२०

लोमहर्षण उवाच ।
समुद्रास्तत्र चत्वारो दर्विणा आह-ताः पुरा ।
प्रत्येकं तु नरः स्नातो गोसहस्रफलं लभेत् ॥ २०।१ ॥
यत्किञ्चित् क्रियते तस्मिंस्तपस्तीर्थे द्विजोत्तमाः ।
परिपूर्णं हि तत्सर्वमपि दुष्कृतकर्मणः ॥ २०।२ ॥
शतसाहस्रिकं तीर्थं तथैव शतिकं द्विजाः ।
उभयोर्हि नरः स्नातो गोसहस्रफलं लभेत् ॥ २०।३ ॥
सोमतीर्थं च तत्रापि सरस्वत्यास्तटे स्थितम् ।
यस्मिन् स्नातस्तु पुरुषो राजसूयफलं लभेत् ॥ २०।४ ॥
रेणुकाश्रममासाद्य श्रद्दधानो जितेन्द्रियः ।
मातृभक्त्या च यत्पुण्यं तत्फलं प्राप्नुयान्नरः ॥ २०।५ ॥
ऋणैर्मुक्तो भवेन्नित्यं देवर्षिपितृसम्भवैः ।
कुमारस्याभिषेकं च ओजसं नाम विश्रुतम् ॥ २०।६ ॥
तस्मिन् स्नातस्तु पुरुषो यशसा च समन्वितः ।
कुमारपुरमाप्नोति कृत्वा श्राद्धं तु मानवः ॥ २०।७ ॥
चैत्रषष्ठ्यां सिते पक्षे यस्तु श्राद्धं करिष्यति ।
गयाश्राद्धे च यत्पुण्यं तत्पुण्यं प्राप्नुयान्नरः ॥ २०।८ ॥
सन्निहित्यां यथा श्राद्धं राहुग्रस्ते दिवाकरे ।
तथा श्राद्धं तत्र कृतं नात्र कार्या विचारणा ॥ २०।९ ॥
ओजसे ह्यक्षयं श्राद्धं वायुना कथितं पुरा ।
तस्मात् सर्वप्रयत्नेन श्राद्धं तत्र समाचरेत् ॥ २०।१० ॥
यस्तु स्नानं श्रद्दधानश्चैत्रषष्ठ्यां करिष्यति ।
अक्षय्यमुदकं तस्य पितॄणामुपजायते ॥ २०।११ ॥
तत्र पञ्चवटं नाम तीर्थं त्रैलोक्यविश्रुतम् ।
महादेवः स्थितो यत्र योगमूर्तिधरः स्वयम् ॥ २०।१२ ॥
तत्र स्नात्वार्ऽचयित्वा व देवदेवं महेश्वरम् ।
गाणपत्यमवाप्नोति दैवतैः सह मोदते ॥ २०।१३ ॥
कुरुतीर्थं च विख्यातं कुरुणा यत्र वै तपः ।
तप्तं सुघोरं क्षेत्रस्य कर्षणार्थं द्विजोत्तमाः ॥ २०।१४ ॥
तस्य घोरेण तपसा तुष्ट इन्द्रोब्रवीद् वचः ।
राजर्षे परितुष्टो ऽस्मि तपसानेन सुव्रतः ॥ २०।१५ ॥
यज्ञं ये च कुरुक्षेत्रे करिष्यन्ति शतक्रतोः ।
ते गमिष्यन्ति सुकृतांल्लोकान् पापविवर्जितान् ॥ २०।१६ ॥
अवहस्य ततः शक्रो जगाम त्रिदिवं प्रभुः ।
आगम्यागम्य चैवैनं भूयो भूयो ऽवहस्य च ॥ २०।१७ ॥
शतक्रतुरनिर्विण्णः पृष्ट्वा पृष्ट्वा जगाम ह ।
यदा तु तपसोग्रेण चकर्ष देहमात्मनः ।
ततः शक्रो ऽब्रवीत् प्रीत्य ब्रूहि यत्ते चिकीर्षितम् ॥ २०।१८ ॥
कुरुरुवाच
ये श्रद्दधानास्तीर्थे ऽस्मिन् मानवा निवसन्ति ह ।
ते प्राप्नुवन्तु सदनं ब्रह्मणः परमात्मनः ॥ २०।१९ ॥
अन्यत्र कृतपापा ये पञ्चपातकदूषिताः ।
अस्मिस्तीर्थे नराः स्नात्वा मुक्ता यान्तु परां गतिम् ॥ २०।२० ॥
कुरुक्षेत्रे पुण्यतमं कुरुतीर्थं द्विजोत्तमाः ।
ते दृष्ट्वा पापमुक्तस्तु परं पदमवाप्नुयात् ॥ २०।२१ ॥
कुरुतीर्थे नरः स्नातो मुक्तो भवति किल्विषैः ।
कुरुणा समनुज्ञातः प्राप्नोति परमं पदम् ॥ २०।२२ ॥
स्वर्गद्वारं ततो गच्छेत् शिवद्वारे व्यवस्थितम् ।
तत्र स्नात्वा शिवद्वारे प्राप्नोति परमं पदम् ॥ २०।२३ ॥
ततो गच्छेदनरकं तीर्थं त्रैलोक्यविश्रुतम् ।
यत्र पूर्वे स्थितो ब्रह्म दक्षिणे तु महेश्वरः ॥ २०।२४ ॥
रुद्रपत्नी पश्चिमतः पद्मनाभोत्तरे स्थितः ।
मध्ये अनरकं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ॥ २०।२५ ॥
यस्मिन् स्नातस्तु मुच्येत पातकैरुपपातकैः ।
वैशाखे च यदा षष्ठी मङ्गलस्य दिनं भवेत् ॥ २०।२६ ॥
तदा स्नानं तत्र कृत्वा मुक्तो भवति पातकैः ।
यः प्रयच्छेत करकांश्चतुरो भक्ष्यसंयुतान् ॥ २०।२७ ॥
कलशं च तथा दद्यादपूपैः परिशोभितम् ।
देवताः प्रीमयेत् पूर्वं करकैरन्नसंयुतैः ॥ २०।२८ ॥
ततस्तु कलशं दद्यात् सर्वपातकनाशनम् ।
अनेनैव विधानेन यस्तु स्नानं समाचरेत् ॥ २०।२९ ॥
स मुक्ताः कलुषैः सर्वैः प्रयाति परमं पदम् ।
अन्यत्रापि यदा षष्ठी मङ्गलेन भविष्यति ॥ २०।३० ॥
तत्रापि मुक्तिफलदा क्रिया तस्मिन् भविष्यति ।
तीर्थे च सर्वतीर्थानां यस्मिन् स्नातो द्विजोत्तमाः ॥ २०।३१ ॥
सर्वदेवैरनुज्ञातः परं पदमवाप्नुयात् ।
काम्यकं च वनं पुण्यं सर्वपातकनाशनम् ॥ २०।३२ ॥
यस्मिन् प्रविष्टमात्रस्तु मुक्तो भवति किल्बिषैः ।
यमाश्रित्य वनं पुण्यं सविता प्रकटः स्थितः ॥ २०।३३ ॥
पूषा नाम द्विजश्रेष्ठ दर्शनान्मुक्तिमाप्नुयात् ।
आदित्यस्य दिने प्राप्ते तस्मिन् स्नातस्तु मानवः ।
विशुद्धदेहो भवति मनसा चिन्तितं लभेत् ॥ २०।३४ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये विशो ऽध्यायः