ऋषय ऊचुः
कथमेषा समुत्पन्ना नदीनामुत्तमा नदी ।
सकखती महाभागा कुरुक्षेत्रप्रवाहिना ॥ ११।१ ॥
कथं सरः समासाद्य कृत्वा तीर्थानि पार्श्वतः ।
प्रयाता पश्चिमामाशां दृश्याहृश्यगतिः शुभा ।
एतद् विस्तरतो ब्रूहि तीर्थंवंशं सनातनम् ॥ ११।२ ॥
लोमहर्षण उवाच
प्लक्षवृक्षात् समुद्भूता सरिच्छ्रेष्ठा सनातनी ।
सर्वपापक्षयकरी स्मरणादेव नित्यशः ॥ ११।३ ॥
सैषा शैलसहस्राणि विदार्य च महानदी ।
प्रविष्टा पुण्यतोयौघा वनं द्वैतमिति स्मृतम् ॥ ११।४ ॥
तस्मिन् पल्क्षे स्थितां दृष्ट्वा मार्कण्डेयो महामुनिः ।
प्रणिपत्य तदा मूर्ध्ना तुष्टावाथ सरस्वतीम् ॥ ११।५ ॥
त्वं देवि सर्वलोकानां माता देवारणिः शुभा ।
सदसद् देवि यत्किञ्चिन्मोक्षदाय्यर्थवत् पदम् ॥ ११।६ ॥
तत् सर्वं त्वयि संयोगि योगिवद् देवि संस्थितम् ।
अक्षरं परमं देवी यत्र सर्वं प्रतिष्ठितम् ।
अक्षरं परमं ब्रह्म विश्वं चैतत् क्षरात्मकम् ॥ ११।७ ॥
दारुण्यवस्थितो वह्निर्भृमौ गन्धो यथा ध्रुवम् ।
तथा त्वयि स्थितं ब्रह्म जगच्चेदमशेषतः ॥ ११।८ ॥
ओङ्काराक्षरसंस्थानं यत् तद् देवि स्थिरास्थिरम् ।
तत्र मात्रात्रयं सर्वमस्ति यद् देवि नास्ति च ॥ ११।९ ॥
त्रयो लोकास्त्रयो वेदास्त्रैविद्यं पावकत्रयम् ।
त्रीणि ज्योतींषि वर्गाश्च त्रयो धर्मादयस्तथा ॥ ११।१० ॥
त्रयो गुणास्त्रयो वर्णास्त्रयो देवास्तथा क्रमात् ।
त्रैधातवस्तथावस्थाः पितरश्चैवमादयः ॥ ११।११ ॥
एतन्मात्रात्रयं देवि तव रूपं सरस्वति ।
विभिन्नदर्शनामाद्यां ब्रह्मणो हि सनातनीम् ॥ ११।१२ ॥
सोमसंस्था हविःसंस्था पाकसंस्था सनातनी ।
तास्त्वदुच्चारणाद् देवि क्रियन्ते ब्रह्मवादिभिः ॥ ११।१३ ॥
अनिर्देश्यपदं त्वेतदर्द्धमात्राश्रितं परम् ।
अविकार्यक्षयं दिव्यं परिणामविवर्जितम् ॥ ११।१४ ॥
तवैतत् परमं रूपं यन्न शक्यं मयोदितुम् ।
न चास्येन न वा जिह्वाताल्वोष्ठादिभिरुच्यते ॥ ११।१५ ॥
स विष्णुः स वृषो ब्रह्म चन्द्राक्रज्योतिरेव च ।
विश्वावासं विश्वरूपं विश्वात्मानमनीश्वरम् ॥ ११।१६ ॥
साङ्ख्यसिद्धान्तवेदोक्तं बहुशाखास्थिरीकृतम् ।
अनादिमध्यनिधनं सदसच्च सदेव तु ॥ ११।१७ ॥
एकं त्वनेकधाप्येकभाववेदसमाश्रितम् ।
अनाख्यं षड्गुणाख्यं च बह्वाख्यं त्रिगुणाश्रयम् ॥ ११।१८ ॥
नानाशक्तिविभावज्ञं नानाशक्तिविभावकम् ।
सुखात् सुखं महात्सौख्यं रूपं तत्त्वगुणात्मकम् ॥ ११।१९ ॥
एवं देवि त्वया व्याप्तं सकलं निष्कलं च यत् ।
अद्वैतावस्थितं ब्रह्म यच्च द्वैते व्यवस्थितम् ॥ ११।२० ॥
येऽर्था नित्या ये विनश्यन्ति चान्ये येऽर्थाः स्थूला ये तथा सन्ति सूक्ष्माः ।
ये वा भूमौ ये ऽन्तरिक्षेन्यतो वा तेषां देवि त्वत्त एवोपलब्धिः ॥ ११।२१ ॥
यद्वा मूर्तं यदमूर्तं समस्तं यद्वा भूतेष्वेकमेकं च किञ्चित् ।
यच्च द्वैते व्यस्तभूतं च लक्ष्यं तत्सम्बद्धं त्वत्स्वरैर्व्यञ्जनैश्च ॥ ११।२२ ॥
एवं स्तुता तदा देवी विष्णोर्जिह्वा सरस्वती ।
प्रत्युवाच महात्मानं मार्कण्डेय महासुनिम् ।
यत्र त्वं नेष्यसे विप्र तत्र यास्याम्यतन्द्रिता ॥ ११।२३ ॥
मार्कण्डेय उवाच
आद्यं ब्रह्मसरः पुण्यं ततो रामह्वदः स्मृतः ।
कुरुणा ऋषिणा पुष्टं कुरुक्षेत्रं ततः स्मृतम् ।
तस्य मध्येन वै गाढं पुण्या पुण्यजलावहा ॥ ११।२४ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये एकादशो ऽध्यायः