१३

ऋशय ऊचुः
वनानि सप्त नो ब्रूहि नव नद्यश्च याः स्मृताः ।
तीर्थानि च समग्राणि तीर्थस्नानफलं तथा ॥ १३।१ ॥
येन येन विधानेन यस्य तीर्थस्य यत् फलम् ।
तत् सर्वं विस्ततेणेह ब्रूहि पौराणिकोत्तम ॥ १३।२ ॥
लोमहर्षण उवाच।
शृणु सप्त वनानीह कुरुथेत्रस्य मध्यतः ।
येषां नामानि पुण्यानि सर्वपापहराणि च ॥ १३।३ ॥
काम्यकं च वनं पुण्यं तथादितिवनं महत् ।
व्यासस्य च वनं पुण्यं फलकीवनमेव च ॥ १३।४ ॥
तत्र सूर्यवनस्थानं तथा मधुवनं महत् ।
पुण्यं शीतवनं नाम सर्वकल्मषनाशनम् ॥ १३।५ ॥
वनान्येतानि वै सप्त नदीः शृणुत मे द्विजाः ।
सरस्वती नदी पुण्या तथा वैतरणी नदी ॥ १३।६ ॥
आपगा च महापुण्या गङ्गा मन्दाकिनी नदी ।
मधुस्रावा वासुनदी कौशिकी पापनाशिनी ॥ १३।७ ॥
दृषद्वती महापुण्या तथा हिरण्वती नदी ।
वर्षाकालवहाः सर्वा वर्जयित्वा सरस्वतीम् ॥ १३।८ ॥
एतासामुदकं पुण्यं प्रावृट्काले प्रकीर्तितम् ।
रजस्वलत्वमेतासां विद्यते न कदाचन ।
तीर्थस्य च प्रभावेण पुण्या ह्येताः सरिद्वराः ॥ १३।९ ॥
शृण्वन्तु मुनयः प्रीतास्तीर्थस्नानफलं सहत् ।
गमनं स्मरणं चैव सर्वकल्मषनाशनम् ॥ १३।१० ॥
रन्तुकं च नरो दृष्ट्वा द्वारपालं महाबलम् ।
यक्षं समभिवाद्यैव तीर्तयात्रां समाचरेत् ॥ १३।११ ॥
ततो गच्छेत विप्रान्द्रा नाम्नादितिवनं महत् ।
अदित्या यत्र गुत्रार्थं कृतं घोरं महत्तपः ॥ १३।१२ ॥
तत्र स्नात्वा च दृष्ट्वा च अदितिं देवमातरम् ।
पुत्रं जनयते शूरं सर्वदोषिविवर्जितम् ।
आदित्यशतसङ्काशं विमानं चाधिरोहति ॥ १३।१३ ॥
ततो गच्छेत विप्रेन्द्रा विष्णोः स्थानमनुत्तमम् ।
सवनं नाम विख्यातं यत्र सन्निहितो हरिः ॥ १३।१४ ॥
विमले च नरः स्नात्वा दृष्ट्वा च विमलेश्वरम् ।
निर्मलं स्वर्गमायाति रुद्रलोकं च गच्छति ॥ १३।१५ ॥
हरिं च बलदेवं च एकत्राससमन्वितौ ।
दृष्ट्वा मोक्षमवाप्नोति कलिकल्मषसम्भवैः ॥ १३।१६ ॥
ततः पारिप्लवं गच्छेत् तीर्थं त्रैलोक्यविश्रुतम् ।
तत्र स्नात्वा च दृष्ट्वा च ब्रह्माणं वेदसंयुतम् ॥ १३।१७ ॥
ब्रह्मवेदफलं प्राप्य निर्मलं स्वर्गमाप्नुयात् ।
तत्रापि सङ्गमं प्राप्य कौशिक्यां तीर्थसम्भवम् ।
सङ्गमे च नरः स्नात्वा प्राप्नोति परमं पदम् ॥ १३।१८ ॥
धरण्यास्तीर्थमासाद्य सर्वपापविमोचनम् ।
क्षान्तियुक्तो नरः स्नात्वा प्राप्नोति परमं पदम् ॥ १३।१९ ॥
धरण्यामपराधानि कृतानि पुरुषेण वै ।
सर्वाणि क्षमते तस्य स्नातमात्रस्य देहिनः ॥ १३।२० ॥
ततो दक्षाश्रमं गत्वा दृष्ट्वा देक्षेश्वरं शिवम् ।
अश्वमेधस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३।२१ ॥
ततः शालूकिनीं गत्वा स्नात्वा तीर्थे द्विजोत्तमाः ।
हरिं हरेण संयुक्तं पूज्य भक्तिसमन्वितः ।
प्रप्नोत्यक्षिमतांल्लोकान् सर्वपापविवर्जितान् ॥ १३।२२ ॥
सर्पिर्दधि समासाद्य नागानां तीर्थमुत्तमम् ।
तत्र स्नानं नरः कृत्वा मुक्तो नागभयाद् भवेत् ॥ १३।२३ ॥
ततो गच्छेत विप्रेन्द्रा द्वारपालं तु रन्तुकम् ।
तत्रोष्य रजनीमेकां स्नात्वा तीर्थवरे शुभे ॥ १३।२४ ॥
द्वितीयं पूजयेद् यत्र द्वारपालं प्रयत्नतः ।
ब्राह्मणान् भोजयित्वा च प्रणिपत्य क्षमापयेत् ॥ १३।२५ ॥
तव प्रसादाद् यक्षेन्द्र मुक्तो भवति किल्बिषैः ।
सिद्धिर्मयाभिलषिता तया सार्द्धं भवाम्यहम् ।
एवं प्रसाद्य यक्षेन्द्रं ततः पञ्चनदं व्रजेत् ॥ १३।२६ ॥
पञ्चनदाश्च रुद्रेण कृता दानवभीषणाः ।
तत्र सर्वेषु लोकेषु तीर्थं पञ्चनदं स्मृतम् ॥ १३।२७ ॥
कोटितीर्थानि रुद्रेण समाहृत्य यतः स्थितम् ।
तेन त्रैलोक्यविख्यातं कोटितीर्थं प्रचक्षते ॥ १३।२८ ॥
तस्मिन् तीर्थे नरः स्नात्वा दृष्ट्वा कोटीश्वरं हरम् ।
पञ्चयज्ञानवाप्नोति नित्यं श्रद्धासमन्वितः ॥ १३।२९ ॥
तत्रैव वामनो देवः सर्वदेवैः प्रतिष्ठितः ।
तत्रापि च नरः स्नात्वा ह्यग्निष्टोमफलं लभेत् ॥ १३।३० ॥
अश्विनोस्तीर्थमासाद्य श्रद्धावान् यो जितेन्द्रियः ।
रूपस्य भागी भवति यशस्वी च भवेन्नरः ॥ १३।३१ ॥
वाराहं तीर्थमाख्यातं विष्णुना परिकीर्तितम् ।
तस्मिन् स्नात्वा श्रद्दधानः प्राप्नोति परमं पदम् ॥ १३।३२ ॥
ततो गच्छेत विप्रेन्द्राः सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा व्याधिमुक्तो ऽभवत् पुरा ॥ १३।३३ ॥
तत्र सोमेश्वरे दृष्ट्वा स्नात्वा तीर्थवरे शुभे ।
राजसूयस्य यज्ञस्य फलं प्राप्नोति मानवः ॥ १३।३४ ॥
व्याधिभिश्च विनिर्मुक्तः सर्वदोषविवर्जितः ।
सोमलोकमपाप्नोति तत्रैव रमते चिरम् ॥ १३।३५ ॥
भूतेश्वरं च तत्रैव ज्वालामालेश्वरं तथा ।
तावुभौ लिङ्गावभ्यर्च्य न भूयो जन्म चाप्नुयात् ॥ १३।३६ ॥
एकहंसे नरः स्नात्वा गोसहस्रफलं लभेत् ।
कृतशोचं समासाद्य तीर्थसेवी द्विजोत्तमः ॥ १३।३७ ॥
पुण्डरीकमवाप्नोति कृकशौचो भवेन्नरः ।
ततो मुञ्जवटं नाम महादेवस्य धीमतः ॥ १३।३८ ॥
उपोष्य रजनीमेकां गाणपत्यमवाप्नयात् ।
तत्रैव च महाग्राही यक्षिणी लोकविश्रुता ॥ १३।३९ ॥
स्नात्वाबिगत्वा तत्रैव प्रसाद्य यक्षिणीं ततः ।
उपवासं च तत्रैव महापातकनाशनम् ॥ १३।४० ॥
कुरुक्षेत्रस्य तद् द्वारं विश्रुतं पुण्यवर्द्धूनम् ।
प्रदक्षिणमुपावर्त्य ब्राह्मणान् भोजयेत् ततः ।
पुष्करं च ततो गत्वा अभ्यर्च्य पितृदेवताः ॥ १३।४१ ॥
जामदग्न्येन रामेण आहृतं तन्महात्मना ।
कृतकृत्यो भवेद् राजा अश्वमेधं च विन्दति ॥ १३।४२ ॥
कन्यादानं च यस्तत्र कार्तिक्यां वै करिष्यति ।
प्रसन्ना देवतास्तस्य दास्यन्त्यभिमतं फरम् ॥ १३।४३ ॥
कपलश्च महायक्षो द्वारपालः खयं स्थितः ।
विघ्नं करोति पापानां दुर्गति च प्रयच्छति ॥ १३।४४ ॥
पत्नी तस्य महायक्षी नाम्नोदूखलमेखला ।
आहत्य दुन्दुभिं तत्र भ्रमते नित्यमेव हि ॥ १३।४५ ॥
सा ददर्श स्त्रियं चैकां सपुत्रां पापदेशजाम् ।
तामुवाच तदा यक्षी आहत्य निशि दुन्दुभिम् ॥ १३।४६ ॥
युगन्धरे दधि प्राश्य उषित्वा चाच्युतस्थले ।
तद्वद् भूतालये स्नात्वा सपुत्रा वस्तुमिच्छसि ॥ १३।४७ ॥
दिवा मया ते कथितं रात्रौ भक्ष्यामि निश्चितम् ।
एतच्छ्रुत्वा तु वचनं प्रणिपत्य च यक्षिणीम् ॥ १३।४८ ॥
उवाच दीनया वाचा प्रसादं कुरु भामिनि ।
ततः सा यक्षिणी तां तु प्रोवाच कृपयान्विता ॥ १३।४९ ॥
यदा सूर्यस्य ग्रहणं कालेन भविता क्वचित् ।
सन्निहत्यां तदा स्नात्वा पूता स्वर्गं कमिष्यसि ॥ १३।५० ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये त्रयोदसो ऽध्यायः