१५

लोमहर्षण उवाच ।
मानुषस्य तु पूर्वेण क्रोशमात्रे द्विजोत्तमाः ।
आपगा नाम विख्याता नदी द्विजनिषेविता ॥ १५।१ ॥
श्यामाकं पयसा सिद्धमाज्येन च परिप्लुतम् ।
ये प्रयच्छन्ति विप्रेभ्यस्तेषां पापं न विद्यते ॥ १५।२ ॥
ये तु श्राद्धं करिष्यन्ति प्राप्य तामापगां नदीम् ।
ते सर्वकामसंयुक्ता भविष्यन्ति न संशयः ॥ १५।३ ॥
शंसन्ति सर्वे पितरः स्मरन्ति च पितामहाः ।
अस्माकं च कुले पुत्रः पौत्रो वापि भविष्यति ॥ १५।४ ॥
य आपगां नदीं गत्वा तिलैः सन्तर्पयिष्यति ।
तेन तृप्ता भविष्यामो यावत्कल्पशतं गतम् ॥ १५।५ ॥
नभस्ये मासि सम्प्राप्ते कृष्णपक्षे विशेषतः ।
चतुर्दश्यां तु मध्याह्ने पिण्डदो मुक्तिमाप्नुयात् ॥ १५।६ ॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मणः स्थनमुत्तमम् ।
ब्रह्मोदुम्बरमित्येवं सर्वलोकेषु पिश्रुतम् ॥ १५।७ ॥
तत्र ब्रह्मर्षिकुण्डेषु स्नातस्य द्विजसत्तमाः ।
सप्तर्षिणां प्रसादेन सप्तसोमफलं भवेत् ॥ १५।८ ॥
भरद्वाजो गौतमश्च जमदग्निश्च कश्यपः ।
विश्वामित्रो वसिष्ठश्च अत्रिश्च भगवानृपिः ॥ १५।९ ॥
एतैः समेत्य तत्कुण्डं कल्पितं भुवि दुर्लभम् ।
ब्रह्मणा सेवितं यस्माद् ब्रह्मोदुम्बरमुच्यते ॥ १५।१० ॥
तस्मिंस्तीर्थवरे स्नातो ब्रह्मणो ऽव्यक्तजन्मनः ।
ब्रह्मलोकमवाप्नोति नात्र कार्या विचारणा ॥ १५।११ ॥
देवान् पितॄन् समुद्दिश्य यो विप्रं भोजयिष्यति ।
पितरस्तस्य सुखिता दास्यन्ति भुवि दुर्लभम् ॥ १५।१२ ॥
सप्तर्षीश्च समुद्दश्य पृथम् स्नानं समाचरेत् ।
ऋषीणां च प्रसादेन सप्तलोकाधिपो भवेत् ॥ १५।१३ ॥
कपिस्थलेति विख्यातं सर्वपातकनाशनम् ।
यस्मिन् स्थितः खयं देवो वृद्धकेदारसञ्ज्ञितः ॥ १५।१४ ॥
तत्र स्नात्वार्ऽचयित्वा च रुद्रं दिण्डिसमन्वितम् ।
अन्तर्धानमवाप्नोति शिवलोके स मोदते ॥ १५।१५ ॥
यस्तत्र तर्पणं कृत्वा पिबते चुलकत्रयम् ।
दिण्डिदेवं नमस्कृत्य केदारस्य फलं लभेत् ॥ १५।१६ ॥
यस्तत्र कुरुते श्राद्धं शिवमुद्दिश्य मानवः ।
चैत्रसुक्लचतुर्दश्यां प्राप्नोति परमम्पदम् ॥ १५।१७ ॥
कलस्यां तु ततो गच्छेद् यत्र देवी स्वयं स्थिता ।
दुर्गा कात्यायनी भद्रा निद्रा माया सनातनी ॥ १५।१८ ॥
कलस्यां च नरः स्नात्वा दृष्ट्वा दुर्गा तटे स्थिताम् ।
संसारगहनं दुर्गन्निस्तरेन्नात्र संशयः ॥ १५।१९ ॥
ततो गच्छेत सरकं त्रैलोक्यस्यापि दुर्लभम् ।
कृष्णपक्षे चतुर्दश्यां दृष्ट्वा देवं महेश्वरम् ॥ १५।२० ॥
लभते सर्वकामांश्च शिवलोकं स गच्छति ।
तिस्राः कोट्यस्तु तीर्थानां सरके द्विजसत्तमाः ॥ १५।२१ ॥
रुद्रकोटिस्तथा कूपे सरोमध्ये व्यवस्थिता ।
तस्मिन् सरे च यः स्नात्वा रुद्रकोटिं स्मरेन्नरः ॥ १५।२२ ॥
पूजिता रुद्रकोटिश्च भविष्यति न संशयः ।
रुद्राणां च प्रसादेन सर्वदोषविवर्जितः ॥ १५।२३ ॥
ऐन्द्रज्ञानेन संयुक्तः परं पदमवाप्नुयात् ।
इडास्पदं च तत्रैव तीर्थं पापभयापहम् ॥ १५।२४ ॥
अस्मिन् मुक्तिमवाप्नोति दर्शनादेव मानवः ।
तत्र स्नात्वार्ऽथयित्वा च पितृदेवगणानपि ॥ १५।२५ ॥
न दुर्गतिमवाप्नोति मनसा चिन्तितं लभेत् ।
केदारं च महातीर्थं सर्वकल्मषनाशनम् ॥ १५।२६ ॥
तत्र स्नात्वा तु पुरुषः सर्वदानफलं लभेत् ।
किंरूपं च महातीर्थं तत्रैव भुवि दुर्लभम् ॥ १५।२७ ॥
सरकस्य तु पूर्वेण तीर्थं त्रैलोक्यविश्रुतम् ।
अन्यजन्म सुविख्यातं सर्वपापप्रणाशनम् ॥ १५।२८ ॥
नारसिंहं वपुः कृत्वा हत्वा दानवमूर्जितम् ।
तिर्यग्योनौ स्थितो विष्णुः सिंहेषु रतिमाप्नुवन् ॥ १५।२९ ॥
ततो देवाः सगन्धर्वा आराघ्य वरदं शिवम् ।
ऊचुः प्रणतसर्वाङ्गा विष्णुदेहस्य लम्भने ॥ १५।३० ॥
ततो देवो महात्मासौ शारभं रूपमास्थितः ।
युद्धं च कारयामास दिव्यं वर्षसहस्रकम् ।
युध्यमानौ तु तौ देवौ पतितौ सरमध्यतः ॥ १५।३१ ॥
तस्मिन् सरस्तटे विप्रो देवर्षिर्नारदः स्थितः ।
अश्वत्थवृक्षमाश्रित्य ध्यानस्थस्तौ ददर्श ह ॥ १५।३२ ॥
विष्णुश्चतुर्भुजो जज्ञे लिङ्गाकारः शिवः स्थितः ।
तौ दृष्ट्वा तत्र पुरुषौ तुष्टाव भक्तिभावितः ॥ १५।३३ ॥
नमः शिवाय देवाय विष्णवे प्रभविष्णवे ।
हरये च उमाभर्त्रे स्थितिकालभृते नमः ॥ १५।३४ ॥
हराय वहुरूपाय विश्वरूपाय विष्णवे ।
त्र्यम्बकाय सुसुद्धाय कुष्णाय ज्ञानहेतवे ॥ १५।३५ ॥
धन्यो ऽहं सुकृती नित्यं यद् दृष्टो पुरुषोत्तमौ ।
ममाश्रममिदं पुण्यं युवाभ्यां विमलीकृतम् ।
अद्यप्रभृति त्रैलोक्ये अन्यजन्मेति विश्रुतम् ॥ १५।३६ ॥
य इहागत्य स्नात्वा च पितॄन् सन्तर्पयिष्यति ।
तस्य श्रद्धान्वितस्येह ज्ञानमैन्द्रं भविष्यति ॥ १५।३७ ॥
अश्वत्थस्य तु यन्मूलं सदा तत्र वसाम्यहम् ।
अश्वत्थवन्दनं कृत्वा यमं रौद्रं न पश्यति ॥ १५।३८ ॥
ततो गच्छेत विप्रेन्द्रा नागस्य ह्रदमुत्तमम् ।
पौण्डरीके नरः स्नात्वा पुण्डरीकफलं लभेत् ॥ १५।३९ ॥
दशम्यां शुक्लपक्षस्य चैत्रस्य तु विशेषतः ।
स्नानं जपं तथा श्राद्धं मुक्तिमार्गप्रदायकम् ॥ १५।४० ॥
ततस्त्रिविष्टवं गच्छेत् तीर्थं देवनषेवितम् ।
तत्र वैतरणी पुण्या नदी पापप्रमोचनी ॥ १५।४१ ॥
तत्र स्नात्वार्ऽचयित्वा च शूलपाणिं वृषध्वजम् ।
सर्वपापविशुद्धात्मा गच्छत्येव परां गतिम् ॥ १५।४२ ॥
ततो गच्छेत विप्रेन्द्रा रसावर्तमनुत्तमम् ।
तत्र स्नात्वा भक्तियुक्तः सिद्धिमाप्नोत्यनुत्तमाम् ॥ १५।४३ ॥
चैत्र शुक्लचतुर्दश्यां तीर्थे स्नात्वा ह्यलेपके ।
पूजयित्वा शिवं तत्र पापलेपो न विद्यते ॥ १५।४४ ॥
ततो गच्छेन विप्रन्द्राः फलकीवनमुत्तमम् ।
यत्र देवाः सगन्धर्वाः साध्याश्च ऋषयः स्थिताः ।
तपश्चरन्ति विपुलं दिव्यं वर्षसहस्रकम् ॥ १५।४५ ॥
दृषद्वत्यां नरः स्नात्वा तर्पयित्वा च देवताः ।
अग्निष्टोमातिरात्राभ्यां फलं विन्दति मावनः ॥ १५।४६ ॥
सोमक्षये च सम्प्राप्ते सोमस्य च दिने तथा ।
यः श्राद्धं कुरुते मर्त्यस्तस्य पुण्यफलं शृणु ॥ १५।४७ ॥
गयायां च यता श्राद्ध पितृन् प्रीणाति नित्यशः ।
तथा श्राद्धं च कर्तव्यं फलकीवनमाश्रितैः ॥ १५।४८ ॥
मनसा स्मरते यस्तु फलकीवनमुत्तमम् ।
तस्यापि पितरस्तृप्तिं प्रयास्यन्ति न संशयः ॥ १५।४९ ॥
तत्रापि तीर्थं सुमहत् सर्वदेवैरलङ्कृतम् ।
तस्मिन् स्नातस्तु पुरुषो गोसहस्रफलं लभेत् ॥ १५।५० ॥
पाणिखाते नरः स्नात्वा पितृन् सन्तर्प्य मानवः ।
अवाप्नुयाद् राजसूयं साङ्ख्यं योगं च विन्दति ॥ १५।५१ ॥
ततो गच्छेत सुमहत् तीर्थं मिश्रकमुत्तमम् ।
तत्र तीर्थानि मुनिना मिश्रितानि महात्मना ॥ १५।५२ ॥
व्यासेन मुनिशार्दुला दधीच्यर्थं महात्मना ।
सर्वतीर्थेषु स स्नाति मिश्रके स्नाति यो नरः ॥ १५।५३ ॥
ततो व्यासवनं गच्छेन्नियतो नियताशनः ।
मनोजवे नरः स्नात्वा मिश्रके स्नाति यो नरः ॥ १५।५४ ॥
मनसा चिन्तितं सर्वं सिध्यते नात्र संशयः ।
गत्वा मधुवटीं चैव देव्यास्तीर्थं नरः शुचिः ॥ १५।५५ ॥
तत्र स्नात्वार्ऽचयेद् देवान् पितॄंश्च प्रयतो नरः ।
स देव्या समनुज्ञातो यथा सिद्धिं लभेन्नरः ॥ १५।५६ ॥
कौशिक्याः सङ्गमे यस्तु दृषद्वत्यां नरोत्तमः ।
स्नायीत नयताहारः सर्वपापैः प्रमुच्यते ॥ १५।५७ ॥
ततो व्यासस्थली नाम यत्र व्यासेन धीमता ।
पुत्रशोकाभिभूतेन देहत्यागाय निश्चयः ॥ १५।५८ ॥
कृतो देवैश्च विप्रेन्द्राः पुनरुत्थापितस्तदा ।
अभिगम्य स्थलीं तस्य पुत्रशोकं न विन्दति ॥ १५।५९ ॥
गिन्दत्तं कूपमासाद्य तिलप्रस्थं प्रदाय च ।
गच्छेत परमां सिद्धिं ऋणैर्मुक्तिमवाप्नुयात् ॥ १५।६० ॥
यह्नं च सुदिनं चैव द्वे तीर्थे भुवि दुर्लभे ।
तयोः स्नात्वा विशुद्धात्मा सूर्यलोकमपाप्नुयात् ॥ १५।६१ ॥
कृतजप्यं ततो गच्छेत् त्रिषु लोकेषु विश्रुतम् ।
तत्राभिषेकं कुवीन्त गङ्गायां प्रयतः स्थितः ॥ १५।६२ ॥
अर्चयित्वा महादेवमश्वमेधफलं लभेत् ।
कोटितीर्थं च तत्रैव दृष्ट्वा कोटीश्वरं प्रभुम् ॥ १५।६३ ॥
तत्र स्व्नात्वा श्रद्दधानः कोटियज्ञफलं लभेत् ।
ततो वामनकं गच्छेत् त्रिषु लोकेषु विश्रुतम् ॥ १५।६४ ॥
यत्र वामनरूपेण विष्णुना प्रभविष्णुना ।
बलेरपहृतं राज्यमिन्द्राय प्रतिपादितम् ॥ १५।६५ ॥
तत्र विष्णुपदेस्नात्वा अर्चयित्वा च वामनम् ।
सर्वपापविशुद्धात्मा विष्णुलोकमवाप्नुयात् ॥ १५।६६ ॥
ज्येष्ठाश्रमं च तत्रैव सर्वपातकनाशनम् ।
तं तु दृष्ट्वा नरो मुक्तिं सम्प्रयाति न संशयः ॥ १५।६७ ॥
ज्येष्ठे मासि सिते पक्षे एकादश्यामुपोषितः ।
द्वादश्यां च नरः स्नात्वा ज्येष्ठत्वं लभते नृपु ॥ १५।६८ ॥
तत्र प्रतिष्ठिता विप्रा विष्णुना प्रभविष्णुना ।
दीक्षाप्रतिष्ठासंयुक्ता विष्णुप्रीणनतत्पराः ॥ १५।६९ ॥
तेभ्यो दत्तानि श्राद्धानि दानानि विविधानि च ।
अक्षयाणि भविष्यन्ति यावन्मन्वन्तरस्थितिः ॥ १५।७० ॥
तत्रैव कोटितीर्थं च त्रिषु लोकेषु विश्रुतम् ।
तस्मिस्तीर्थे नरः स्नात्वा कोटियज्ञफलं लभेत् ॥ १५।७१ ॥
कोटीश्वरं नरो दृष्ट्वा तस्मितीर्थे महेश्वरम् ।
महादेवप्रसादेन गाणपत्यमवाप्नुयात् ॥ १५।७२ ॥
तत्रैव सुमहत् तीर्थं सूर्यस्य च महात्मनः ।
तस्मिन् स्नात्वा भक्तिभुक्तः सूर्यलोके महीयते ॥ १५।७३ ॥
ततो गच्छेत विप्रैन्द्रास्तीर्थं कल्मषनाशनम् ।
कुलोत्तारणनामानं विष्णुना कल्पितं पुरा ॥ १५।७४ ॥
वर्णानामाश्रमाणां च तारणाय सुनिर्मलम् ।
ब्रह्मचर्यात्परं मोक्षं य इच्छिन्ति सुनिर्मलम् ।
ते ऽपि तत्तीर्थमासाद्य पश्यन्ति परमं पदम् ॥ १५।७५ ॥
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
कुलानि तारयेत् स्नातः सप्त सप्त च सप्त च ॥ १५।७६ ॥
ब्राह्मणाः क्षत्रिया वैश्याः सूद्रा ये तत्परायणाः ।
स्नाता भक्तियुताः सर्वे पश्यन्ति परमं पदम् ॥ १५।७७ ॥
दूरस्थो ऽपि स्मरेद् यस्तु कुरुक्षेत्रं सवामनम् ।
सो ऽपि मुक्तिमवाप्नोति किं पुनर्न्निवसन्नरः ॥ १५।७८ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ने पञ्चदशो ऽध्यायः