२१

ऋषय ऊचुः
काम्यकस्य तु पूर्वेण कुञ्जं देवैर्निषेवितम् ।
तस्य तीर्थस्य सम्भूतिं विस्तरेण ब्रवीहि नः ॥ २१।१ ॥
लोहमर्षण उवाच
शृण्वन्तु मुनयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।
ऋषीणां चरितं श्रुत्वा मुक्तो भवति किल्बिषैः ॥ २१।२ ॥
नैमिषेयाश्च ऋषयः कुरुक्षेत्रे समागताः ।
सरस्वत्यास्तु स्नानार्थं प्रवेशं ते न लेभिरे ॥ २१।३ ॥
ततस्ते कल्पयामासुस्तीर्थं यज्ञोपवीतिकम् ।
शेषास्तु मुनयस्तत्र न प्रवेशं हि लेभिरे ॥ २१।४ ॥
रन्तुकस्याश्रमात्तावद् यावत्तीर्थं सचक्रकम् ।
ब्राह्मणैः परिपूर्णं तु दृष्ट्वा देवी सरस्वती ॥ २१।५ ॥
हितार्थं सर्वविप्राणां कुत्वा कुञ्जानि सा नदी ।
प्रयाता पश्चिमं मार्गं सर्वभूतहिते स्थिता ॥ २१।६ ॥
पूर्वप्रवाहे यः स्नाति गङ्गस्नानफलं लभेत् ।
प्रवाहे दक्षिणे तस्या नर्मदा सरितां वरा ॥ २१।७ ॥
पश्चिमे तु दिशाभागे यमुना संश्रिता नदी ।
यदा उत्तरतो याति सिन्धुर्भवति सा नदी ॥ २१।८ ॥
एवं दिशाप्रवाहेण याति पुण्या सरस्वती ।
तस्यां स्नातः सर्वतीर्थे स्नातो भवति मानवः ॥ २१।९ ॥
ततो गच्छेद् द्विजश्रेष्ठा मदनस्य महात्मनः ।
तीर्थं त्रैलोक्यविख्यातं विहारं नाम नामतः ॥ २१।१० ॥
यत्र देवाः समागम्य शिवदर्शनकाङ्क्षिणः ।
समागता न चापश्यन् देवं देव्या समन्वितम् ॥ २१।११ ॥
ते स्तुवन्तो महादेवं नन्दिनं गणनायकम् ।
ततः प्रसन्नो नन्दीशः कथयामास चेष्टितम् ॥ २१।१२ ॥
भवस्य उमया सार्धं विहारे क्रीडितं महत् ।
तच्छ्रत्वा देवतास्तत्र पत्नीराहूय क्रीडिताः ॥ २१।१३ ॥
तेषां क्रीडाविनोदेन तुष्टः प्रोवच शङ्करः ।
यो ऽस्मिंस्तीर्थेनरः स्नातिविहारे श्रद्धयान्वितः ॥ २१।१४ ॥
धनधान्यप्रियैर्युक्तो भवते नात्र संसयः ।
दुर्गातीर्थं ततो गच्छेद् दुर्गया सेवितं महत् ॥ २१।१५ ॥
यत्र स्नात्वा पितृन् पूज्य न दुर्गतिमवाप्ःऋयात् ।
तत्रापि च सरस्वत्याः कूपं त्रैलोक्यविश्रुतम् ॥ २१।१६ ॥
दर्शनान्मुक्तिमाप्नोति सर्वपातकवर्जितः ।
यस्तत्र तर्पयेत् देवान् पितॄंश् च श्रद्धयान्तवितः ॥ २१।१७ ॥
अक्षय्यं लभते सर्वं पितृतीर्थं विशिष्यते ।
मातृहा पितृहा यश्च ब्रह्महा गुरुतल्पगः ॥ २१।१८ ॥
स्नात्वा शुद्धिमवाप्नोति यत्र प्राची सरस्वती ।
देवमार्गप्रविष्टा च देवमार्गेण निःसृत ॥ २१।१९ ॥
प्रची सरस्वती पुण्या अपि दुष्कृतकर्मणाम् ।
त्रिरात्रं ये करिष्यन्ति प्राचीं प्राप्य सरस्वतीम् ॥ २१।२० ॥
न तेषां दुष्कुतं किञ्चिद् देहमाश्रित्य तिष्ठति ।
नरनारायणौ देवौ ब्रह्मा स्थाणुस्तथा रविः ॥ २१।२१ ॥
प्रचीं दिशं निषेवन्ते सदा देवाः सवासवाः ।
ये तु श्राद्धं करिष्यन्ति प्राचीमाश्रित्य मानवाः ॥ २१।२२ ॥
तेषां न दुर्लभं किञ्चिदिह लोके परत्र च ।
तस्मात् प्राची सदा सेव्या पञ्चम्यां च विशेषतः ॥ २१।२३ ॥
पञ्चम्यां सेवमानस्तु लक्ष्मीवान् जायते नरः ।
तत्र तीर्थमौशनं त्रैलोक्यस्यापि दुर्लभम् ॥ २१।२४ ॥
उशना यत्र संसिद्ध आराध्य परमेश्वरम् ।
ग्रहमध्येषु पूज्यते तस्य तीर्थस्य सेवनात् ॥ २१।२५ ॥
एवं शुक्रेण मुनिना सेवितं तीर्थमुत्तमम् ।
ये सेवन्ते श्रद्दधानास्ते यान्ति परमां गतिम् ॥ २१।२६ ॥
यस्तु श्राद्धं नरो भक्त्या तस्मिंस्तीर्थे करिष्यति ।
पितरस्तारितास्तेन भविष्यन्ति न संशयः ॥ २१।२७ ॥
चतुर्मुखं ब्रह्मतीर्थं सरो मर्यादया स्थितम् ।
ये सेवन्ते चतुर्दश्यां सोपवासा वसन्ति च ॥ २१।२८ ॥
अष्टम्यां कृष्णपक्षस्य चैत्रे मासि द्विजोत्तमाः ।
ते पश्यन्ति परं सूक्ष्मं यस्मान्नावर्तते पुनः ॥ २१।२९ ॥
स्थाणुतीर्थं ततो गच्छेत् सहस्रलिङ्गशोभितम् ।
तत्र स्थाणुवटं दृष्ट्वा मुक्तो भवति किल्बिषैः ॥ २१।३० ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये एकविशो ऽध्यायः