लोमहर्षण उवाच ।
निस्तेसो ऽसुरान् दृष्टवा समस्तानसुरेश्वरः ।
प्रह्लादमथ पप्रच्छ बलिरात्मपितामहम् ॥ ८।१ ॥
बलिरुवाच
तात निस्तेजसो दैत्या निर्दग्धा इव वह्निना ।
किमेते सहसैवाद्य ब्रह्मदण्डहता इव ॥ ८।२ ॥
दुरिष्टं किं तु दैत्यानां कि कृत्या विधिनिर्मिता ।
नाशायैषां समुद्भुता येन निस्तेजसो ऽसुराः ॥ ८।३ ॥
लोमहर्षण उवाच
इत्यसुरवरस्तेन पृष्टः पौत्रेण ब्राह्मणाः ।
चिरं ध्यात्वा जगादेदमसुरं तं तदा बलिम् ॥ ८।४ ॥
प्रह्लाद उवाच
चलन्ति गिरयो भीमिर्जहाति सहसा धतिम् ।
सद्यः समुद्राः क्षुभिता दैत्या निस्तेजसः कृताः ॥ ८।५ ॥
सूर्योदये यथा पूर्वं तथा गच्छन्ति न ग्रहाः ।
देवानां च परा लक्ष्मीः करणेनानुमीयते ॥ ८।६ ॥
महदेतन्महाबाहो कारणं दानवेश्वर ।
न ह्यल्पमिति मन्तव्यं त्वया कार्यं कथञ्चन ॥ ८।७ ॥
लोमहर्षण उवाच
इत्युक्त्वा दानवपतिं प्रह्लादः सो ऽसुरोत्तमः ।
अत्यर्थभक्तो देवेशं जगाम मनसा हरिम् ॥ ८।८ ॥
स ध्यानपथगं कृत्वा प्रह्लादश्च मनो ऽसुरः ।
विचारयामास ततो यथा देवो जनार्दनः ॥ ८।९ ॥
स ददर्शोदरे ऽदित्याः प्रह्लादो वामनाकृतिम् ।
तदन्तश्च वसून् रुद्रानश्विनौ सरुतास्तथा ॥ ८।१० ॥
साध्यान् विश्वे तथादित्यान् गन्धर्वोरगराक्षसान् ।
विरोचनं च तनयं बलिं चासुरनायकम् ॥ ८।११ ॥
जम्भं कुजम्भं नरकं बाणमन्यांस्तथासुरान् ।
आत्मानमुर्वीं गगनं वायुं वारि हुताशनम् ॥ ८।१२ ॥
समुद्राद्रिसरिद्द्वीपान् सरांसि च पशून् महीम् ।
वयोमनुष्यानखिलांस्तथैव च सरीसृपान् ॥ ८।१३ ॥
समस्तलोकस्रष्टारं ब्रह्मणं भवमेव च ।
ग्रहनक्षत्रताराश्च दक्षाद्यांश्च प्रजापतीन् ॥ ८।१४ ॥
सम्पश्यन् विस्मयाविष्टः प्रकृतिस्थः क्षणात् पुनः ।
प्रह्लादः प्राह दैत्येन्द्रं बलिं वैरोचिनिं ततः ॥ ८।१५ ॥
तत्सञ्ज्ञातं मया सर्वं यदर्थं भवतामियम् ।
तेजसो हानिरुत्पन्ना शृण्वन्तु तदशेषतः ॥ ८।१६ ॥
देवदेवो जगद्योनिरयोनिर्जगदादिजः ।
अनादिरादिर्विश्वस्य वरेण्यो वरदो हरिः ॥ ८।१७ ॥
परावराणां परमः परापरसतां गतिः ।
प्रभुः प्रमाणं मानानां सप्तलोकगुरोर्गुरुः ।
स्थितिं कर्तु जगन्नाथः सो ऽचिन्त्यो गर्भतां गतः ॥ ८।१८ ॥
प्रभुः प्रभूणां परमः पराणामनादिमध्यो भगवाननन्तः ।
त्रैलोक्यमंशेन सनाथमेकः कर्तु महात्मादितिजो ऽवतीर्मः ॥ ८।१९ ॥
न यस्य रुद्रो न च पद्मयोनिर्नेन्द्रो न सूर्येन्दुमरीचिमिश्राः ।
जानन्ति दैत्याधिप यत्स्वरूपं स वासुदेवः कलयावतीर्णः ॥ ८।२० ॥
यमक्षरं वेदविदो वदन्ति विशन्ति यं ज्ञानविधूतपापाः ।
यस्मिन् प्रविष्टा न पुरर्भवन्ति तं वासुदेवं प्रणमामि देवम् ॥ ८।२१ ॥
भृतान्यशेषाणि यतो भवन्ति यथोर्मयस्तोयन्धेरजस्रम् ।
लयं च यस्मिन् प्रलये प्रयान्ति तं वासुदेवं प्रणतो ऽस्म्यचिन्त्यम् ॥ ८।२२ ॥
न यस्य रूपं न बलं प्रभावो न च प्रतापः परमस्य पुंसः ।
विज्ञायते सर्वपितामहाद्यैस्तं वासुदेवं प्रणमामि नित्यम् ॥ ८।२३ ॥
रूपस्य चक्षुर्ग्रहणे त्वगेषा स्पर्शग्रहित्री रसना रसस्य ।
घ्राणं च गन्धग्रहणे नियुक्तं न घ्राणचक्षुः श्रवणादि तस्य ॥ ८।२४ ॥
स्वयम्प्रकाशः परमार्थतो यः सर्वेश्वरो वेदितव्यः स युक्त्या ।
शक्यं तमीड्यमनघं च देवं ग्राह्यं नतो ऽहं हरिमीशितारम् ॥ ८।२५ ॥
येनैकदंष्ट्रेण समुद्धृतेयं धराचला धारयतीह सर्वम् ।
शेते ग्रसित्वा सकलं जगद् यस्तमीड्यमीशं प्रणतो ऽस्मि विष्णुम् ॥ ८।२६ ॥
अंशावतीर्णेन च येन गर्भे हृतानि तेजांसि महासुराणाम् ।
नमामि तं देवमनन्तमीशमशेषसंसारतरोः कुठारम् ॥ ८।२७ ॥
देवो जगद्योनिरयं महात्मा स षोड्शांशेन महासुरेन्द्राः ।
सुरेन्द्रमातुर्जठरं प्रविष्टो हृतानि वस्तेन बलं वपूंषि ॥ ८।२८ ॥
बलिरुवाच
तात को ऽयं हरिर्नाम यतो नो भयमागतम् ।
सन्ति मे शतशो दैत्या वासुदेवबलाधिकाः ॥ ८।२९ ॥
विप्रचित्तिः शिबिः शङ्कुरयः शङ्कुस्तथैव च ।
हयशिरा अश्वशिरा भङ्गकारो महाहनुः ॥ ८।३० ॥
प्रतापी प्रघशः शम्भुः कुक्कुराक्षश्च दुर्जयः ।
एते चान्ये च मे सन्ति दैतेया दानवास्तथा ॥ ८।३१ ॥
महाबला महावीर्या भूभारधरणक्षमाः ।
एषामेकैकशः कृष्णो न वीर्यार्द्धेन सम्मितः ॥ ८।३२ ॥
लोमहर्षम उवाच
पौत्रस्यैतद् वचः श्रुत्वा प्रह्लादो दैत्यसत्तमः ।
सक्रोधश्च बलिं प्राह वैकुण्ठाक्षेपवादिनम् ॥ ८।३३ ॥
विनाशमुपयास्यन्ति दैत्या ये चापि दानवाः ।
येषां त्वमीदृशो राजा दुर्बुद्धिरविवेकवान् ॥ ८।३४ ॥
देवदेवं महाभागं वासुदेवमजं विभुम् ।
त्वामृते पापसङ्कल्प को ऽन्य एवं वदिष्यति ॥ ८।३५ ॥
य एते भवता प्रोक्ताः समस्ता दैत्यदानवाः ।
सब्रह्मकास्तथा देवाः स्थावरान्ता विभूतयः ॥ ८।३६ ॥
त्वं चाहं च जगच्चेदं साद्रिद्रुमनदीवनम् ।
ससमुद्रद्वीपलोको ऽयं यश्चेदं सचराचरम् ॥ ८।३७ ॥
यस्याभिवाद्यवन्द्यस्य व्यापिनः परमात्मनः ।
एकांशांशकलाजन्म कस्तमेवं प्रवक्ष्यति ॥ ८।३८ ॥
ऋते विनाशाबिमुखं त्वामेकमविवेकिनम् ।
दुर्बुद्धिमजितात्मानं वृद्धानं शासनातिगम् ॥ ८।३९ ॥
शोच्यो ऽहं यस्य मे गेहे जातस्तव पिताधमः ।
यस्य त्वमीदृशः पुत्रो देवदेवावमानकः ॥ ८।४० ॥
तिष्ठत्वनेकसंसारसङ्घातौघविनाशिनि ।
कृष्णे भक्तिरहं तावदवेक्ष्यो भवता न किम् ॥ ८।४१ ॥
न मे प्रियतरः कृष्णादपि देहो ऽयमात्मनः ।
इति जानात्ययं लोको भवांश्च दितिनन्दन ॥ ८।४२ ॥
जानन्नपि प्रियतरं प्राणेभ्यो ऽपि हरिं मम ।
निन्दां करोषि तस्य त्वमकुर्वन् गौरवं मम ॥ ८।४३ ॥
विरोचनस्तव गुरुर्गुरुस्तयाप्यहं बले ।
ममापि सर्वजगतां गुरुर्नारायणो हरिः ॥ ८।४४ ॥
निन्दां करोषि तस्मिस्त्वं कृष्णे गुरुगुरोर्गुरौ ।
यस्मात् तस्मादिहैव त्वम् ऐश्वर्याद् भ्रांशमेष्यसि ॥ ८।४५ ॥
स देवो जगतां नाथो बले प्रभुर्जनार्दनः ।
नन्वहं प्रत्यवेक्ष्यस्ते भक्तिमानत्र मे गुरुः ॥ ८।४६ ॥
एतावन्मात्रमप्यत्र निन्दता जगतो गुरुम् ।
नापेक्षितस्त्वया यस्मात् तस्माच्छापं ददामि ते ॥ ८।४७ ॥
यथा मे शिरसश्छेदादिदं गुरुतरं बले ।
त्वयोक्तमच्युताक्षेपं राज्यभ्रष्टस्तथा पत ॥ ८।४८ ॥
यथा न कृष्णादपरः परित्राणं भवार्णवे ।
तथाचिरेण पश्येयं भवन्तं राज्यविच्युतम् ॥ ८।४९ ॥
इति श्रीवामनपुराणे सरोमाहात्म्ये अष्टमो ऽध्यायः