१२

लोमहर्षण उवाच ।
इत्युषेर्वचनं श्रुत्वा मार्कण्डेयस्य धीमतः ।
नदी प्रवाहसंयुक्ता कुरुक्षेत्रं विवेश ह ॥ १२।१ ॥
तत्र सा रन्तुकं प्राप्य पुण्यतोया सरस्वती ।
कुरक्षेत्रं समाप्लाव्य प्रयाता पश्चिमां दिशम् ॥ १२।२ ॥
तत्र तीर्थसहस्राणि ऋषिभिः सेवितानि च। तान्यहं कीर्तयिष्यामि प्रसादात् परमेष्ठिनः ॥ १२।३ ॥
तीर्थानां स्मरणं पुण्यं दर्शनं पापनाशनम् ।
स्नानं मुक्तिकरं प्रोक्तमपि दुष्टृतकर्मणः ॥ १२।४ ॥
ये स्मरन्ति च तीर्थानि देवताः प्रीणयन्ति च ।
स्नान्ति च श्रद्दधानाश्च ते यान्ति परमां गतिम् ॥ १२।५ ॥
अपवित्रः पवित्रो वा सर्वावस्थां गतो ऽपि वा ।
यः स्मरेत् कुरुक्षेत्रं स बाह्याभ्यन्तरः शुचिः ॥ १२।६ ॥
कुरुक्षत्रं गमिष्यामि कुरुक्षेत्रे वसाम्यहम् ।
इत्येवं वाचमुत्सृज्य सर्वपाषैः प्रमुच्यते ॥ १२।७ ॥
ब्रह्मज्ञानं गयाश्राद्धं गोग्रहे मरणं तथा ।
वासः पुंसां कुरुक्षेत्रे मुक्तिरुक्ता चतुर्विधा ॥ १२।८ ॥
सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् ।
तं देवनिर्मितं देशं ब्रह्मवर्तं प्रचक्षते ॥ १२।९ ॥
दूरस्थो ऽपि कुरुक्षेत्रे गच्छामि च वसाम्यहम् ।
एवं यः सततं ब्रूयात् सो ऽपि पाषैः प्रमुच्यते ॥ १२।१० ॥
तत्र चैव सरःस्नायी सरस्वत्यास्तटे स्थितः ।
तस्य ज्ञानं ब्रह्ममयमुत्पत्स्यति न संशयः ॥ १२।११ ॥
देवता ऋषयः सिद्धाः सेवन्ते कुरुजाङ्गलम् ।
तस्य संसेवनान्नित्यं ब्रह्म चात्मनि पश्यति ॥ १२।१२ ॥
चञ्चलं हि मनुष्यत्वं प्राप्य ये मोक्षकाङ्किणः ।
सेवन्ति नियतात्मानो अपि दुष्कृतकारिणः ॥ १२।१३ ॥
ते विमुक्ताश्च कलुषैरनेकजन्मसम्भवैः ।
पश्यन्ति निर्मलं देवं हृदयस्थं सनातनम् ॥ १२।१४ ॥
ब्रह्मवेदिः कुरुक्षेत्रं पुण्यं सान्निहितं सरः ॥ १२।१५ ॥
ग्रहनक्षत्रताराणां कालेन पतनाद् भयम् ।
कुरुक्षेत्रे मृतानां च पतनं नैव विद्यते ॥ १२।१६ ॥
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।
गन्धर्वाप्सरसो यक्षाः सेवन्ति स्थानकाङ्क्षिणः ॥ १२।१७ ॥
गत्वा तु श्रद्धाया युक्तः स्नात्वा स्थाणुमहाह्वदे ।
मनसा चिन्तितं कामं लभते नात्र संशयः ॥ १२।१८ ॥
नियमं त ततः कृत्वा गत्वा सरः प्रदक्षिणम् ।
रन्तुकं च समासाद्य क्षमयित्वा पुनः पुनः ॥ १२।१९ ॥
सरस्वत्यां नरः स्नात्वा यक्षं दृष्ट्वा प्रणम्य च ।
पुष्पं धूपं च नैवैद्यं दत्वा वाचमुदीरयेत् ॥ १२।२० ॥
तव प्रसादाद् यक्षेन्द्र वानानि सरितश्च याः ।
भ्रमिष्यामि च तीर्थानि अविघ्नें कुरु मे सदा ॥ १२।२१ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये द्वादशो ऽध्यायः