१७

ऋषय ऊचुः ।
कथं मङ्कणकः सिद्धः कस्माज्जातो महानृषिः ।
नृत्यमानस्तु देवेन किमर्थं स निवारितः ॥ १७।१ ॥
लोमहर्षण उवाच
कश्यपस्य सुतो जज्ञे मानसो मङ्कणोमुनिः ।
स्नानं कर्तुं व्यवसितो गृहीत्वा वल्कलं द्विजः ॥ १७।२ ॥
तत्र गता ह्यप्सरसो रम्भाद्याः प्रियदर्शनाः ।
स्नायन्ति रुचिराः स्निग्धास्तेन सार्धमनिन्दिताः ॥ १७।३ ॥
ततो मुनेस्तदा क्षोभाद्रेतः स्कन्नं यदम्भसि ।
तद्रेतः स तु जग्राह कलशे वै महातपाः ॥ १७।४ ॥
सप्तधा प्रविभागं तु कलशस्थं जगाम ह ।
तत्रर्षयः स्पत जाता विदुर्यान् मरुतां गणान् ।
१७।५ वायुवेगो वायुबलो वायुहा वायुमण्डलः ।
वायुज्वलो वायुरेतो वायुचक्रश्च वीर्यवान् ॥ १७।६ ॥
एते ह्यपत्यास्तस्यर्षेर्धारयन्ति चराचरम् ।
पुरा मङ्कणकः सिद्धः कुशाग्रेणेति मे श्रुतम् ॥ १७।७ ॥
क्षतः किल करे विप्रास्तस्य शाकरसो ऽस्रवत् ।
स वै शाकरसं दृष्ट्वा हर्षाविष्टः प्रनुत्तवान् ॥ १७।८ ॥
ततः सर्वं प्रनृत्तं च सथावरं जङ्मं च यत् ।
प्रनुत्तं च जगद् दृष्ट्वा तेजसा तस्य मोहितम् ॥ १७।९ ॥
ब्रह्मादिभिः सुरैस्तत्र ऋषिभिश्च तपोधनैः ।
विज्ञप्तो वै महादेवो मुनेरर्थे द्विजोत्तमाः ॥ १७।१० ॥
नाय नृत्येद् यथा देव तथा त्वं कर्तुमर्हसि ।
ततो देवो मुनिं दृष्ट्वा हर्षाविष्टमतीव हि ॥ १७।११ ॥
सुरणां हितकामार्थं महादेवो ऽभ्यभाषत ।
हर्षस्थानं किमर्थं च तवेदं मुनिसत्तम ।
तपस्विनो धर्मपथे स्थितस्य द्विजसत्तम ॥ १७।१२ ॥
किं न पश्यसि मे ब्रह्मन् कराच्छाकरसं स्रुतम् ।
यं दृष्ट्वाहं प्रनुत्तो वै हर्षेण महतान्वितः ॥ १७।१३ ॥
तं प्रहस्याब्रवीद् देवो मुनिं रागेम मोहितम् ।
अहं न विस्मयं विप्र गच्छामीह प्रपश्यताम् ॥ १७।१४ ॥
एवमुक्त्वा मुनिश्रेष्ठं देवदेवो महाद्युतिः ।
अङ्गुल्यग्रेण विप्रेन्द्राः स्वाङ्गुष्ठं ताडयद् भवः ॥ १७।१५ ॥
ततो भस्म क्षतात् तस्मान्निर्गतं हिमसन्निभम् ।
तद् दृष्ट्वा व्रीडितोविप्रः पादयोः पतितो ऽब्रवीत् ॥ १७।१६ ॥
नान्यं देवादहं मन्ये शूलपाणेर्महात्मनः ।
चराचरस्य जगतो वरस्त्वमसि शूलधृक् ॥ १७।१७ ॥
त्वदाश्रयाश्च दृश्यन्ते सुरा ब्रह्मादयो ऽनघ ।
पूर्वस्त्वमसि देवानां कर्ता कारयिता महत् ॥ १७।१८ ॥
त्वत्प्रसादात् सुराः सर्वे मोदन्ते ह्यकुलोभयाः ।
एवं स्तुत्वा महादेवमृषिः स प्रणतो ऽब्रवीत् ॥ १७।१९ ॥
भगवंस्त्वप्रसादाद्धि तपो मे न क्षयं व्रजेत् ।
ततो देवः प्रसान्नात्मा तमृषिं वाक्यमब्रवीत् ॥ १७।२० ॥
ईश्वर उवाच
तपस्ते वर्द्धतां विप्र मत्प्रसादात् सहस्रधा ।
आश्रमे चेह वत्स्यामि त्वया सार्द्धमहं सदा ॥ १७।२१ ॥
सप्तसारस्वते स्नात्वा यो ममर्चिष्यते नरः ।
न तस्य दुर्लभं किञ्चिदिह लोके परत्र च ॥ १७।२२ ॥
सारस्वतं च तं लोकं गमिष्यति न संशयः ।
शिवस्य च प्रसादेन पाप्नोति परमं पदम् ॥ १७।२३ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये सप्तदशोध्यायः