१४

लोमहर्षण उवाच ।
ततो रामहृदं गच्छेत् तीर्थसेवी द्विजोत्तमः ।
यत्र रामेण विप्रेण तरसा दीप्ततेजसा ॥ १४।१ ॥
क्षत्रमुत्साद्य वीरेण ह्रदाः पञ्च निवेशिताः ।
पूरयित्वा नरव्याघ्र रुधिरेणेति नः श्रुतम् ॥ १४।२ ॥
पितरस्तर्पितास्तेन तथैव च पितामहाः ।
ततस्ते पितरः प्रीता राममूचुर्द्विजोत्तमाः ॥ १४।३ ॥
राम राम महाबाहो प्रीताः स्मस्तव भार्गव ।
अनया पितृभक्त्या च विक्रमेण च ते विभो ॥ १४।४ ॥
वरं वृणीष्व भद्रं ते किमिच्छसि महायशः ।
एवमुक्तस्तु पितृभी रामः प्रभवताः परः ॥ १४।५ ॥
अब्रवीत् प्राञ्जलिर्वाक्यं स पितृन् गगने स्थितान् ।
भवन्तो यदि मे प्रीता यद्य नुग्राह्यता मयि ॥ १४।६ ॥
पितृप्रसादादिच्छेयं तपसाप्यायनं पुनः ।
यच्च पोषाभिभूतेन क्षत्रमुत्सादितं मया ॥ १४।७ ॥
ततश्च पापान्मुच्येयं युष्माकं तेजसा ह्यहम् ।
ह्रदाश्चैते तीर्थभूता भवेयुर्भुवि विश्रुताः ॥ १४।८ ॥
एवमुक्ताः शुभं वाक्यं रामस्य पितरस्तदा ।
प्रत्यूचुः परमप्रीता रामं हर्षपुरस्कृताः ॥ १४।९ ॥
तपस्ते वर्द्धूतां पुत्र पितृभक्त्या विशेषतः ।
यच्च रोषाभिभूतेन क्षत्रमुत्सादितं त्वया ॥ १४।१० ॥
ततश्च पापान्मुक्तस्त्वं पातितास्ते क्वकर्मभिः ।
ह्रदाश्च तव तीर्थत्वं गमीष्यन्ति न संशयः ॥ १४।११ ॥
ह्रदेष्वेतेषु ये स्नात्वा स्वान् पितॄंस्तर्पयन्ति च ।
तेभ्यो दास्यन्ति पितरो यथाभिलषितं वरम् ॥ १४।१२ ॥
ईप्सितान् मानसान् कामान् स्वर्गवासं च शाश्वतम् ।
एवं दत्त्वा वरान् विप्रा रामस्य पितरस्तदा ॥ १४।१३ ॥
आमन्त्र्य भार्गवं प्रीतास्तत्रैवान्तर्हितास्तदा ।
एवं रामह्रदाः पुण्या भार्गवस्य महात्मनः ॥ १४।१४ ॥
स्नात्वा ह्रदेषु रामस्य ब्रह्मचारी शुचिव्रतः ।
राममभ्यर्च्य श्रद्धावान् विन्देद् बहु सुवर्णकम् ॥ १४।१५ ॥
वंशमूलं समासाद्य तीर्थसेवी सुसंयतः ।
स्ववंशसिद्धये विप्राः स्नात्वा वै वंशमूलके ॥ १४।१६ ॥
कायशोधनमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
शरीरसुद्धिमाप्नोति स्नातस्तस्मिन् न संशयः ॥ १४।१७ ॥
सुद्धदेहश्च तं याति यस्मान्नावर्तते पुनः ।
तावद् भ्रमन्ति तीर्थेषु सिद्धास्तीर्थपरायणाः ।
यावन्न प्राप्नुवन्तीह तीर्थं तत्कायशोधनम् ॥ १४।१८ ॥
तस्मिस्तीर्थे च सम्प्लाव्य कायं संयतमानसः ।
परं पदमवाप्नोति यस्मान्नावर्तते पुनः ।
१४।१९ ततो गच्छेत विप्रेन्द्रास्तीर्थं त्रैलोक्यविश्रुतम् ।
लोका यत्रोद्धताः सर्वे विष्णुना प्रभविष्णुना ॥ १४।२० ॥
लोकोद्धारं सामासाद्य तीर्थस्मरणतत्परः ।
स्नात्वातीर्थवरे तस्मिन् लोकान् पश्यति शाश्वतान् ॥ १४।२१ ॥
यत्र विष्णुः स्थितो नित्यं शिवो देवः सनातनः ।
तौ देवौ प्रणिपातेन प्रसाद्य मुक्तिमाप्नुयात् ॥ १४।२२ ॥
श्रीतीर्थं तु ततो गच्छेत् शालग्राममनुत्तमम् ।
तत्र स्नातस्य सान्निध्यं सदा देवी प्रयच्छति ॥ १४।२३ ॥
कपिलाह्रदमासाद्य तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र स्नात्वार्ऽचयित्वा च दैवतानि पितृस्तथा ॥ १४।२४ ॥
कपिलानां सहस्रस्य फलं विन्दति मानवः ।
तत्र स्थितं महादेवं कापिलं वपुरास्थितम् ॥ १४।२५ ॥
दृष्ट्वा मुक्तिमवाप्नोति ऋषिभिः पूजितं शिवम् ।
सूर्यतीर्थं समासाद्य स्नात्वा नियतमानसः ॥ १४।२६ ॥
अर्चयित्वा पितृन् देवानुपवासपरायणः ।
अग्निष्टोममवाप्नोति सूर्यलोकं च गच्छति ॥ १४।२७ ॥
सहस्रकिरणं देवं भानुं त्रैलोक्यविश्रुतम् ।
दृष्ट्वा मुक्तिमवाप्नोति नरो ज्ञानसमन्वितः ॥ १४।२८ ॥
भवानीवनामासाद्य तीर्थसेवी यथाक्रमम् ।
तत्राभिषेकं कुर्वाणो गोसहस्रफलं लभेत् ॥ १४।२९ ॥
पितामहस्य पिबतो ह्यमृतं पूर्वमेव हि ।
उद्गारात् सुरभिर्जाता सा च पातालमाश्रिता ॥ १४।३० ॥
तस्याः सुरभयो जाताः तनया लोकमातरः ।
ताभिस्तत्सकलं व्याप्तं पातालं सुनिरन्तरम् ॥ १४।३१ ॥
पितामहस्य यजतो दक्षिणार्थमुपाहृताः ।
आहुता ब्रह्मणा ताश्च विभ्रान्ता विवरेण हि ॥ १४।३२ ॥
तस्मिन् विवरद्वारे तु स्थितो गणपतिः स्वयम् ।
यं दृष्ट्वा सकलान् कामान् प्राप्नोतिसंयतेन्द्रियः ॥ १४।३३ ॥
सङ्गिनीं तु समासाद्य तीर्थं मुक्तिसमाश्रयम् ।
देव्यास्तीर्थे नरः स्नात्वा लभते रूपमुत्तमम् ॥ १४।३४ ॥
अनन्तां श्रियमाप्नोति पुत्रपौत्रसमन्वितः ।
भोगांश्च विपुलान् भुक्त्वा प्राप्नोति परमं पदम् ॥ १४।३५ ॥
ब्रह्मावर्ते नरः स्नात्वा ब्रह्मज्ञानसमन्वितः ।
भवते नात्र सन्देहः प्राणान् मुञ्चति स्वेच्छया ॥ १४।३६ ॥
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।
तस्य तीर्थं सरस्वत्यां यक्षेन्द्रस्य महात्मनः ॥ १४।३७ ॥
तत्र स्नात्वा महाप्राज्ञ उपवासपरायणः ।
यक्षस्य च प्रसादेन लभते कामिकं फलम् ॥ १४।३८ ॥
ततो गच्छेत विप्रेन्द्रा ब्रह्मवर्तं मुनिस्तुतम् ।
ब्रह्मावर्ते नरः स्नात्वा ब्रह्म चाप्नोति निश्चितम् ॥ १४।३९ ॥
ततो गच्छेत विप्रेन्द्राः सुतीर्थकमनुत्तमम् ।
तत्र सन्निहिता नित्यं पितरो दैवतैः सह ॥ १४।४० ॥
तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।
अश्वमेधमवाप्नोति पितृन् प्रीणाति शाश्वतान् ॥ १४।४१ ॥
ततो ऽम्बुवनं धर्मज्ञ समासाद्य यथाक्रमम् ।
कामेश्वरस्य तीर्थं तु स्नात्वा श्रद्धासमन्वितः ॥ १४।४२ ॥
सर्वव्याधिविनिर्मुक्तो ब्रह्मवाप्तिर्भवेद् ध्रुवम् ।
मातृतीर्थं च तत्रैव यत्र स्नातस्य भक्तितः ॥ १४।४३ ॥
प्रजा विवर्द्धते नित्यमनन्तां चाप्नुभाच्छ्रियम् ।
ततः शीतवनं गच्छेन्नियतो नियताशनः ॥ १४।४४ ॥
तीर्थं तत्र महाविप्रा महदन्यत्र दुर्लभम् ।
पुनाति दर्शनादेव दण्डकं च द्विजोत्तमाः ॥ १४।४५ ॥
केशानभ्युक्ष्य वै तस्मिन् पूतो भवति पापतः ।
तत्र तीर्थवरं चान्यत् स्वानुलोमायनं महत् ॥ १४।४६ ॥
तत्र विप्रा महाप्राज्ञा विद्वांसस्तीर्थतत्पराः ।
स्वनुलोमायने तीर्थे विप्रास्त्रैलोक्यविश्रुते ॥ १४।४७ ॥
प्राणायामैर्निहरन्ति स्वलोमानि द्विजोत्तमाः ।
पूतात्मानश्च ते विप्राः प्रयान्ति परमां गतिम् ॥ १४।४८ ॥
दशाश्वमेधिकं चैव तत्र तीर्थं सुविश्रुतम् ।
तत्र स्नात्वा भक्तियुक्तस्तदेव लभते फलम् ॥ १४।४९ ॥
ततो गच्छेत श्रद्धावान् मानुषं लोकविश्रुतम् ।
दर्शनात् तस्य तीर्थस्य मुक्तो भवति किल्बिषैः ॥ १४।५० ॥
पुरा कृष्णमृगास्तत्र व्याधेन शरपीडिताः ।
विगाह्य तस्मिन् सरसि मानुषत्वमुपागताः ॥ १४।५१ ॥
ततो व्याधाश्च ते सर्वे तानपृच्छन् द्विजोत्तमान् ।
मृगा अनेन वै याता अस्माभिः शरपीडिताः ॥ १४।५२ ॥
निमग्नास्ते सरः प्राप्य क्व ते याता द्विजोत्तमाः ।
ते ऽब्रुवंस्तत्र वै पृष्टा वयं ते च द्विजोत्तमाः ॥ १४।५३ ॥
अस्य तीर्थस्य माहात्म्यान् मानुषत्वमुपागताः ।
तस्माद् यूयं श्रद्दधानाः स्नात्वा तीर्थे विमत्सराः ॥ १४।५४ ॥
सर्वपापविनिर्मुक्ता भविष्यथ न संशयः ।
ततः स्नाताश्च ते सर्वे शुद्धदेहा दिवं गताः ॥ १४।५५ ॥
एतत् तीर्थस्य माहात्म्यं मानुषस्य द्विजोत्तमाः ।
ये शृण्वन्ति श्रद्दधानास्ते ऽपि यान्ति परां गतिम् ॥ १४।५६ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये चतुर्दशो ऽध्यायः