१८

लोमहर्षण उवाच ।
ततस्त्वौशनसं तीर्थं गच्छेत्तु श्रद्धायान्विताः ।
उशना यत्र संसिद्धो ग्रहत्वं च समाप्तवान् ॥ १८।१ ॥
तस्मिन् स्नात्वा विमुक्तस्तु पातकैर्जन्मसम्भवैः ।
ततो याति परं ब्रह्म यस्मान्नावर्तते पुनः ॥ १८।२ ॥
रहोदरो नाम मुनिर्यत्र मुक्तो बभूव ह ।
महता शिरसा ग्रस्तस्तीर्थमाहात्म्यदर्शनात् ॥ १८।३ ॥
कथं रहोदरो ग्रस्तः कथं मोक्षमवाप्तवान् ।
तीर्थस्य तस्य माहात्म्यमिच्छामः श्रोतुमादरात् ॥ १८।४ ॥
लोमहर्षण उवाच
पुरा वै दण्डकारण्ये राघवेण महात्मना ।
वसता द्विजशार्दूला राक्षसास्तत्र हिंसिताः ॥ १८।५ ॥
तत्रैकस्य शिरश्छिन्नं राक्षसस्य दुरात्मनः ।
क्षुरेण शितधारेण तत् पपात महावने ॥ १८।६ ॥
रहोदरस्य तल्लग्नं जङ्घायां वै यदृच्छया ।
वने विचारतस्तत्र अस्थि भित्त्वा विवेश ह ॥ १८।७ ॥
स तेन लग्नेन तदा द्विजातिर्न शशाक ह ।
अभिगन्तुं महाप्राज्ञस्तीर्थान्यायतनानि च ॥ १८।८ ॥
स पूतिना विस्रवता वेदनार्ते महामुनिः ।
जगाम सर्वतीर्थानि पृथिव्यां यानि कानि च ॥ १८।९ ॥
ततः स कथयामास ऋषीणां भावितात्मनाम् ।
ते ऽब्रुवन् ऋषयो विप्रं प्रयाह्यैशनसं प्रतिः ॥ १८।१० ॥
तेषां तद्वचनं श्रुत्वा जगाम स रहोदरः ।
ततस्त्वैशनसे तीर्थे तस्योपस्पृशतस्तदा ॥ १८।११ ॥
तच्छिरश्चरणं मुक्त्वा पपातान्तर्जले द्विजाः ।
ततः स विरजो भूत्वा पूतात्मा वीतकल्मषः ॥ १८।१२ ॥
आजगामाश्रमं प्रीतः कथयामास चाखिलम् ।
ते श्रुत्वा ऋषयः सर्वे तीर्थमाहात्म्यमुत्तमम् ।
कपालमोचनमिति नाम चक्रुः समागताः ॥ १८।१३ ॥
तत्रापि सुमहत्तीर्थ विश्वामित्रस्य विश्रुतम् ।
ब्राह्मण्यं लब्धवान् यत्र विश्वामित्रो महामुनिः ॥ १८।१४ ॥
तस्मिस्तीर्थवरे स्नात्वा ब्राह्मण्यं लभते ध्रुवम् ।
ब्राह्मणस्तु विशुद्धात्मा परं पदमवाप्नुयात् ॥ १८।१५ ॥
ततः पूथूदकं गच्छेन्नियतो नियताशनः ।
तत्र सिद्धस्तु ब्रह्मर्षि रुषङ्गुर्नाम नामतः ॥ १८।१६ ॥
जातिस्मरो रुषङ्गुस्तु गङ्गाद्वारे सदा स्थितः ।
अन्तकालं ततो दृष्ट्वा पुत्रान् वचनमब्रवीत् ।
इह श्रेयो न पस्यामि नयध्वं मां पृथूदकम् ॥ १८।१७ ॥
विज्ञाय तस्य तद्भावं रुषङ्गोस्ते तपोधनाः ।
तं वै तीर्थे उपानिन्युः सरस्वत्यास्तपोधनम् ॥ १८।१८ ॥
स तैः पुत्रैः समानीतः सरस्वत्यां समाप्लुतः ।
स्मृत्वा तीर्थगुणान् सर्वान् प्राहेदमृषिसत्तमः ॥ १८।१९ ॥
सरस्वत्युत्तरे तीर्थे यस्त्यजेदात्मनस्तनुम् ।
पृथूदके जप्यपरो नूनं चामरतां व्रजेत् ॥ १८।२० ॥
तत्रैव ब्रह्मयोन्यस्ति ब्रह्मणा यत्र निर्मिता ।
पृथूदकं समाश्रित्य सरस्वत्यास्तटे स्थितः ॥ १८।२१ ॥
चातुर्वर्ण्यस्य सृष्ट्यर्थमात्मज्ञानपरो ऽभवत् ।
तस्याभिध्यायतः सृष्टिं ब्रह्मणो ऽव्यक्तजन्मनः ॥ १८।२२ ॥
मुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा ।
ऊरुभ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततो ऽभवन् ॥ १८।२३ ॥
चातुर्वर्ण्यं ततो दृष्ट्वा आश्रमस्थं ततस्ततः ।
एवं प्रतिष्ठितं तीर्थं ब्रह्मयोनीति सञ्ज्ञितम् ॥ १८।२४ ॥
तत्र स्नात्वा मुक्तिकामः पुनर्योनिं न पश्यति ।
तत्रैव तीर्थं विख्यातमवकीर्णेति नामतः ॥ १८।२५ ॥
यस्मिन् तीर्थे बको दाल्भ्यो धृतराष्ट्रममर्षणम् ।
जुहाव वाहनैः सार्धं तत्राबुध्यत् ततो नृपः ॥ १८।२६ ॥
ऋषय ऊचुः
कथं प्रतिष्ठितं तीर्थमवकीर्णेन नामतः ।
धृतराष्ट्रेण राज्ञा च स किमर्थं प्रसादितः ॥ १८।२७ ॥
लोमहर्षण उवाच
ऋषयो नैमिषेया ये दक्षिणार्थं ययुः पुरा ।
तत्रैव च बको दाल्भ्यो दृतराष्ट्रा मयाचत ॥ १८।२८ ॥
तेनापि तत्र निन्दार्थमुक्तं पश्वनृतं तु यत् ।
ततः क्रोधेन महता मांसमुत्कृत्य तत्र ह । ।
१८।२९ पृथूदके महातीर्थे अवकीर्णेति नामतः ।
जुहाव धृतराष्ट्रस्य राष्ट्रं नरपतेस्ततः ॥ १८।३० ॥
हूयमाने तदा राष्ट्रे प्रवृत्ते यज्ञकर्मणि ।
अक्षियत ततो राष्ट्रं नृपतेर्दुष्कृतेन वै ॥ १८।३१ ॥
ततः स चिन्तयामास ब्राह्मणस्य विचेष्टितम् ।
पुरोहितेन संयुक्ते रत्नान्यादाय सर्वशः ॥ १८।३२ ॥
प्रसादनार्थं विप्रस्य ह्यवकीर्णं ययौ तदा ।
प्रसादितः स राज्ञा च तुष्टः प्रोवाच तं नृपम् ॥ १८।३३ ॥
ब्राह्मणा नावमन्तव्याः पुरुषेण विजानता ।
अवज्ञातो ब्राह्मणस्तु हन्यात् त्रिपुरुषं कुलम् ॥ १८।३४ ॥
एवमुक्त्वा स नृपतिं राज्येन यशसा पुनः ।
उत्थापयामास ततस्तस्य राज्ञो हिते स्थितः ॥ १८।३५ ॥
तस्मिंस्तीर्थे तु यः स्नाति श्रद्दधानो जितेन्द्रियः ।
स प्राप्नोति नरो नित्यं मनसा चिन्तितं फलम् ॥ १८।३६ ॥
तत्र तीर्थं सुविख्यातं यायातं नाम नामतः ।
यस्येह यजमानस्य मधु सुस्राव वै नदी ॥ १८।३७ ॥
तस्मिन् स्नातो नरो भक्त्या मुच्यते सर्वकिल्बिषैः ।
फलं प्राप्नोति यज्ञस्य अश्वमेधस्य मानवः ॥ १८।३८ ॥
मधुस्रवं च तत्रैव तीर्थं पुण्यतमं द्विजाः ।
तस्मिन् स्नात्वा नरो भक्त्या मधुनातर्पयेत् पितॄन् ॥ १८।३८ ॥
तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसञ्ज्ञितम् ।
तत्र स्नातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥ १८।३९ ॥
तत्रापि सुमहत्तीर्थं वसिष्ठोद्वाहसञ्ज्ञितम् ।
तत्र स्नातो भक्तियुक्तो वासिष्ठं लोकमाप्नुयात् ॥ १८।४० ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टादशो ऽध्यायः