०९

लोमहर्षण उवाच ।
इति दैत्यपतिः श्रुत्वा वचनं रौद्रमप्रियम् ।
प्रसादयामास गुरुं प्रणिपत्य पुनः पुनः ॥ ९।१ ॥
बलिरुवाच
प्रसीद तात मा कोपं कुरु मोहहते मयि ।
बलावलेपमूढेन मयैतद्वाक्यमीरितम् ॥ ९।२ ॥
मोहापहतविज्ञानः पपो ऽहं दितिजोत्तम ।
यच्छप्तो ऽस्मि दुराचारस्तत्साधु भवता कृतम् ॥ ९।३ ॥
राज्यभ्रंशं यशोभ्रंशं प्रप्स्यामीति ततस्त्वहम् ।
विषण्णो ऽसि यथा तात तथैवाविनये कृते ॥ ९।४ ॥
त्रैलोक्यराज्यमैश्वर्यमन्यद्वा नातिदुर्लभम् ।
ससारे दुर्लभास्तात गुरवो ये भवद्विधाः ॥ ९।५ ॥
प्रसीद तात मा कोपं कर्तुमर्हसि दैत्यप ।
त्वत्कोपपरिदग्धो ऽहं परितप्ये दिवानिशम् ॥ ९।६ ॥
प्रह्लाद उवाच
वत्स कोपेन मे मोहो जनितस्तेन ते मया ।
शापो दत्तो विवेकश्च मोहेनापहृतो मम ॥ ९।७ ॥
यदि मोहेन मे ज्ञानं नाक्षिप्तं स्यान्महासुर ।
तत्कथं सर्वगं जानन् हरिं कच्चिच्छपाम्यहम् ॥ ९।८ ॥
यो यः शापो मया दत्तो भवतो ऽसुरपुङ्गव ।
भाव्यमेतेन नूनं ते तस्मात्त्वं मा विषीद वै ॥ ९।९ ॥
अद्यप्रभृति देवेशे भगवत्यच्युते हरौ ।
भवेथा भक्तिमानीशे स ते त्राता भविष्यति ॥ ९।१० ॥
शापं प्राप्य च मे वीर देवेशः संस्मृतस्त्वया ।
तथा तथा वदिष्यामि श्रेयस्त्वं प्राप्स्यसे यथा ॥ ९।११ ॥
लोमहर्षण उवाच
अदितिर्वरमासाद्य सर्वकामसमृद्धिदम् ।
क्रमेण ह्युदरे देवो वृद्धिं प्राप्तो महायशाः ॥ ९।१२ ॥
ततो मासे ऽथ दशमे काले प्रसव आगते ।
अजायत स गोविन्दो भगवान् वामनाकृतिः ॥ ९।१३ ॥
अवतीर्णे जगन्नाथे तस्मिन् सर्वामरेश्वरे ।
देवाश्च मुमुचुर्दुःखं देवमातादितिस्तथा ॥ ९।१४ ॥
ववुर्वाताः सुखस्पार्शा नीरजस्कमभून्नभः ।
धर्मे च सर्वभूतानां तदा मतिरजायत ॥ ९।१५ ॥
नोद्वेगश्चाप्यभूद् देहे मनुजानां द्विजोत्तमाः ।
तदा हि सर्वभूतानां धर्मे मतिरजायत ॥ ९।१६ ॥
तं जातमात्रं भगवान् ब्रह्म लोकपितामहः ।
जातकर्मादिकां कृत्वा क्रियां तुष्टाव च प्रभुम् ॥ ९।१७ ॥
ब्रह्मोवाच
जयाधीश जयाजेय जय विश्वगुरो हरे ।
जन्ममृत्युजरातीत जयानन्त जयाच्युत ॥ ९।१८ ॥
जयाजित जयाशेष जयाव्यक्तस्थिते जय ।
परमार्थार्थ सर्वज्ञ ज्ञानज्ञेयार्थनिःसृत ॥ ९।१९ ॥
जयाशेष जगत्साक्षिञ्जगत्कर्तर्जगद्गुरो ।
जगतो ऽजगदन्तेश स्थितौ पालयते जय ॥ ९।२० ॥
जयाखिल जयाशेष जय सर्वहृदिस्थित ।
जयादिमध्यान्तमय सर्वज्ञानमयोत्तम ॥ ९।२१ ॥
मुमुक्षुभिरनिर्देश्य नित्यहृष्ट जयेश्वर ।
योगिभिर्मुक्तिकामैस्तु दमादिघुणभूषण ॥ ९।२२ ॥
जयातिसूक्ष्म दुर्ज्ञेय जय स्थूल जगन्मय ।
जय सूक्ष्मातिसूक्ष्म त्वं जयानिन्द्रिय सेन्द्रिय ॥ ९।२३ ॥
जय स्वमायायोगस्थ शेषभोग जयाक्षर ।
जयैकदंष्ट्रप्रान्तेन समुद्धृतवसुन्धर ॥ ९।२४ ॥
नृकेसरिन् सुरारातिवक्षस्थलविदारण ।
साम्प्रतं जय विश्वात्मन् मायावामन केशव ॥ ९।२५ ॥
निजमायापरिच्छिन्न जगद्धातर्जनार्दन ।
जयाचिन्त्य जयानेकास्वरूपैकविध प्रभो ॥ ९।२६ ॥
वर्द्धस्व वर्धितानेकविकारप्रकृते हरे ।
त्वय्येषा जगतामीशे संस्थिता धर्मपद्धतिः ॥ ९।२७ ॥
न त्वामहं न चेशानो नेन्द्राद्यास्त्रिदशा हरे ।
ज्ञातुमीशा न मुनयः सनकाद्या न योगिनः ॥ ९।२८ ॥
त्वं मायापटसंवीतो जगत्यत्र जगत्पते ।
कस्त्वां वेत्स्यति सर्वेश त्वत्प्रसादं विना नरः ॥ ९।२९ ॥
त्वमेवाराधितो यस्य प्रसादसुमुखः प्रभो ।
स एव केवलं देवं वेत्ति त्वां नेतरो नज ॥ ९।३० ॥
तदीश्वरेश्वरेशान विभो वर्द्धस्व भावन ।
प्रभवायास्य विश्वस्य विश्वात्मन् पृथुलोचन ॥ ९।३१ ॥
लोमहर्षण उवाच
एलं स्तुतो हृषीकेशः स तदा वामनाकृतिः ।
प्रहस्य भावगम्भीरमुवाचारूढसम्पदम् ॥ ९।३२ ॥
स्तुतो ऽहं भवता पूर्वमिन्द्राद्यैः कश्यपेन च ।
मया च वः प्रतिज्ञातमिन्द्रस्य भुवनत्रयम् ॥ ९।३३ ॥
भृयश्चहं स्तुतो ऽदित्या तस्याश्चापि मयाश्रुतम् ।
यथा शक्राय दास्यामि त्रैलोक्यं हतकण्टकम् ॥ ९।३४ ॥
सो ऽहं तथा करिष्यामि यथेन्द्रो जगतः पतिः ।
भविष्यति सहस्राक्षः सत्यमेतद् ब्रवीमि वः ॥ ९।३५ ॥
ततः कृष्णाजिनं ब्रह्म हृषीकेशाय दत्तवान् ।
यज्ञोपवीतं भगवान् ददौ तस्य बृहस्पतिः ॥ ९।३६ ॥
आषाढमददाद् दण्डं मरीचिर्ब्रह्मणः सुतः ।
कमण्डलुं वसिष्ठश्च कौशं चीरमथाङ्गिराः ।
आसनं चैव पुलहः पुलस्त्यः पीतवाससी ॥ ९।३७ ॥
उपतस्थुश्च तं वेदाः प्रणवस्वरभूषणाः ।
शास्त्राण्यशेषाणि तथा साङ्ख्ययोगोक्तयश्च याः ॥ ९।३८ ॥
स वामनो जटी दण्डी छत्री धृतकमण्डलुः ।
सर्वदेवमयो देवो बलेरध्वरमभ्यगात् ॥ ९।३९ ॥
यत्र यत्र पदं विप्रा भूभागे वामनो ददौ ।
ददाति भूमिर्विवरं तत्र तत्राभिपीडिता ॥ ९।४० ॥
स वामनो जडगतिर्मृदु गच्छन् सपर्वताम् ।
साब्धिद्वीपवतीं सर्वां चालयामास भेदिनीम् ॥ ९।४१ ॥
बृहस्पतिस्तु शनकैर्मार्गं दर्शयते शुभम् ।
तथा क्रीडाविनोदार्थमतिजाड्यगतो ऽभवत् ॥ ९।४२ ॥
ततः शेषो महानागो निःसृत्यासौ रसातलात् ।
साहाय्यं कल्पयामास देवदेवस्य चक्रिणः ॥ ९।४३ ॥
तदद्यापि च विख्यातमहेर्विलमनुत्तमम् ।
तस्य सन्दर्शनादेव नागेभ्यो न भयं भवेत् ॥ ९।४४ ॥

इति श्रीवामनपुराणे सरोमाहात्म्ये नवमो ऽध्यायः