथा नद्यः सहस्रशः ॥ २२।३६ ॥
नाभिस्थाने यदुदकं ब्रह्मणो निर्मलं महत् ।
महत्सरस्तेन पूर्णं विमलेन वराम्भसा ॥ २२।३७ ॥
तस्मिन् मध्ये स्थाणुरूपी वृटवृक्षो महामनः ।
तस्माद् विनिर्गता वर्णा ब्राह्मणाः क्षत्रिया विशः ॥ २२।३८ ॥
शूद्राश्च तस्मादुत्पन्नाः शुश्रूषार्थं द्विजन्मनाम् ।
ततश्चिन्तयतः सृष्टिं ब्रह्मणो ऽव्यक्तजन्मनः ।
मनसा मानसा जाताः सनकाद्या महर्षयः ॥ २२।३९ ॥
पुनश्चिन्तयतस्तस्य प्रजाकामस्य धीमतः ।
उत्पन्ना ऋषयः सप्त ते प्रजापतयो ऽभवन् ॥ २२।४० ॥
पुनश्चिन्तयतस्तस्य रजसा मोहितस्य च ।
बालखिल्याः समुत्पन्नास्तपःस्वाध्यायतत्पराः ॥ २२।४१ ॥
ते सदा स्नाननिरता देवार्चनपरायणाः ।
उपवासैर्व्रतैस्तीव्रैः शोषयन्ति कलेवरम् ॥ २२।४२ ॥
वानप्रस्थेन विधिना अग्निहोत्रसमन्विताः ।
तपसा परमेणेह शोषयन्ति कलेवरम् ॥ २२।४३ ॥
दिव्यं वर्षसहस्रं ते कृशा धमनिसन्तताः ।
आराधयन्ति देवेशं न च तुष्यति शङ्करः ॥ २२।४४ ॥
ततः कालेन महता उमया सह शङ्करः ।
आकाशमार्गेण तदा दृष्ट्वा देवी सुदुःखिताः ॥ २२।४५ ॥
प्रसाद्य देवदेवेशं शङ्करं प्राह सुव्रता ।
क्लिश्यन्ते ते मुनिगणा देवदारुवनाश्रयाः ॥ २२।४६ ॥
तेषां क्लेशक्षयं देव विधेहि कुरु मे दयाम् ।
किं वेदधर्मनिष्ठनामनन्तं देव दृष्कृतम् ॥ २२।४७ ॥
नाद्यापि येन शुद्ध्यन्ति शुष्कस्नाय्वस्थिसोषिताः ।
तच्छ्रुत्वा वचनं देव्याः पिनाकी पातितान्धकः ।
प्रोवाच प्रहसन् मूर्ध्नि चारुचन्द्रांशुशोभितः ॥ २२।४८ ॥
श्रीमहादेव उवाच
न वेत्सि देवि तत्त्वेन धर्मस्य गहना गतिः ।
नैते धर्मं विजानन्ति न च कामविवर्जिताः ॥ २२।४९ ॥
न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।
एतच्छ्रुत्वाब्रवीद् देवी मा मैवं शंसितव्रतान् ॥ २२।५० ॥
देव प्रदर्शयात्मानं परं कौतूहलं हि मे ।
स इत्युक्त उवाचेदं देवीं देवः स्मिताननाः ॥ २२।५१ ॥
तिष्ठ त्वमत्र यास्यामि यत्रैते मुनिपुङ्गवाः ।
साधयन्ति तपो घोरं दर्शयिष्यामि चेष्टितम् ॥ २२।५२ ॥
इत्युक्ता तु ततो देवी शङ्करेण महात्मना ।
गच्छस्वेत्याह मुदिता भर्तरं भुवनेश्वरम् ॥ २२।५३ ॥
यत्र ते मुनयः सर्वे काष्ठलेष्टसमाः स्थिताः ।
अधीयाना महाभागाः कृताग्निसदनक्रियाः ॥ २२।५४ ॥
तान् विलोक्य ततो देवो नग्नः सर्वाङ्गसुन्दरः ।
वनमालाकृतापीडो युवा भिक्षाकपालभृत् ॥ २२।५५ ॥
आश्रमे पर्यटन् भिक्षां मुनीनां दर्शनं प्रति ।
देहि भिक्षां ततश्चोक्त्वा ह्याश्रमादाश्रमं ययौ ॥ २२।५६ ॥
तं विलोक्याश्रमगतं योषितो ब्रह्मवादिनाम् ।
सकौतुकस्वभावेन तस्य रूपेम मोहिताः ॥ २२।५७ ॥
प्रोचुः परस्परं नार्य एहि पश्याम भिश्रुकम् ।
परस्परमिति चोक्त्वा गृह्य मूलफलं बहु ॥ २२।५८ ॥
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ।
स तु भिक्षाकपालं तं प्रसार्य बहु सादरम् ॥ २२।५९ ॥
देहि देहि शिवं वो ऽस्तु भवतीभ्यस्तपोवने ।
हसमानस्तु देवोसस्तत्र देव्या निरीक्षितः ।
तस्मै दत्त्वैव तां भिक्षां पप्रच्छुस्तं स्मरातुराः ॥ २२।६० ॥
नार्य ऊचुः
को ऽसौ नाम व्रतविधिस्त्वया तापस सेव्यते ।
यत्र नग्नेन लिङ्गेन वनमालाविभूषितः ।
भवान् वै तापसो हृद्यो हृद्याः स्मो यदि मन्यसे ॥ २२।६१ ॥
इत्युक्तस्तापसीभिस्तु प्रोवाच हसिताननः ।
इदमीदृग् व्रतं किञ्चिन्न रहस्यं प्रकाश्यते ॥ २२।६२ ॥
शृण्वन्ति बहवो यत्र तत्र व्याख्या न विद्यते ।
अस्य व्रतस्य सुभगा इति मत्वा गमिष्यथ ॥ २२।६३ ॥
एवमुक्तास्तदा तेन ताः प्रत्यूचुस्तदा मुनिम् ।
रहस्ये हि गमिष्यामो मुने नः कैतुकं महत् ॥ २२।६४ ॥
इत्युक्त्वा तास्तदा तं वै जगृहुः पाणिपल्लवैः ।
काचित् कण्ठे सकन्दर्पा बाहुभ्यामपरास्तथा ॥ २२।६५ ॥
जानुभ्यामपरा नार्यः केशेषु ललितापराः ।
अपरास्तु कटीरन्ध्रे अपराः पादयोरपि ॥ २२।६६ ॥
क्षोभं विलोक्य मुनय आश्रमेषु स्वयोषिताम् ।
हन्यतामिति सम्भाष्य काष्ठपाषाणपाणयः ॥ २२।६७ ॥
पातयन्ति स्म देवस्य लिङ्गमुद्धृत्य भीषणम् ।
पातिते तु ततो लिङ्गे गतो ऽन्तर्धानमीश्वरः ।
२२।६८ देव्या स भगवान् रुद्रः कैलासं नगमाश्रितः ।
पतिते देवदेवस्य लिङ्गे नष्टे चराचरे ॥ २२।६९ ॥
क्षोभो बभूव सुमहानृषीणां भावितात्मनाम् ।
एवं देवे तदा तत्र वर्तति व्याकुलीकृते ॥ २२।७० ॥
उवाचैको मुनिवरस्तत्र बुद्धिमतां वरः ।
न वयं विद्मः सद्भावं तापसस्य महात्मनः ॥ २२।७१ ॥
विरिञ्चिं शरणं यामः स हि ज्ञास्यति चेष्टितम् ।
एवमुक्ताः सर्व एव ऋषयो लञ्जिता भृशम् ॥ २२।७२ ॥
ब्रह्मणः सदनं जग्मुर् देवैः सह निषेवितम् ।
प्रणिपत्याथ देवेशं लञ्जयाधोमुखाः स्थिताः ॥ २२।७३ ॥
अथ तान् दुःखितान् दृष्ट्वा ब्रह्म वचनमब्रवीत् ।
अहो मुग्धा यदा यूयं क्रोधेन कलुषीकृताः ॥ २२।७४ ॥
न धर्मस्य क्रिया काचिज्ज्ञायते मूढबुद्धयः ।
श्रुयतां धर्मसर्वस्वं तापसाः क्रूरचेष्टितः ॥ २२।७५ ॥
विदित्वा यद् बुधः क्षिप्रं धर्मस्य फलमाप्नुयात् ।
यो ऽसावात्मनि देहे ऽस्मिन् विभुर्नित्योव्यवस्थितः ॥ २२।७६ ॥
सो ऽनादिः स महास्थाणुः पृथक्त्वे परिसूचितः ।
मणिर्यथोपधानेन धत्ते वर्णोज्ज्वलो ऽपि वै ॥ २२।७७ ॥
तन्मयो भवते तद्वदात्मापि मनसा कृतः ।
मनसो भेदमाश्रित्य कर्मभिश्चोपचीयते ॥ २२।७८ ॥
ततः कर्मवशाद् भुङ्क्ते सम्भोगान् स्वर्गनारकान् ।
तन्मनः शोधयेद् धीमान् ज्ञानयोगाद्युपक्रमैः ॥ २२।७९ ॥
तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेव निराकुलः ।
न शरीरस्य सङ्क्लेशैरपि निर्दहनात्मकैः ॥ २२।८० ॥
शुद्धिमाप्नोति पुरुषः संशुद्धं यस्य नो मनः ।
क्रिया हि नियमार्थाय पातकेभ्यः प्रकीर्तिताः ॥ २२।८१ ॥
यस्मादत्याविलं देहं न शीघ्रं शुद्ध्यते किल ।
तेन लोकेषु मार्गो ऽयं सत्पथस्य प्रवर्तितः ॥ २२।८२ ॥
वर्णाश्रमविभागो ऽयं लोकाध्यक्षेण केनचित् ।
निर्मितो मोहमाहात्म्यं चिह्नं चोत्तमभागिनाम् ॥ २२।८३ ॥
भवन्तः क्रोधकामाभ्यामभिभूताश्रमे स्थिताः ।
ज्ञानिनामाश्रमो वेश्म अनाश्रममयोगिनाम् ॥ २२।८४ ॥
क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ।
क्व क्रोधमीदृशं घोरं येनात्मानं न जायथ ॥ २२।८५ ॥
यत्क्रोधनो यजति यद् ददाति यद् वा तपस्तपतिल यज्जुहोति ।
न तस्य प्राप्नोति फलं हि लोके मोघं फलं तस्य हि क्रोधनस्य ॥ २२।८६ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये द्वाविशो ऽध्यायः