१०

लोमहर्षण उवाच ।
सपर्वतवनामुर्वीं दृष्ट्वा सङ्क्षुभितां बलिः ।
पप्रच्छोशनसं शुक्रं प्रणिपत्य कृताञ्जलिः ॥ १०।१ ॥
आचार्य क्षोभमायाति साब्धिभूमिधरा मही ।
कस्माच्च नासुरान् भागान् प्रतिगृह्णन्ति वह्नयः ॥ १०।२ ॥
इति पृष्टो ऽथ बलिना काव्यो वेदविदां वरः ।
उवाच दैत्याधिपतिं चिरं ध्यात्वा महामतिः ॥ १०।३ ॥
अवतीर्णो जगद्योनिः कश्यपस्य गृहे हरिः ।
वामनेनेह रूपेण परमात्मा सनातनः ॥ १०।४ ॥
स नूनं यज्ञमायाति तव दानवपुङ्गव ।
तत्पादन्यासविक्षोभादियं प्रचलिता मही ॥ १०।५ ॥
कम्पन्ते गिरयश्चेमे क्षुभिता मकरालयाः ।
नेयं भूतपतिं भूमिः समर्था वोढुमीश्वरम् ॥ १०।६ ॥
सदेवासुरगन्धर्वा यक्षराक्षसपन्नगा ।
अनेनैव धृता भूमिरापो ऽग्निः पवनो नभः ।
धारयत्यखिलान् देवान् मनुष्यांश्च महासुरान् ॥ १०।७ ॥
इयमस्य जगद्धातुर्माया कृष्णस्य गह्वरी ।
धार्यधारकभावेन यया सम्पीडितं जगत् ॥ १०।८ ॥
तत्सन्निधानादसुरा न भागार्हाः सुरद्विषः ।
भुञ्जते नासुरान् भागानपि तेन त्रयो ऽग्नयः ॥ १०।९ ॥
शुक्रस्य वचनं श्रुत्वा हृष्टरोमाब्रवीद् बलिः ।
धन्यो ऽहं कृतपुण्यश्च यन्मे यज्ञपतिः स्वयम् ।
यज्ञमभ्यागतो ब्रह्मन् मत्तः को ऽन्यो ऽधिकः पुमान् ॥ १०।१० ॥
यं योगिनः सदोद्युक्ताः परमात्मानमव्ययम् ।
द्रष्टुमिच्छन्ति देवो ऽसौ ममाध्वरमुपेष्यति ।
यन्मयाचार्य कर्तव्यं तन्ममादेष्टुमर्हसि ॥ १०।११ ॥
शुक्र उवाच
यज्ञभागभुजो देवा वेदप्रामाण्यतो ऽसुर ।
त्वया तु दानवा दैत्य यज्ञभागभुजः कृताः ॥ १०।१२ ॥
अयं च देवः सत्त्वस्थः करोति स्थितिपालनम् ।
विसृष्टं च तथायं च स्वयमत्ति प्रजाः प्रभुः ॥ १०।१३ ॥
भवांस्तु वन्दी भविता नूनं विष्णुः स्थितौ स्थितः ।
विदित्वैवं महाभागा कुरु यत् ते मनोगतम् ॥ १०।१४ ॥
त्वयास्य दैत्याधिपते क्वल्पके ऽपि हि वस्तुनि ।
प्रतिज्ञा नैव वोढव्या वाच्यं साम तथाफलम् ॥ १०।१५ ॥
कृतकृत्यस्य देवस्य देवार्थं चैव कुर्वतः ।
अलं दद्यां धनं देवे त्वेतद्वाच्यं तु याचतः ।
कृष्णस्य देवभूत्यर्थ प्रवृत्तस्य महासुर ॥ १०।१६ ॥
बलिरुवाच
ब्रह्मन् कथमहं ब्रूयामन्येनापि हि याचितः ।
नास्तीति किमु देवस्य संसाकस्याघहारिणः ॥ १०।१७ ॥
व्रतोपवासैर्विविधैर् यः प्रभुर्गृह्यते हरिः ।
स मे वक्ष्यति देहीति गोविन्दःकिमतो ऽधिकम् ॥ १०।१८ ॥
यदर्थं सुमहारम्भा दमशौचगुणान्वितैः ।
यज्ञा क्रियन्ते यज्ञेशः स मे देहीति वक्ष्यति ॥ १०।१९ ॥
तत्साधु सुकृतं कर्म तपः सुचरितं चनः ।
यन्मा देहीति विश्वेशः स्वयमेव वदिष्यति ॥ १०।२० ॥
नास्तीत्यहं गुरो वक्ष्ये तमभ्यागतमीश्वरम् ।
प्राणत्यागं करिष्ये ऽहं न तु नास्ति जने क्वचित् ॥ १०।२१ ॥
नास्तीति यन्मया नोक्तमन्येषामपि याचताम् ।
वक्ष्यामि कथमायाते तदद्य चामरे ऽच्युते ॥ १०।२२ ॥
श्लाघ्य एव हि वीराणां दानाच्चापत्समागमः ।
न बाधाकारि यद्दानं तदङ्गं बलवत् स्मृतम् ॥ १०।२३ ॥
मद्राज्ये नासुखी कश्चिन्न दरिद्रो न चातुरः ।
न दुःखितो न चोब्दिग्नो न शमादिविवर्जितः ॥ १०।२४ ॥
हृष्टस्तुष्टः सुगन्धी च तृप्तः सर्वसुखान्वितः ।
जनः सर्वो महाभाग किमुताहं सदा सुखी ॥ १०।२५ ॥
एतद्विशिष्टमत्राहं दानबीजफलं लभे ।
विदितं मुनिशार्दुल मयैतत् त्वन्मुखाच्छ्रुतम् ॥ १०।२६ ॥
मत्प्रसादपरो नूनं यज्ञेनाराधितो हिरः ।
मम दानमवाप्यासौ पुष्णाति यदि देवताः ॥ १०।२७ ॥
एतद्बीजवरे दानबीजं पतति चेद् गुरौ ।
जनार्दने महापात्रे किं न प्राप्तं ततो मया ॥ १०।२८ ॥
विशिष्टं मम तद्दानं परितुष्टाश्च देवताः ।
उवभोगाच्छतगुणं दानं सुखकरं स्मृतम् ॥ १०।२९ ॥
मत्प्रसादपरो नूनं जज्ञेनाराधितो हरिः ।
तेनाभ्येति न सन्देहो दर्शनादुपकारकृत् ॥ १०।३० ॥
अथ कोपेन चाभ्येति देवभागोपरोधतः ।
मां निहन्तुं ततो हि स्याद् वधः श्लाघ्यतरो ऽच्युतात् ॥ १०।३१ ॥
एतज्ज्ञात्वा मुनिश्रेष्ठ दानविघ्नाकरेण मे ।
नैव भाव्यं जगन्नाथे गोविन्दे समुपस्थिते ॥ १०।३२ ॥
लोमहर्षण उवाच
इत्येवं वदतस्तस्य प्राप्तस्तत्र जनार्दनः ।
सर्वदेवमयो ऽतिन्त्यो मायावामनरूपधृक् ॥ १०।३३ ॥
तं दृष्ट्वा यज्ञवाटं तु प्रविष्टमसुराः प्रभुम् ।
जग्मुः प्रभावतः क्षोभं तेजसा तस्य निष्प्रभाः ॥ १०।३४ ॥
जेषुश्च मुनयस्तत्र ये समेता महाध्वरे ।
वसिष्ठो गाधिजो गर्गो अन्ये च मुनिसत्तमाः ॥ १०।३५ ॥
बलिश्चैवाखिलं जन्म मेने शफलमात्मनः ।
ततः सङ्क्षोभमापन्नो न कश्चित् किञ्चिदुक्तवान् ॥ १०।३६ ॥
प्रत्येकं देवदेवेशं पूजयामास तेजसा ।
अथासुरपति प्रह्वं दृष्ट्वा मुनिवराश्च तान् ॥ १०।३७ ॥
देवदेवपतिः साक्षाद् विष्णुर्वामनरूपधृक् ।
तुष्टाव यज्ञं वह्निं च यजमानमथार्चितः ।
यज्ञकर्माधिकारस्थान् सदस्यान् द्रव्यसम्पदम् ॥ १०।३८ ॥
सदस्याः पात्रमखिलं वामनं प्रति तत्क्षणात् ।
यज्ञवाटस्थितं विप्राः साधु साध्वित्युदीरयन् ॥ १०।३९ ॥
स चार्घमादाय बलिः प्रोद्भूतपुलकस्तदा ।
पूजयामास गोविन्दं प्राह चेदं महासुरः ॥ १०।४० ॥
बलिरुवाच
सुवर्णरत्नसङ्घातो गजाश्वसमितिस्तथा ।
स्त्रियो वस्त्राण्यलङ्कारान् गावो ग्रामाश्च पुष्कलाः ॥ १०।४१ ॥
सर्वे च सरला पृथ्वी भवतो वा यदीप्सितम् ।
तद् ददासि वृणुष्वेष्टं ममार्थाः सन्ति ते प्रियाः ॥ १०।४२ ॥
इत्युक्तो दैत्यपतिना प्रीतिगर्भान्वितं वचः ।
प्राह सस्मितगम्भीरं भगवान् वामनाकृतिः ॥ १०।४३ ॥
ममाग्निशरणार्थाय देहि राजन् पदत्रयम् ।
सुवर्णग्रामरत्नादि तदर्थिभ्यः प्रदीयताम् ॥ १०।४४ ॥
बलिरुवाच
त्रिभिः प्रयोजनं किं ते पदैः पदवतां वर ।
शतं शतसहस्रं वा पदानां मार्गतां भवान् ॥ १०।४५ ॥
श्रीवामन उवाच
एतावता दैत्यपते कृतकृत्यो ऽस्मि मार्गणे ।
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥ १०।४६ ॥
एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।
वाचयामास वै तस्मै वामनाय महात्मने ॥ १०।४७ ॥
पाणौ तु पतिते तोये वामनो ऽभूदवामनः ।
सर्वेदेवमयं रूपं दर्शयामास तत्क्षणात् ॥ १०।४८ ॥
चन्त्रसूर्यौ तु नयने द्यौः शिरश्चरणौ क्षितिः ।
पादाङ्गुल्यः पिशाचास्तु हस्ताङ्गुल्यश्च गुह्यकाः ॥ १०।४९ ॥
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु सम्भूता रेखास्वप्सरसस्तथा ॥ १०।५० ॥
दृष्टिरृक्षाण्यशेषाणि केशाः सूर्याशवः प्रभोः ।
तारका रोमकूपाणि रोमेषु च महर्षयः ॥ १०।५१ ॥
बाहवो विदिशस्तस्य दिशः श्रोत्रे महात्मनः ।
अश्विनौ श्रवणे तस्य नासा वायुर्महात्मनः ॥ १०।५२ ॥
प्रसादे चन्द्रमा देवो मनो धर्मः समाश्रितः ।
सत्यमस्याभवद् वाणी जिह्वा देवी सरस्वती ॥ १०।५३ ॥
ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा ।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥ १०।५४ ॥
मुखे वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ॥ १०।५५ ॥
पृष्ठे ऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।
वक्षस्थले तथा रुद्रो धैर्ये चास्य महार्णवः ॥ १०।५६ ॥
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥ १०।५७ ॥
सर्वज्योतींषि यानीह तपश्च परमं महत् ।
तस्य देवाधिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥ १०।५८ ॥
तनौ कुक्षिषु वेदाश्च जानुनी च महामखाः ।
इष्टयः पशवश्चास्य द्विजानां चेष्टितानि च ॥ १०।५९ ॥
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महात्मनः ।
उपसर्पन्ति ते दैत्याः पतङ्गा इव पावकम् ॥ १०।६० ॥
चिक्षुरस्तु महादैत्यः पादाङ्गुष्ठं गृहीतवान् ।
दन्ताभ्यां तस्य वै ग्रीवामङ्गुष्ठेनाहनद्धरिः ॥ १०।६१ ॥
प्रमथ्य सर्वानसुरान् पादहस्ततलैर्विभुः ।
कृत्वा रूपं महाकायं सञ्जहाराशु मेदिनीम् ॥ १०।६२ ॥
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ।
नभो विक्रममाणस्य सक्थिदेशे स्थितावुभौ ॥ १०।६३ ॥
परं विक्रममाणस्य जानुमूले प्रभाकरौ ।
विष्णोरास्तां स्थितस्यैतौ देवपालनकर्मणि ॥ १०।६४ ॥
जित्वा लोकत्रयं तांश्च हत्वा चासुरपुङ्गवान् ।
पुरन्दराय त्रैलोक्यं ददौ विष्णुरुरुक्रमः ॥ १०।६५ ॥
सुतलं नाम पातालमधस्ताद्वसुधातलात् ।
बलेर्दत्तं भगवता विष्णुना प्रभविष्णुना ॥ १०।६६ ॥
अथ दैत्यैश्वरं प्राह विष्णुः सर्वेश्वरेश्वरः ।
यत् त्वया सलिलं दत्तं गृहीतं पाणिना मया ॥ १०।६७ ॥
कल्पप्रमाणं तस्मात् ते भविष्यत्यायुरुत्तमम् ।
वैवखते तथातीते काले मन्वन्तरे तथा ॥ १०।६८ ॥
सावर्णिके तु सम्प्राप्ते भवानिन्द्रो भविष्यति ।
इदानीं भुवनं सर्वं दत्तं शक्राय वै पुरा ॥ १०।६९ ॥
चतुर्युगव्यवस्था च साधिका ह्येकसप्ततिः ।
नियन्तव्या मया सर्वे ये तस्य परिपन्थिनः ॥ १०।७० ॥
तेनाहं परया भक्त्या पूर्वमाराधितो बले ।
सुतलं नाम पातालं समासाद्य वचो मम ॥ १०।७१ ॥
वसासुर ममादेशं यथावत्परिपालयन् ।
तत्र देवसुखोपेते प्रासादशतसङ्कुले ॥ १०।७२ ॥
प्रोत्फुल्लपद्मसरसि ह्वदसुद्धसरिद्वरे ।
सुगन्धी पूपसम्पन्नो वराभरमभूषितः ॥ १०।७३ ॥
स्रक्चन्दनादिदिग्धाङ्गो नृत्यगीतमनोहरान् ।
उपभुञ्जन् महाभोगान् विविधान् दानवेश्वर ॥ १०।७४ ॥
ममाज्ञया कालमिमं तिष्ठ स्त्रीशतसंवृतः ।
यावत्सुरैश्च विप्रैश्च न विरोधं गमिष्यसि ॥ १०।७५ ॥
तावत् त्वं भुङ्क्ष्व सम्भोगान् सर्वकामसमन्वितान् ।
यदा सुरैश्च विप्रैश्च विरोधं त्वं करिष्यसि ।
बन्धिष्यन्ति तदा पासा वारुणा घोरदर्शनाः ॥ १०।७६ ॥
बलिरुवाच
तत्रासतो मे पाताले भगवन् भवदाज्ञया ।
किं भविष्यत्युपादानमुपभोगोपपादकम् ।
आप्यायितो येन देव स्मरेयं त्वामहं सदा ॥ १०।७७ ॥
श्रीभगवानुवाच
दानान्यविधिदत्तानि श्राद्धान्यश्रोत्रियाणि च ।
हुतान्यश्रद्धया यानि तानि दास्यन्ति ते फलम् ॥ १०।७८ ॥
अदक्षिणास्तथा यज्ञाः क्रियाश्चाविधिना कृताः ।
फलानि तव दास्यन्ति अधीतान्यव्रतानि च ॥ १०।७९ ॥
उदकेन विना पूजा विना दर्बेण या क्रिया ।
आज्येन च विना होमं फलं दास्यन्ति ते बले ॥ १०।८० ॥
यश्चेदं स्थानमाश्रित्य क्रियाः काश्चित्करिष्यति ।
न तत्र चासुरो भागो भविष्यति कदाचन ॥ १०।८१ ॥
ज्येष्ठाश्रमे महापुण्ये तथा विष्णुपदे ह्वदे ।
ये च श्राद्धानि दास्यन्ति व्रतं नियममेव च ॥ १०।८२ ॥
क्रिया कृता च या काचिद् विधिनाविधिनापि वा ।
सर्वं तदक्षयं तस्य भविष्यति न संशयः ॥ १०।८३ ॥
ज्येष्ठे मासि सिते पक्षे एकादस्यामुपोषितः ।
द्वादश्यां वामनं दृष्ट्वा स्नात्वा विष्णुपदे ह्वदे ।
दानं दत्त्वा यथाशक्त्या प्राप्नोति परमं पदम् ॥ १०।८४ ॥
लोमहर्षण उवाच
बलेर्वरमिमं दत्त्वा शक्राय च त्रिविष्टपम् ।
व्यापिना तेन रूपेण जगामादर्शनं हरिः ॥ १०।८५ ॥
शशास च यथापूर्वम्मिन्द्रस्त्रैलोक्यमूर्जितः ।
निःशेषं च तदा कालं बलिः पातालमास्थितः ॥ १०।८६ ॥
इत्येतत् कथितं तस्य विष्णोर्माहात्म्यमुत्तमम् ।
वामनस्य शृण्वन् यस्तु सर्वपाषैः प्रमुच्यते ॥ १०।८७ ॥
बलिप्रह्लादसंवादं मन्त्रितं बलिशुक्रयोः ।
बलेर्विष्णोश्च चरितं ये स्मरिष्यन्ति मानवाः ॥ १०।८८ ॥
नाधयो व्याधयस्तेषां न च मोहाकुलं मनः ।
भविष्यति द्विजश्रेष्ठाः पुंसस्तस्य कदाचन ॥ १०।८९ ॥
च्युतराज्यो निजं राज्यमिष्टप्राप्तिं वियोगवान् ।
समाप्नेति महाभागा नरः श्रुत्वा कथामिमाम् ॥ १०।९० ॥
ब्राह्मणो वेदमाप्नोति क्षत्रियो जयते महीम् ।
वैश्यो धनसमृद्धिं च शूद्रः सुखमवाप्नुयात् ।
वामनस्य च माहत्म्यं शृण्वन् पापैः प्रमुच्यते ॥ १०।९१ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये दशमो ऽध्यायः