लोमहर्षण उवाच ।
पवनस्य ह्रदे स्नात्वा दृष्ट्वा देवं महेश्वरम् ।
विमुक्तः कलुषैः सर्वैः शैवं पदमवाप्नुयात् ॥ १६।१ ॥
पुत्रशोकेन पवनो यस्मिल्लीनो बभूव ह ।
ततः सब्रह्मकैर्देवैः प्रसाद्य प्रकटीकृतः ॥ १६।२ ॥
अतो गच्छेत अमृतं स्थानं तच्छूलपाणिनः ।
यत्र देवैः सगन्धर्वैः हनुमान् प्रकटीकृतः ॥ १६।३ ॥
तत्र तीर्थे नरः स्नात्वा अमृतत्वमवाप्नुयात् ।
कुलोत्तारणमासाद्य तीर्थसेवी द्विजोत्तमः ॥ १६।४ ॥
कुलानि तारयेत् सर्वान् मातामहपितामहान् ।
शालिहोत्रस्य राजर्षेस्तीर्थं त्रैलोक्यविश्रुतम् ॥ १६।५ ॥
तत्र स्नात्वा विमुक्तस्तु कलुषैर्दैहसम्भवैः ।
श्रीकुञ्जं तु सरस्वत्यां तीर्थं त्रैलोक्यविश्रुतम् ॥ १६।६ ॥
तत्र स्नात्वा नरो भक्त्या अग्निष्टोमफलं लभेत् ।
ततो नैमिषकुञ्जं तु समासाद्य नरः शुचिः ॥ १६।७ ॥
नैमिषस्य च स्नानेन यत् पुण्यं तत् समाप्नुयात् ।
तत्र तीर्थं महाख्यातं वेदवत्या निषेवितम् ॥ १६।८ ॥
रावणेन गृहीतायाः केशेषु द्विजसत्तमाः ।
तद्वधाय च सा प्राणान् मुमुचे शोककर्शिता ॥ १६।९ ॥
ततो जाता गृहे राज्ञो नजकस्य महात्मनः ।
सीता नामेति विख्याता रामपत्नी पतिव्रता ॥ १६।१० ॥
सा हृता रावणेनेह विनाशायात्मनः स्वयम् ।
रामेण रावणं हत्वा अभिषिच्य विभिषणम् ॥ १६।११ ॥
समानीता गृहं सीता कीर्तिरात्मवता यथा ।
तस्यास्तीर्थे नरः स्नात्वा कन्यायज्ञफलं लभेत् ॥ १६।१२ ॥
विमुक्तः कलुषैः सर्वैः प्राप्नोति परमं पदम् ।
ततो गच्छेत सुमहद् ब्रह्मणः स्थानमुत्तमम ॥ १६।१३ ॥
यत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः ।
ब्राह्मणश्च विशुद्धत्मा परं पदमवाप्नुयात् ॥ १६।१४ ॥
ततो गच्छेत सोमस्य तीर्थं त्रैलोक्यदुर्लभम् ।
यत्र सोमस्तपस्तप्त्वा द्विजराज्यमवाप्नुयात् ॥ १६।१५ ॥
तत्र स्नात्वार्ऽचयित्वा च स्वपितॄन् दैवतानि च ।
निर्मलः स्वर्गमायाति कार्तिक्यां चन्द्रमा यथा । ।
१६।१६ सप्तसारस्वतं तीर्थं त्रैलोक्यस्यापि दुर्लभम् ।
यत्र सप्त सरस्वत्य एकीभूता वहन्ति च ॥ १६।१७ ॥
सुप्रभा काञ्चनाक्षी च विशाला मानसह्रदा ।
सरस्वत्योघनामा च सुवेणुर्विमलोदका ॥ १६।१८ ॥
पितामहस्य यजतः पुष्करेषु स्थितस्य ह ।
अब्रुवन् ऋषयः सर्वे नायं यज्ञो महाफलः ॥ १६।१९ ॥
न दृश्यते सरिच्छ्रेष्ठा यस्मादिह सरस्वती ।
तछ्रुत्वा भगवान् प्रीतः सस्माराथ सरस्वतीम् ॥ १६।२० ॥
पितामहेन यजता आहूता पुष्करेषु वै ।
सुप्रभा नाम सा देवी तत्र ख्याता सरस्वती ॥ १६।२१ ॥
तां दृष्ट्वा मुनयः प्रीता वेगयुक्तां सरस्वतीम् ।
पितामहं मानयन्तीं ते तु तां बहु मेनिरे ॥ १६।२२ ॥
एवमेषा सरिच्छ्रेष्ठा पुष्करस्था सरस्वती ।
समानीता सुरुक्षेत्रे मङ्कणेन महात्मना ॥ १६।२३ ॥
नैमिषे मुनयः स्थित्वा शौनकाद्यास्तपोधनाः ।
ते पृच्छन्ति महात्मानं पौराणं लोमहर्षणम् ॥ १६।२४ ॥
कथं यज्ञफलो ऽस्माकं वर्ततां सत्पथे भवेत् ।
ततो ऽब्रेवीन्महाभागाः प्रणम्य शिरसा ऋतीन् ॥ १६।२५ ॥
सरस्वती स्थिता यत्र तत्र यज्ञफलं महत् ।
एतच्छ्रुत्वा तु मनुयो नानास्वाध्यायवेदिनः ॥ १६।२६ ॥
समागम्य ततः सर्वे सस्मरुस्ते सरस्वतीम् ।
सा तु ध्याता ततस्तत्र ऋषिभिः सत्रयाजिभिः ॥ १६।२७ ॥
समागता प्लावनार्थं यज्ञे तेषां महात्मनाम् ।
नैमिषे काञ्चनाक्षी तु स्मृता मङ्कणकेन सा ॥ १६।२८ ॥
समागता कुरुक्षेत्रं पुण्यतोय सरस्वती ।
गयस्य यजमानस्य गयेष्वेव महाक्रतुम् ॥ १६।२९ ॥
आहूता च सरिच्छ्रेष्ठा गययज्ञे सरस्वती ।
विशालां नाम तां प्राहुरृषयः संशितव्रताः ॥ १६।३० ॥
सरित् सा हि समाहूता मङ्कणेन महात्मना ।
कुरुक्षेत्रं समायाता प्रविष्टा च महानदी ॥ १६।३१ ॥
उत्तरे कोशलाभागे पुण्ये देवर्षिसेविते ।
उद्दालकेन मुनिना तत्र ध्याता सरस्वती ॥ १६।३२ ॥
आजगाम सरिच्छ्रेष्ठा तं देशं मुनिकारणात् ।
पूज्यमाना मुनिगणैर्वल्कलाजिनसंवृतैः ॥ १६।३३ ॥
मनोहरेति विख्याता सर्वपापक्षयावहा ।
आहूता सा कुरुक्षेत्रे मङ्कणेन महात्मना ।
ऋषेः सम्माननार्थाय प्रविष्टा तीर्थमुत्तमम् ॥ १६।३४ ॥
सुवेणुरिति विख्याता केदारे या सरस्वती ।
सर्वपापाक्षया ज्ञेया ऋषिसिद्धिनिषेविता ॥ १६।३५ ॥
सापि तेनेह मुनिना आराध्य परमेश्वरम् ।
ऋषीणामुपकारार्थं कुरुक्षेत्रं प्रवेशिता ॥ १६।३६ ॥
दक्षेण यजता सापि गङ्गाद्वारे सरस्वती ।
विमलोदा भगवती दक्षेण प्रकटीकृता ॥ १६।३७ ॥
समाहूता ययौ तत्र मङ्कणेन महात्मना ।
कुरुक्षेत्रे तु कुरुणा यजिता च सरस्वती ॥ १६।३८ ॥
सरोमध्ये समानीता मार्कण्डेयेन धीमता ।
अभिष्टूय महाभागां पुण्यतोयां सरस्वतीम् ॥ १६।३९ ॥
यत्र मङ्कणकः सिद्धः सप्तसारस्वते स्थितः ।
नृत्यमानश्च देवेन शङ्करेण निवारितः ॥ १६।४० ॥
इति क्षीवामनुराणे सरोमाहात्म्ये षोडशो ऽध्यायः